Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śītalāṣṭakam

शीतलाष्टकम्

Verse

अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः अनुष्टुप् छन्दः शीतला देवता लक्ष्मीर्बीजम् भवानी शक्तिः सर्वाविस्फोटकनिवृत्तये जपे विनियोगः ॥

Verse

ईश्वर उवाच ॥

Verse

वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बरम् । मार्जनीकलशोपेताम् शूर्पालंकृतमस्तकाम् ॥१॥

Verse

वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् । यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥२॥

Verse

शीतले शितले चेति यो ब्रूयद्दाहपीडितः । विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥३॥

Verse

यस्त्वामुद्कमध्ये तु धृत्वा पूजयते नरः । विस्फोटकभयं घोरं गृहे तस्य न जायते ॥४॥

Verse

शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च । प्रणष्टचक्षुषः पुंसस्त्वामाहुर्जीवनौष्धम् ॥५॥

Verse

शीतले तनुजान्रोगान् नृणां हरसि दुस्त्यजान् । विस्फोटकविदिर्णानां त्वमेकाऽमृतवर्षिणी ॥६॥

Verse

गलगण्डग्रह्या रोगा ये चान्ये दारुणा नृणाम् । त्वदनुध्यानमात्रेण शीतले यान्ति संक्षयम् ॥७॥

Verse

न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते । त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥८॥

Verse

मृणालतन्तुसदृशीं नाभिहृन्म यसंस्थिताम् । तस्त्वाम् साञ्चिन्तयेदेवि तस्य मृत्युर्न जायते ॥९॥

Verse

अष्टकं क्षीतलादेव्या यो नरः प्रपठेसदा । विस्फोटकभयं घोरं गृहे तस्य न जायते ॥१०॥

Verse

श्रोतव्यं पठितव्यं च श्रद्धाभाक्तिसमन्वितैः । उपसर्गविनाशाय परम् स्वस्त्ययनं महत् ॥११॥

Verse

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । शीतले त्वं जगद्धात्री शितलायै नमो नमः ॥१२॥

Verse

रासभो गर्द्भश्चैव खरोवैशाखनन्दनः । शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥१३॥

Verse

एतानि खरनामानि शीतलाग्रे तु यः पठेत् । तस्य गेहे शिशूनां च शीतलारुङ्न जायते ॥१४॥

Verse

शीतलाष्टकमेवेदं न देयं यस्यकस्यचित् । दातव्यं न सदा तस्मै श्रद्धाभक्तियुताय वै ॥१५॥

Verse

॥ इति श्रीस्कन्दपुराणे शीतलाष्टकं समाप्तम् ॥

acyutāṣṭakaṃ
rājarājeśvaryaṣṭakam

Read next

More on शीतलाष्टकम्

  • शीतलाष्टकम्Stotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms