Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

sūryastavarājaḥ

सूर्यस्तवराजः

Verse

स्तुवंस्तत्र ततः साम्बः कृशो धमनि सन्ततः । राजन् नामसहस्रेण सहस्रांशुं दिवाकरम् ॥१॥

Verse

खिद्यमानं तु तं दृष्ट्वा सूर्यः कृष्णात्मजं तदा । स्वप्ने तु दर्शनं दत्त्वा पुनर्वचनमब्रवीत् ॥२॥

Verse

साम्ब साम्ब महाबाहो शृणु जाम्बवतीसुत । अलं नामसहस्रेण पठंस्त्वेवं स्तवं शुभम् ॥३॥

Verse

यानि नामानि गुह्यानि पवित्राणि शुभानि च । तानि ते कीर्तयिष्यामि श्रुत्वा तमवधारय ॥४॥

Verse

ॐ विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः । लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ॥५॥

Verse

लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा । तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥६॥

Verse

गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः । एकविंशतिरित्येष स्तव इष्टः सदा मम ॥७॥

Verse

शरीरारोग्यदश्चैव धनवृद्धियशस्करः । स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥८॥

Verse

य एतेन महाबाहो द्वे सन्ध्येऽस्तमनोदये । स्तौति मां प्रणतो भूत्वा सर्वपापैः प्रमुच्यते ॥९॥

Verse

कायिकं वाचिकं चापि मानसं यच्च दुष्कृतम् । तत् सर्वमेकजाप्येन प्रणश्यति ममाग्रतः ॥१०॥

Verse

एष जप्यश्च होमश्च सन्ध्योपासनमेव च । बलिमन्त्रोऽर्घ्यमन्त्रश्च धूपमन्त्रस्तथैव च ॥११॥

Verse

अन्नप्रदाने स्नाने च प्रणिपाते प्रदक्षिणे । पूजितोऽयं महामन्त्रः सर्वव्याधिहरः शुभः ॥१२॥

Verse

एवमुक्त्वा तु भगवान् भास्करो जगदीश्वरः । आमन्त्र्य कृष्णतनयं तत्रैवान्तरधीयत ॥१३॥

Verse

साम्बोऽपि स्तवराजेन स्तुत्वा सप्ताश्ववाहनम् । पूतात्मा नीरुजः श्रीमांस्तस्माद् रोगाद्विमुक्तवान् ॥१४॥

Verse

॥इति साम्बपुराणे रोगापनयने श्रीसूर्यवक्त्रविनिर्गतः स्तवराजः सम्पूर्णः॥

sūryastutiḥ
candrāṣṭaviṃśatināmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms