Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

rāmadvādaśanāmastotram

रामद्वादशनामस्तोत्रम्

Verse

प्रथमं श्रीधरं विद्याद् द्वितीयं रघुनायकम् । तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥१॥

Verse

पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम् । सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥२॥

Verse

नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम् । एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥३॥

Verse

द्वादशैतानि नामानि यः पठेछ्रद्धयान्वितः । अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम् ॥४॥

Verse

अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम् । ब्रह्महत्या सुरापानं गोहत्यादि निवारणम् ॥५॥

Verse

सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम् । ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः । अश्वमेधशतं पुण्यं ब्रह्मलोकं गमिष्यति ॥६॥

Verse

॥इति श्री-स्कान्दपुराणे उत्तरखण्डे श्री-उमामहेश्वरसंवादे श्री-रामद्वादशनामस्तोत्रं सम्पूर्णम्॥

sītā-vivāha-cūrṇikā
rāmāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms