stotrasangraha
akrūrakṛta-daśāvatārastutiḥ
अक्रूरकृत-दशावतारस्तुतिः
Verse
नमः कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥१॥
Verse
अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नमः शूकरमूर्तये ॥२॥
Verse
नमस्तेऽद्भुतसिंहाय साधुलोकभयापह । वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥३॥
Verse
नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे । नमस्ते रघुवर्याय रावणान्तकराय च ॥४॥
Verse
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥५॥
Verse
नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने । म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥६॥
Verse
॥इति श्रीमद्भागवते महापुराणे दशमस्कन्धे चत्वारिंशेऽध्याये श्री-अक्रूरकृत दशावतारस्तुतिः सम्पूर्णा॥
