Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

sītā-vivāha-cūrṇikā

सीता-विवाह-चूर्णिका

Verse

(१) अथ जनक-नृपतिर्-मनोरथ-महार्णव-पारं गत्वा, (२) परमानन्द-जलधौ निमग्नः (३) जगच्चक्षुः-कुल-भूषणस्य (४) जगत्-त्रय-संरक्षण-दीक्षितस्य (५) नत-जन-कल्प-तरोः (६) श्रीकोदण्ड-दीक्षा-गुरोः (७) विवाह-महोत्सवाय,

Verse

(८) क्षिति-रथ-वर–पूरित-मनो-रथ–भगीरथ-वंश-जातं (९) अतिरथ-महारथ-पृथिवी-पति-वन्दितं (१०) दशरथ-महाराजं (११) रथ-गज-तुरग-पदाति-सहितं (१२) स-मन्त्रि-पुरोहितं (१३) स-पुत्र-कलत्रं (१४) सामात्यं स-परिवारम् आनाय्य सत्कृत्य,

Verse

(१५) नाना-विध-क्रमुक-नारिकेल-रम्भादि-फल-युक्त-सहस्र-शातकुम्भ-स्तम्भ-भूषिते (१६) जम्भारि-चिर-काङ्क्षिते (१७) परिपूर्ण-मनोरथ-परमानन्द-पौर-भक्तजन-परस्परकृत-सल्लापे (१८) सकल-जन-मनोहरालापे

Verse

(१९) किरीट-कवच-कुण्डल-केयूर-नूपुर-मुक्ताहार–विभूषित–नानाविध-मृदुल-चित्रासनस्थ–नानादेशागत–राजवर्य-वृन्दे (२०) लोचनानन्दे (२१) नानाविध-वर्ण-स्वर्णपुष्प-स्तबक-कोटि-देदीप्यमान–मलय-चन्दनारु-गुग्गुलु-गोघृतादि-दिव्य-परिमल-वासना-वस्तु-घुमघुमायमान-सभान्तरे (२२) निरन्तर-मणि-खचित-मुकुर-परम्परे (२३) भेरी-मृदङ्ग-मद्दल-काहल-दुन्दुभि-तुरीय-तुम्बुरु-वीणा-वेणु-नूपुर-मड्डुक-डिण्डिम-डमरुक-जञ्झरि-झल्लरि-धवलशङ्ख-पणव-पटहाद्यष्टादश-वाद्य-घोष-सन्तत-शब्दायमान-सकल-दिगन्तरे (२४) नारद-तुम्बुरु-वीणागान-मनोहरे (२५) सवत्स-गोसहस्राद्यनेक-कोटि-हिरण्य-वस्त्राभरण-भूदान-बहुमान-सन्तोषित–पात्रभूतोभय-सम्बन्धि-राजश्रेष्ठ-वंशावलि-नाम-गोत्र-प्रवरोच्चारण-निपुण–वसिष्ठ-वामदेव-विश्वामित्र-शतानन्दादि-सकल-मुनिगण-सङ्कीर्ण–विवाह-वेदि-मध्ये

Verse

(२६) कृत-स्तव-सिद्ध-साध्ये (२७) अब्जभव-जिष्णुमुख-हृष्ट-सकल-त्रिदश-सप्तमरुद् अष्टवसु-यक्षगण-सिद्धजन-रुद्रगण-सत्कृत–पवित्रतर–मित्र-कुल-रत्न-सुगुण-स्तव-समस्त-प्रशस्त-बिरुद-स्तोम-निनदे (२८) निरस्त-धनदेन्द्र-बिरुदे (२९) सङ्क्रन्दनाद्यमर-वृन्दावकीर्यमाण-मन्दार-कुसुम-मुख–नन्दक-वर्षे (३०) नवरत्न-मणिखचित-कनकमय-मण्टपे

Verse

(३१) किञ्चिद् आरब्ध-तारुण्यं (३२) नत-जनैक-कारुण्यं (३३) विदलित-महेश-चापं (३४) विधिमुख-सुरादिविदित-प्रतापं (३५) परिहृत-मुनिजन-तापं (३६) भानुकुल-रत्न-दीपं (३७) सम्पूरित-भक्त-जन-कामं (३८) सजल-जलधर-श्यामं (३९) सकल-लोकाभिरामं (४०) श्रीरामं सन्निवेश्य,

Verse

(४१) केतकी-चम्पक-मल्लिका-कुसुमाद्यलङ्कृत-नीलालक-वेणीं (४२) कलहंस-गामिनीं (४३) करुणावलोकिनीं (४४) अगणित-कल्याण-गुण-गण-शीलाम् (४५) अनघ-मणि-खचित-हेमकण्ठीं (४६) स्वर-जित-कल-कण्ठीं (४७) हाटक-मणिमय-ताटङ्कालङ्कृत-कपोलाम् (४८) अरविन्द-सुन्दर-मन्दहास-मुखीं (४९) श्रीरघुनन्दनाभिमुखीं कृत्वा

Verse

(५०) ‘इयं सीता मम सुता सहधर्मचरी तव। प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना॥’ (५१) इति क्षीराब्धिरिव महालक्ष्मीं श्रीमते नारायणाय (५२) शोभन-मन्त्राक्षत-हिरण्योदक-धारा-सहितं (५३) मन्द-स्मितां सीतां (५४) श्रीराम-चन्द्र-करारविन्दे समर्पयामास॥

Verse

कन्यां कनकसम्पन्नां सर्वाभरणभूषिताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥

Verse

विश्वम्भरः सर्वभूताः साक्षिण्यः सर्वदेवताः । इमां कन्यां प्रदास्यामि पितॄणां तारणाय च ॥

Verse

ततः—

Verse

गौरीं कन्यामिमां विप्र यथाशक्तिविभूषिताम् । गोत्राय शर्मणे तुभ्यं दत्तां विप्र समाश्रय ॥

Verse

कन्ये ममाग्रतो भूयाः कन्ये मे देवि पार्श्वयोः । कन्ये मे पृष्ठतो भूयास्त्वद्दानान्मोक्षमाप्नुयाम् ॥

Verse

मम वंशकुले जाता पालिता वत्सराष्टकम् । तुभ्यं विप्र मया दत्ता पुत्रपौत्रप्रवर्धिनी ॥

Verse

इति कन्यां निवेदयेत्।

vivāha-maṅgalāṣṭakam
rāmadvādaśanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms