stotrasangraha
kāverī prārthanā
कावेरी प्रार्थना
Verse
मरुद्वृधे महाभागे महादेवि मनोहरे । सर्वाभीष्टप्रदे देवि स्नास्थितां पुण्यवर्धिनि ॥१॥
Verse
सर्वपापक्षयकरे मम पापं विनाशय । कवेरकन्ये कावेरि समुद्रमहिषिप्रिये ॥२॥
Verse
देहि मे भक्तिमुक्ति त्वं सर्वतीर्थस्वरूपिणि । सिन्धुवर्ये दयासिन्धो मामुद्धर दयाम्बुधे ॥३॥
Verse
स्त्रियं देहि सुतं देहि श्रियं देहि ततः स्वगा । आयुष्यं देहि चाऽऽरोग्यं ऋणान्मुक्तं कुरुष्व माम् ॥४॥
Verse
तासां च सरितां मध्ये सह्यकन्याऽघनाशिनि । कावेरि लोकविख्याता जनतापनिवारिणि ॥५॥
Verse
॥इति श्री-ब्रह्माण्ड पुराणे कावरी प्रार्थना सम्पूर्णा॥
