Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

sahasranAma

śrīlalitāsahasranāmastotram (pūrvabhāgaḥ)

श्रीललितासहस्रनामस्तोत्रम् (पूर्वभागः)

Verse

अगस्त्य उवाच- अश्वानन महाबुद्धे सर्वशास्त्रविशारद । कथितं ललितादेव्याश्चरितं परमाद्भुतम् ॥१॥

Verse

पूर्वं प्रादुर्भवो मातुः ततः पट्टाभिषेचनम् । भण्डासुरवधश्चैव विस्तरेण त्वयोदितः ॥२॥

Verse

वर्णितं श्रीपुरं चापि महाविभवविस्तरम् । श्रीमत् पञ्चदशाक्षर्या महिमा वर्णितस्तथा ॥३॥

Verse

षोढान्यासादयो न्यासा न्यासखण्डेसमीरिताः ॥४॥

Verse

अन्तर्यागक्रमश्चैव बहिर्यागक्रमस्तथा । महायागक्रमश्चैव पूजाखण्डे प्रकीर्तिताः ॥५॥

Verse

पुरश्चरणखण्डे तु जपलक्षणमीरितम् । होमखण्डे त्वया प्रोक्ता होमद्रव्यविधिक्रमः ॥६॥

Verse

चक्रराजस्य विद्यायाः श्रीदेव्यादेशिकात्मनोः । रहस्यखण्डे तादात्म्यं परस्परमुदीरितम् । स्तोत्रखण्डे बहुविधाः स्तुतयः परिकीर्तिताः ॥७॥

Verse

मन्त्रिणीदण्डिनीदेव्योः प्रोक्ते नामसहस्रके । न तु श्रीललितदेव्याः प्रोक्तं नामसहस्रकम् ॥८॥

Verse

तत्र मे संशयो जातो हयग्रीव दयनिधे । किं वा त्वया विस्मृतं तत् ज्ञात्वा वा समुपेक्षितम् ॥९॥

Verse

मम वा योग्यता नास्ति श्रोतुं नामसहस्रकं । किमर्थं भवता नोक्तं तत्र मे कारणं वद ॥१०॥

Verse

सूत उवाच- इति पृष्टो हयग्रीवो मुनिना कुम्भजन्मना । प्रहृष्टो वचनं प्राह तापसं कुम्भसंभव् ॥११॥

Verse

श्री हयग्रीव उवाच लोपामुद्रापतेऽगस्त्य! सावधानमनाः शृणु । नाम्नां सहस्रं यन्नोक्तं कारणं तद्वदामि ते ॥१२॥

Verse

रहस्यमिति मत्वाऽहं नोक्तवांस्ते न चान्यथा । पुनश्च पृच्छते भक्त्या तस्मात् तत्ते वदाम्यहम् । ब्रूयाच्छिष्याय भक्ताय रहस्यमपि देशिकः ॥१३॥

Verse

भवता न प्रदेयं स्यादभक्ताय कदाचन । न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् ॥१४॥

Verse

श्रीमातृभक्तियुक्तायश्रीविद्याराजवेदिने । उपासकाय शुद्धाय देयं नामसहस्रकम् ॥१५॥

Verse

यानि नामसहस्राणि सद्यःसिद्धिप्रदानि वै ॥१६॥

Verse

तन्त्रेषु ललितादेव्याः तेषु मुख्यमिदं मुने । श्रीविद्यैव तु मन्त्राणां तत्र कादिर्यथा परा ॥१७॥

Verse

पुराणां श्रीपुरमिव शक्तीनां ललिता यथा । श्रीविद्योपासकानां च यथा देवो वरः शिवः ॥१८॥

Verse

तथा नामसहस्रेषु वरमेतत् प्रकीर्तितम् ॥१९ ॥

Verse

यथाऽस्य पठनाद्देवी प्रीयते ललितांबिका । अन्यनामसहस्रस्य पठनान्न प्रीयते तथा । श्रमातुः प्रीतये तस्मादनिशं कीर्तयेदिदम् ॥२०॥

Verse

बिल्वपत्रैश्चक्रराजे योऽर्चयेल्ललितांबिकां । पद्मैर्वा तुलसीपत्रैरेभिर्नामसहस्रकैः ॥२१॥

Verse

सद्यः प्रसादं कुरुते तत्र सिंहासनेश्वरी । चक्राधिराजमभ्यर्च्य जप्त्वा पञ्चदशाक्षरीम् ॥२२॥

Verse

जपान्ते कीर्तयेन्नित्यं इदं नामसहस्रकं । जपपूजाद्यशक्तश्चेत् पठेन्नामसहस्रकम् ॥२३॥

Verse

सांगार्चेन सांगजपे यत्फलं तदवाप्नुयात् । उपासने स्तुतीरन्याः पठेदभ्युदयो हि सः ॥२४॥

Verse

इदं नामसहस्त्रं तु कीर्तयेन्नित्यकर्मवत् । चक्ररजार्चनं देव्या जपो नाम्नां च कीर्तनम् ॥२५॥

Verse

भक्तस्य कृत्यमेतावत् अन्यदभ्युदयं विदुः । भक्तस्यावश्यकमिदं नामसाहस्रकीर्तनम् ॥२६॥

Verse

तत्र हेतुं प्रवक्ष्यामि शृणु त्वं कुम्भसंभव । पुरा श्रीललितादेवी भक्तानां हितकाम्यया ॥२७॥

Verse

वाग्देवीर्वशिनीमुख्याः समाहूयेदमब्रवीत् । वाग्देवता वशिन्याद्या शृणुध्वं वचनं मम ॥२८॥

Verse

भवत्योमत्प्रसादेन प्रोल्लसद्वाग्विभूतयः । मद्भक्तानां वाग्विभूतिप्रदाने विनियोजिताः ॥२९॥

Verse

मच्चक्रस्य रहस्यज्ञा मम नामपरायणाः । मम स्तोत्रविधानाय तस्मादाज्ञापयामि वः ॥३०॥

Verse

कुरुध्वमङ्कितं स्तोत्रं मम नामसहस्रकैः । येन भक्तैस्तुताया मे सद्यः प्रीतिः परा भवेत् ॥३१॥

Verse

श्री हयग्रीव उवाच इत्याज्ञप्ता वचोदेव्यः श्रीदेव्या ललितांबया । रहस्यैर्नामभिर्दिव्यैः चक्रुः स्तोत्रमनुत्तमम् ॥३२॥

Verse

रहस्यनामसाहस्रं इति तद्विश्रुतं परं । ततः कदाचित्सदसि स्थिता सिंहासनेऽम्बिका ॥३३॥

Verse

स्वसेवावसरं प्रादात् सर्वेषां कुम्भसंभव । सेवार्थमागतास्तत्र ब्रह्माणीब्रह्मकोटयः ॥३४॥

Verse

लक्ष्मीनारायणानां च कोटयः समुपागताः । गौरीकोटिसमेतानां रुद्राणामपि कोटयः ॥३५॥

Verse

मन्त्रिणीदण्डिनीमुख्याः सेवार्थं या समागताः । शक्तयो विविधाकारास्तासां संख्या न विद्यते ॥३६॥

Verse

दिव्यौघा दानवौघाश्च सिद्धौघाश्च समागताः । तत्र श्री ललितादेवी सर्वेषां दर्शनं ददौ ॥३७॥

Verse

तेषु दृष्ट्वोपविष्टेषु स्वे स्वे स्थाने यथाक्रमम् । ततः श्रीललितादेवीकटाक्षाक्षेपचोदिताः ॥३८॥

Verse

उत्थाय वशिनीमुख्याः बद्धाञ्जलिपुटास्तदा । अस्तुवन् नामसाहस्रैः स्वकृतैर्ललिताम्बिकाम् ॥३९॥

Verse

श्रुत्वा स्तवं प्रसन्नाऽभूत् ललिता परमेश्वरी । सर्वे ते विस्मयं जग्मुः ये तत्र सदसि स्थिताः ॥४०॥

Verse

ततः प्रोवाच ललिता सदस्यान् देवतागणान् । ममाज्ञयैव वाग्देव्यश्चक्रुः स्तोत्रमनुत्तमम् ॥४१॥

Verse

अङ्कितं नामभिर्दिव्यैः मम प्रीतिविधायकैः ॥४२॥

Verse

तत्पठध्वं सदा यूयं स्तोत्रं मत्प्रीतिवर्धये । प्रवर्तयध्वं भक्तेषु मम नामसहस्रकम् ॥४३ ॥

Verse

इदं नामसहस्रं मे यो भक्तः पठते सकृत् । स मे प्रियतमो ज्ञेयस्तस्मै कामान् ददाम्यहम् ॥४४॥

Verse

श्रीचक्रे मां समभ्यर्च्य जप्त्वा पञ्चदशाक्षरीं । पश्चान्नामसहस्रं मे कीर्तयेन्मम तुष्टये ॥४५॥

Verse

मामर्चयतु वा मा वा विद्यां जपतु वा न वा । कीर्तयेन्नामसाहस्रं इदं मत्प्रीतये सदा ॥४६॥

Verse

मत्प्रीत्या सकलान् कामान् लभते नात्र संशयः । तस्मान्नामसहस्रं मे कीर्तयध्वं सदाऽऽदरात् ॥४७ ॥

Verse

श्री हयग्रीव उवाच इति श्री ललितेशानी शास्ति देवान् सहानुगान् ॥४८॥

Verse

तदाज्ञया तदारभ्य ब्रह्मविष्णुमहेश्वराः शक्तयो मन्त्रिणीमुख्या इदं नामसहस्रकम् ॥४९॥

Verse

पठन्ति भक्त्या सततं ललितापरितुष्टये । तस्मादवश्यं भक्तेन कीर्तनीयमिदं मुने ॥५०॥

Verse

आवश्यकत्वे हेतुस्तेमया प्रोक्तो मुनीश्वर । इदानीं नामसाहस्रं वक्ष्यामि श्रद्धया शृणु ॥५१॥

Verse

॥इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे श्रीललितासहस्रनामपुर्वभागो नाम प्रथमोऽध्याय: ॥

śrī gaṇapati sahasranāmastotram gakārādi
śrī lakṣmī sahastranāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms