stotrasangraha
śītalāṣṭakam
शीतलाष्टकम्
Verse
अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः। अनुष्टुप् छन्दः। शीतला देवता। लक्ष्मीर्बीजम्। भवानी शक्तिः। सर्वविस्फोटकनिवृत्यर्थे जपे विनियोगः॥
Verse
वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् । मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥१॥
Verse
वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् । यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥२॥
Verse
शीतले शीतले चेति यो ब्रूयाद् दाहपीडितः । विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥३॥
Verse
यस्त्वामुदकमध्ये तु ध्यात्वा सम्पूजयेन्नरः । विस्फोटकभयं घोरं गृहे तस्य न जायते ॥४॥
Verse
शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च । प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौषधम् ॥५॥
Verse
शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान् । विस्फोटकविदीर्णानां त्वमेकाऽमृतवर्षिणी ॥६॥
Verse
गलगण्डग्रहा रोगा ये चान्ये दारुणा नृणाम् । त्वदनुध्यानमात्रेण शीतले यान्ति सङ्क्षयम् ॥७॥
Verse
न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते । त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥८॥
Verse
मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् । यस्त्वां सञ्चिन्तयेद् देवि तस्य मृत्युर्न जायते ॥९॥
Verse
अष्टकं शीतलादेव्या यो नरः प्रपठेत् सदा । विस्फोटकभयं घोरं गृहे तस्य न जायते ॥१०॥
Verse
श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः । उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥११॥
Verse
शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥१२॥
Verse
रासभो गर्दभश्चैव खरो वैशाखनन्दनः । शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥१३॥
Verse
एतानि खरनामानि शीतलाग्रे तु यः पठेत् । तस्य गेहे शिशूनां च शीतलारुङ् न जायते ॥१४॥
Verse
शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् । दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥१५॥
Verse
॥इति श्री-स्कान्दपुराणे श्री-शीतलाष्टकं सम्पूर्णम्॥
