stotrasangraha
kārtavīryārjuna-dvādaśanāmastotram
कार्तवीर्यार्जुन-द्वादशनामस्तोत्रम्
Verse
ॐ श्रीं क्रों कार्तवीर्यार्जुनाय नमः।
Verse
कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य स्मरणमात्रेण गतं नष्टं च लभ्यते ॥१॥
Verse
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥२॥
Verse
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः । द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥३॥
Verse
सम्पदस्तत्र जायन्ते जनस्तत्र वशं गतः । आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥४॥
Verse
सहस्रबाहुसशरं महितं सचापं रक्ताम्बरं रक्तकिरीटकुण्डलम् । चोरादि-दुष्टभय-नाशम् इष्टदं तं ध्यायेन्महाबल-विजृम्भित-कार्तवीर्यम् ॥५॥
Verse
यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् । यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान् ॥६॥
Verse
हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् । वाञ्चितार्थप्रदं नृणां स्वराज्यं सुकृतं यदि ॥७॥
Verse
॥इति श्री-कार्तवीर्यार्जुन-द्वादशनाम-स्तोत्रम्॥
