stotrasangraha
śivaśivāstutiḥ
शिवशिवास्तुतिः
Verse
नमो नमस्ते गिरिशाय तुभ्यं नमो नमस्ते गिरिकन्यकायै । नमो नमस्ते वृषभध्वजाय सिंहध्वजायै च नमो नमस्ते ॥१॥
Verse
नमो नमो भूतिविभूषणाय नमो नमश्चन्दनरूषितायै । नमो नमः फालविलोचनाय नमो नमः पद्मविलोचनायै ॥२॥
Verse
त्रिशूलहस्ताय नमो नमस्ते नमो नमः पद्मलसत्करायै । नमो नमो दिग्वसनाय तुभ्यं चित्राम्बरायै च नमो नमस्ते ॥३॥
Verse
चन्द्रावतंसाय नमो नमस्ते नमोऽस्तु चन्द्राभरणाञ्चितायै । नमः सुवर्णाङ्कितकुण्डलाय नमोऽस्तु रत्नोज्ज्वलकुण्डलायै ॥४॥
Verse
नमोऽस्तु ताराग्रहमालिकाय नमोऽस्तु हारान्वितकन्धरायै । सुवर्णवर्णाय नमो नमस्ते नमः सुवर्णाधिकसुन्दरायै ॥५॥
Verse
नमो नमस्ते त्रिपुरान्तकाय नमो नमस्ते मधुनाशनायै । नमो नमस्त्वन्धकसूदनाय नमो नमः कैटभसूदनायै ॥६॥
Verse
नमो नमो ज्ञानमयाय नित्यं नमश्चिदानन्दघनप्रदायै । नमो जटाजूटविराजिताय नमोऽस्तु वेणीफणिमण्डितायै ॥७॥
Verse
नमोऽस्तु कर्पूरसाकराय नमो लसत्कुङ्कुममण्डितायै । नमोऽस्तु बिल्वाम्रफलार्चिताय नमोऽस्तु कुन्दप्रसवार्चितायै ॥८॥
Verse
नमो जगन्मण्डलमण्डनाय नमो मणिभ्राजितमण्डनायै । नमोऽस्तु वेदान्तगणस्तुताय नमोऽस्तु विश्वेश्वरसंस्तुतायै ॥९॥
Verse
नमोऽस्तु सर्वामरपूजिताय नमोऽस्तु पद्मार्चितपादुकायै । नमः शिवालिङ्गितविग्रहाय नमः शिवालिङ्गितविग्रहायै ॥१०॥
Verse
नमो नमस्ते जनकाय नित्यं नमो नमस्ते गिरिजे जनन्यै । नमो नमोऽनङ्गहराय नित्यं नमो नमोऽनङ्गविवर्धनायै ॥११॥
Verse
नमो नमस्तेऽस्तु विषाशनाय नमो नमस्तेऽस्तु सुधाशनायै । नमो नमस्तेऽस्तु महेश्वराय श्रीचन्दने देवि नमो नमस्ते ॥१२॥
Verse
॥इति श्री-कार्त्तिकेयविरचिता श्री-शिवशिवास्तुतिः सम्पूर्णा॥
