Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

bhaja govindam

भज गोविन्दम्

Verse

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते । सम्प्राप्ते सन्निहिते काले न हि न हि रक्षति डुकृञ् करणे ॥१॥

Verse

मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥२॥

Verse

नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम् । एतन्मांसावसादि विकारं मनसि विचिन्तय वारं वारम् ॥३॥

Verse

नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् । विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥४॥

Verse

यावद्वित्तोपार्जन-सक्तः तावन्निज-परिवारो रक्तः । पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे ॥५॥

Verse

यावत् पवनो निवसति देहे तावत् पृच्छति कुशलं गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ॥६॥

Verse

बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः । वृद्धस्तावच्चिन्तासक्तः परे ब्रह्मणि कोऽपि न सक्तः ॥७॥

Verse

का ते कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं कः कुत आयातः तत्त्वं चिन्तय तदिह भ्रातः ॥८॥

Verse

सत्सङ्गत्वे निःसङ्गत्वं निःसङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलितत्त्वं निश्चलितत्त्वे जीवन-मुक्तिः ॥९॥

Verse

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः । क्षीणे वित्ते कः परिवारः ज्ञाते तत्त्वे कः संसारः ॥१०॥

Verse

मा कुरु धनजनयौवनगर्वं हरति निमेषात् कालः सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥११॥

Verse

दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः । कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥१२॥

Verse

द्वादशमञ्जरिकाभिरशेषः कथितो वैयाकरणस्यैषः । उपदेशो भूद्विद्यानिपुणैः श्रीमच्छङ्करभगवच्छरणैः ॥

Verse

का ते कान्ता धनगतचिन्ता वातुल किं तव नास्ति नियन्ता । त्रिजगति सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ॥१३॥

Verse

जटिलो मुण्डी लुञ्छितकेशः काषायाम्बरबहुकृतवेषः । पश्यन्नपि चन पश्यति मूढः उदरनिमित्तं बहुकृतवेषः ॥१४॥

Verse

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम् ॥१५॥

Verse

अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुकसमर्पितजानुः । करतलभिक्षस्तरुतलवासः तदपि न मुञ्चत्याशापाशः ॥१६॥

Verse

कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम् । ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥१७॥

Verse

सुरमन्दिर-तरुमूल-निवासः शय्या भूतलमजिनं वासः । सर्व-परिग्रह भोगत्यागः कस्य सुखं न करोति विरागः ॥१८॥

Verse

योगरतो वा भोगरतो वा सङ्गरतो वा सङ्गविहीनः । यस्य ब्रह्मणि रमते चित्तं नन्दति नन्दति नन्दत्येव ॥१९॥

Verse

भगवद्गीता किञ्चिदधीता गङ्गाजललव-कणिका पीता । सकृदपि येन मुरारि समर्चा क्रियते तस्य यमेन न चर्चा ॥२०॥

Verse

पुनरपि जननं पुनरपि मरणं पुनरपि जननी-जठरे शयनम् । इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ॥२१॥

Verse

रथ्या-चर्पट-विरचित-कन्थः पुण्यापुण्य-विवर्जित-पन्थः । योगी योगनियोजित चित्तो रमते बालोन्मत्तवदेव ॥२२॥

Verse

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः । इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम् ॥२३॥

Verse

त्वयि मयि चान्यत्रैको विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः । सर्वस्मिन्नपि पश्यात्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥२४॥

Verse

शत्रौ मित्रे पुत्रे बन्धौ मा कुरु यत्नं विग्रहसन्धौ । भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥२५॥

Verse

कामं क्रोधं लोभं मोहं त्यक्त्वाऽऽत्मानं भावय कोऽहम् । आत्मज्ञानविहीना मूढाः ते पच्यन्ते नरकनिगूढाः ॥२६॥

Verse

गेयं गीता नामसहस्रं ध्येयं श्रीपति-रूपमजस्रम् । नेयं सज्जन-सङ्गे चित्तं देयं दीनजनाय च वित्तम् ॥२७॥

Verse

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः । यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥२८॥

Verse

अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥२९॥

Verse

प्राणायामं प्रत्याहारं नित्यानित्य-विवेकविचारम् । जाप्यसमेत-समाधिविधानं कुर्ववधानं महदवधानम् ॥३०॥

Verse

गुरुचरणाम्बुज-निर्भर-भक्तः संसारादचिराद्भव मुक्तः । सेन्द्रियमानस-नियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥३१॥

Verse

मूढः कश्चन वैयाकरणो डुकृञ्करणाध्ययन-धुरिणः । श्रीमच्छङ्कर-भगवच्छिष्यैः बोधित आसिच्छोधितकरणः ॥३२॥

Verse

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते । नामस्मरणादन्यमुपायं न हि पश्यामो भवतरणे ॥३३॥

Verse

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ भज गोविन्दं सम्पूर्णम्॥

gītagovindam
akrūrakṛta-daśāvatārastutiḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms