Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

śaktyaṣṭottaraśatadivyasthānīyanāmastotram

शक्त्यष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रम्

Verse

एवमुक्तोऽब्रवीद् दक्षः केषु केषु मयाऽनघे । तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः ॥

Verse

सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि । सप्तलोकेषु यत् किञ्चिद् रहितं न मया विना ॥

Verse

तथाऽपि येषु स्थानेषु द्रष्टव्याः सिद्धिमीप्सुभिः । स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्त्वतः ॥

Verse

वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी । प्रयागे ललिता देवी कामुका गन्धमादने ॥१॥

Verse

मानसे कुमुदा नाम विश्वकाया तथेश्वरे । गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥२॥

Verse

मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे । कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते ॥३॥

Verse

एकाम्रके कीर्तिमती विश्वां विश्वेश्वरे विदुः । पुष्करे पुरुहूतेति केदारे मार्गदायिनी ॥४॥

Verse

नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका । स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्रिका ॥५॥

Verse

श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा । जया वराहशैले तु कमला कमलालये ॥६॥

Verse

रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ । महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी ॥७॥

Verse

शालग्रामे महादेवी शिवलिङ्गे जलप्रिया । मायापुर्यां कुमारी तु सन्ताने ललिता तथा ॥८॥

Verse

उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला । गयायां मङ्गला नाम विमला पुरुषोत्तमे ॥९॥

Verse

विपाशायामघोराक्षी पाटला पुण्ड्रवर्धने । नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥१०॥

Verse

विपुले विपुला नाम कल्याणी मलयाचले । कौटवी कोटितीर्थेषु सुगन्धा माधवे वने ॥११॥

Verse

गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया । शिवकुण्डे शिवानन्दा नन्दिनी देविकातटे ॥१२॥

Verse

रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने । देवकी मथुरायां तु पाताले परमेश्वरी ॥१३॥

Verse

चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी । सह्यद्वारे करीरा तु हरिश्चन्द्रे तु चन्द्रिका ॥१४॥

Verse

रमणा रामतीर्थे तु यमुनायां मृगावती । करवीरे महालक्ष्मीरुमादेवी विनायके ॥१५॥

Verse

अरोगा वैद्यनाथे तु महाकाले महेश्वरी । अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे ॥१६॥

Verse

माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे । छागलाण्डे प्रचण्डा तु चण्डिकामरकण्टके ॥१७॥

Verse

सोमेश्वरे वरारोहा प्रभासे पुष्करावती । देवमाता सरस्वत्यां पारा पारातटे मता ॥१८॥

Verse

महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी । सिंहिका कृतशौचे तु कार्त्तिकेये तु शङ्करी ॥१९॥

Verse

उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे । महासिद्धवने लक्ष्मीरनङ्गा भरताश्रमे ॥२०॥

Verse

जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते । देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ॥२१॥

Verse

भीमादेवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा । कपालमोचने शुद्धिर्माता कायावरोहणे ॥२२॥

Verse

शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा । काला तु चन्द्रभागायामच्चोदे शिवकारिणी ॥२३॥

Verse

वेणायाममृता नाम बदर्याम् उर्वशी तथा । औषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ॥२४॥

Verse

मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी । अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये ॥२५॥

Verse

गायत्री वेदवदने पार्वती शिवसन्निधौ । देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती ॥२६॥

Verse

सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी तथा । अरुन्धती सतीनां तु रामासु च तिलोत्तमा ॥२७॥

Verse

चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् । एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ॥२८॥

Verse

अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् । यः पठेच्छृणुयाद् वाऽपि सर्वपापैः प्रमुच्यते ॥२९॥

Verse

एषु तीर्थेषु यः कृत्वा स्नानं पश्यन्ति मां नरः । सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत् ॥३०॥

Verse

यस्तु मत्परमः कालं करोत्येतेषु मानवः । स भित्त्वा ब्रह्मसदनं पदमभ्येति शाङ्करम् ॥३१॥

Verse

नामाष्टशतकं यस्तु श्रावयेच्छिवसन्निधौ । तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः ॥३२॥

Verse

गोदाने श्राद्धकाले वा अहन्यहनि वा पुनः । देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति ॥३३॥

Verse

एवं वदन्ती सा तत्र ददाहात्मानमात्मना । स्वायम्भुवेऽपि काले च दक्षप्राचेतसोऽभवत् ॥३४॥

Verse

पार्वती चाभवद् देवी शिवदेहार्धधारिणी । मेनागर्भसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ॥३५॥

Verse

अरुन्धती जपन्त्येतत्तदाप्ता योगमुत्तमम् । पुरूरवाश्च राजर्षिर्लोकेषु जयतामगात् ॥३६॥

Verse

ययातिः पुत्रलाभं तु धनलाभं तु भार्गवः । तथाऽन्ये देवदैत्याश्च ब्राह्मणाः क्षत्रियास्तथा । वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम् ॥३७॥

Verse

यत्रेतल्लिखितं तिष्ठेत् पूज्यते देवसन्निधौ । न तत्र शोकदौर्गत्यं कदाचिदपि जायते ॥३८॥

Verse

॥इति श्रीमत्स्यमहापुराणे त्रयोदशेऽध्याये श्री-शक्त्यष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम्॥

gauryaṣṭottaraśatanāmastotram
sītāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms