Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

sahasranAma

śrīkṛṣṇasahasranāmastotram

श्रीकृष्णसहस्रनामस्तोत्रम्

Verse

ध्यान श्लोकाः केषांचित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् । केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत् ॥१॥

Verse

क्षीराब्धौ कृतसंस्तवः सुरगणैर्ब्रह्मादिभिः पण्डितैः प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले । कंसध्वंसकृते जगाम मथुरां सरामोऽवसद्वारकां गोपालोऽखिलगोपिकाजनसखः पायादपायत्स नः ॥२॥

Verse

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरं । गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुवादनरतं दिव्याङ्गभूषं भजे ॥३॥

Verse

श्री कृष्णसहस्रनामस्तोत्रम् कृष्णः श्रीवल्लभः शाङ्‌र्गी विष्वक्सेनः स्वसिद्धिदः । क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥१॥

Verse

भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः । देवदेवो दयासिन्धुर्देवदेवशिखामणिः ॥२॥

Verse

सुखभावः सुखाधारो मुकुन्दो मुदिताशयः । अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥३॥

Verse

शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः । अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥४॥

Verse

वसुधायासहरणो नारदप्रेरणोन्मुखः । प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥५॥

Verse

रौहिणेयकृतानन्दो योगज्ञाननियोजकः । महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥६॥

Verse

शूरवंशैकधीश्शौरिः कंसशङ्काविषादकृत् । वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः ॥७॥

Verse

वसुदेवसुतश्श्रीमान् देवकीनन्दनो हरिः । आश्चर्यबालश्श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥८॥

Verse

स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसंभवः । प्राजापत्यर्क्षसंभूतो निशीथसमयोदितः ॥९॥

Verse

शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः । किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥१०॥

Verse

पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः । सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥११॥

Verse

कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः । वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥१२॥

Verse

निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः । अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥१३॥

Verse

महर्षिमानसोल्लासो महीमंगलदायकः । सन्तोषितसुरव्रातः साधुचित्तप्रसादकः ॥१४॥

Verse

जनकोपायनिर्देष्टा देवकीनयनोत्सवः । पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥१५॥

Verse

स्वशक्त्युद्घाटिताशेषकपाटः पितृवाहकः । शेषोरगफणच्छत्रश्शेषोक्ताख्यासहस्रकः ॥१६॥

Verse

यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः । कृतात्मविद्याविन्यासो योगमायाग्रसंभवः ॥१७॥

Verse

दुर्गानिवेदितोद्भावो यशोदातल्पशायकः । नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥१८॥

Verse

सुजातजातकर्मश्रीर्गोपीभद्रोक्तिनिर्वृतः । अलिकनिद्रोपगमः पूतनास्तनपीडनः ॥१९॥

Verse

स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः । विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥२०॥

Verse

नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः । बालः पर्यङ्कनिद्रालुः मुखार्पितपदांगुलिः ॥२१॥

Verse

अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः । लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः ॥२२॥

Verse

द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः । यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः ॥२३॥

Verse

यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः । तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥२४॥

Verse

प्रशस्तनामकरणो जानुचंक्रमणोत्सुकः । व्यालंबिचूलिकारत्नो घोषगोपप्रहर्षणः ॥२५॥

Verse

स्वमुखप्रतिबिंबार्थी ग्रीवाव्याघ्रनखोज्ज्वलः । पङ्कानुलेपरुचिरो मांसलोरुकटीतटः ॥२६॥

Verse

घृष्टजानुकरद्वन्द्वः प्रतिबिंबानुकारकृत् । अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः ॥२७॥

Verse

धात्रीकरसमालंबी प्रस्खलच्चित्रचंक्रमः । अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥२८॥

Verse

वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः । विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥२९॥

Verse

अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः । नवनीतमहाचोरो दारकाहारदायकः ॥३०॥

Verse

पीठोलूखलसोपानः क्षीरभाण्डविभेदनः । शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥३१॥

Verse

भूषारत्नप्रकाशाढ्यो गोप्युपालंभभर्त्सितः । परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥३२॥

Verse

बालोक्तमृत्कथारंभो मित्रान्तर्गूढविग्रहः । कृतसंत्रासलोलाक्षो जननीप्रत्ययावहः ॥३३॥

Verse

मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः । यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥३४॥

Verse

सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः । नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥३५॥

Verse

मृषाकोपप्रकंपोष्ठो गोष्ठांगणविलोकनः । दधिमन्थघटभेत्ता किङ्किणीक्वाणसूचितः ॥३६॥

Verse

हैयंगवीनरसिको मृषाश्रुश्चौर्यशंकितः । जननीश्रमविज्ञाता दामबन्धनियन्त्रितः ॥३७॥

Verse

दामाकल्पश्चलांपांगो गाढोलूखलबन्धनः । आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥३८॥

Verse

नारदोक्तिपरामर्शी यमलार्ज्जुनभञ्जनः । धनदात्मजसंघृष्टो नन्दमोचितबन्धनः ॥३९॥

Verse

बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥४०॥

Verse

प्रस्थानशकटारूढो वृन्दावनकृतालयः । गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥४१॥

Verse

क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः । वृषवत्सानुकरणो वृषध्वानविडंबनः ॥४२॥

Verse

नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः । उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत् ॥४३॥

Verse

भृंगानुकारी दध्यन्नचोरो वत्सपुरस्सरः । बली बकासुरग्राही बकतालुप्रदाहकः ॥४४॥

Verse

भीतगोपार्भकाहूतो बकचञ्चुविदारणः । बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥४५॥

Verse

बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः । क्रीडासेतुनिधानज्ञः प्लवंगोत्प्लवनोऽत्भुतः ॥४६॥

Verse

कन्दुकक्रीडनो लुप्तनन्दादिभवभेदनः । सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥४७॥

Verse

गुञ्जाप्रालंबनच्छन्नः पिञ्च्छैरलकवेषकृत् । वन्याशनप्रियश्शृंगरवाकारितवत्सकः ॥४८॥

Verse

मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः । मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः ॥४९॥

Verse

अन्योन्यशासनः क्रीडापटुः परमकैतवः । प्रतिध्वानप्रमुदितः शाखाचतुरचंक्रमः ॥५०॥

Verse

अघदानवसंहर्ता व्रजविघ्नविनाशनः । व्रजसञ्जीवनश्श्रेयोनिधिर्दानवमुक्तिदः ॥५१॥

Verse

कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः । कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥५२॥

Verse

भुजसन्ध्यन्तरन्यस्तशृंगवेत्रश्शुचिस्मितः । वामपाणिस्थदध्यन्नकबलः कलभाषणः ॥५३॥

Verse

अंगुल्यन्तरविन्यस्तफलः परमपावनः । अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥५४॥

Verse

अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः । गोवत्सवत्सपान्वेषी विराट्पुरुषविग्रहः ॥५५॥

Verse

स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक् । यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥५६॥

Verse

यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी । चिराद्बलोहितो दान्तो ब्रह्मविज्ञातवैभवः ॥५७॥

Verse

विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः । ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः ॥५८॥

Verse

ब्रह्मब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः । निरुक्तं व्याकृतिर्व्यक्तो निरालंबनभावनः ॥५९॥

Verse

प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् । अकामस्सर्ववेदादिरणीयस्थूलरूपवान् ॥६०॥

Verse

व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः । छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः ॥६१॥

Verse

अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः । सकलावरणोपेतस्सर्वदेवो महेश्वरः ॥६२॥

Verse

महाप्रभावनः पूर्ववत्सवत्सपदर्शकः । कृष्णयादवगोपालो गोपालोकनहर्षितः ॥६३॥

Verse

स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः । ब्रह्मानन्दाश्रुधौतांघ्रिर्लीलावैचित्र्यकोविदः ॥६४॥

Verse

बलभद्रैकहृदयो नामाकारितगोकुलः । गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥६५॥

Verse

वृक्षच्छायाहताशान्तिर्गोपोत्संगोपबर्हणः । गोपसंवाहितपदो गोपव्यजनवीजितः ॥६६॥

Verse

गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः । सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः ॥६७॥

Verse

तालीवनकृतक्रीडो बलपातितधेनुकः । गोपीसौभाग्यसंभाव्यो गोधूलिच्छुरितालकः ॥६८॥

Verse

गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः । प्रलंबबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥६९॥

Verse

विलासललितस्मेरगर्भलीलावलोकनः । स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक् ॥७०॥

Verse

वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः । यमुनातटसञ्चारी विषार्तव्रजहर्षदः ॥७१॥

Verse

कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः । कालियाहिफणारंगनटः कालियमर्दनः ॥७२॥

Verse

नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् । अविष्वक्तदृगात्मेशः स्वदृगात्मस्तुतिप्रियः ॥७३॥

Verse

सर्वेश्वरः सर्वगुणः प्रसिद्धः सर्वसात्वतः । अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥७४॥

Verse

अनिर्देश्यगतिर्नागवनितापतिभैक्षदः । स्वांघ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः ॥७५॥

Verse

अभयो विश्वतः चक्षुः स्तुतोत्तमगुणः प्रभुः । अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥७६॥

Verse

नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः । बलभद्रसुखालापो गोपालिंगननिर्वृतः ॥७७॥

Verse

दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः । नयनाच्छादनक्रीडालंपटो नृपचेष्टितः ॥७८॥

Verse

काकपक्षधरस्सौम्यो बलवाहककेलिमान् । बलघातितदुर्धर्षप्रलंबो बलवत्सलः ॥७९॥

Verse

मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् । शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥८०॥

Verse

सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः । नटवेषधरः पद्ममालांगो गोपिकावृतः ॥८१॥

Verse

गोपीमनोहरापांगो वेणुवादनतत्परः । विन्यस्तवदनांभोजश्चारुशब्दकृताननः ॥८२॥

Verse

बिंबाधरार्पितोदारवेणुर्विश्वविमोहनः । व्रजसंवर्णितः श्राव्यवेणुनादश्रुतिप्रियः ॥८३॥

Verse

गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः । गीतस्रुतिसरित्पूरो नादनर्तितबर्हिणः ॥८४॥

Verse

रागपल्लवितस्थाणुर्गीतानमितपादपः । विस्मारिततृणग्रासमृगो मृगविलोभितः ॥८५॥

Verse

व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः । गाढोदीरितगोवृन्दप्रेमोत्कर्णितकर्णकः ॥८६॥

Verse

निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः । शाखोत्कर्णशकुन्तौघछत्रायितवलाहकः ॥८७॥

Verse

प्रसन्नः परमानन्दश्चित्रायितचराचरः । गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः ॥८८॥

Verse

गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापहृत् । स्कन्धारोपितगोपस्त्रीवासाः कुन्दनिभस्मितः ॥८९॥

Verse

गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः । गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥९०॥

Verse

गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः । शान्तवासस्फुरद्गोपीकृताञ्जलीरघापहः ॥९१॥

Verse

गोपीकेलीविलासार्थी गोपीसंपूर्णकामदः । गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली ॥९२॥

Verse

वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाजिता । यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः ॥९३॥

Verse

मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः । द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः ॥९४॥

Verse

प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहितः । मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥९५॥

Verse

पितृप्रोक्तक्रियारूपशक्रयागनिवारणः । शक्रामर्षकरः शक्रवृष्टिप्रशमनोन्मुखः ॥९६॥

Verse

गोवर्धनधरो गोपगोवृन्दत्राणतत्परः । गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलः ॥९७॥

Verse

सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा । भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥९८॥

Verse

स्वस्थानस्थापितगिरिर्गोपदध्यक्षतार्चितः । सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः ॥९९॥

Verse

कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः । धराङ्घ्रीरोषधीरोमा धर्मगोप्ता मनोमयः ॥१००॥

Verse

ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः । एरावतकरानीतवियद्गंगाप्लुतो विभुः ॥१०१॥

Verse

ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभंकरः । सर्ववेदमयो मग्ननन्दान्वेषीपितृप्रियः ॥१०२॥

Verse

वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः । वरुणानीतजनको गोपज्ञातात्मवैभवः ॥१०३॥

Verse

स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः । ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥१०४॥

Verse

शरच्चन्द्रविहारोत्कः श्रीपतिर्वशको क्षमः । भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥१०५॥

Verse

गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः । गोपिकामानहरणो गोपिकाशतयूथपः ॥१०६॥

Verse

वैजयन्तीस्रगाकल्पो गोपिकामानवर्द्धनः । गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥१०७॥

Verse

स्वात्मास्यदत्ततांबूलः फलितोत्कृष्टयौवनः । वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥१०८॥

Verse

गोपीचेलांचलासीनो गोपीनेत्राब्जषट्पदः । रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥१०९॥

Verse

गोपीहेममणिश्रेणीमध्येन्द्रमणिरुज्ज्वलः । विद्याधरेन्दुशापघ्नो शंखचूडशिरोहरः ॥११०॥

Verse

शंखचूडशिरोरत्नसंप्रीणितबलोऽनघः । अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥१११॥

Verse

सरसस्सस्मितमुखः सुस्थिरो विरहाकुलः । संकर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥११२॥

Verse

अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः । प्रमाणगम्यस्तन्मात्रावयवी बुद्धितत्परः ॥११३॥

Verse

सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः । पुरुषश्चप्रधानात्मा विपर्यासविलोचनः ॥११४॥

Verse

मथुराजनसंवीक्ष्यो रजकप्रतिघातकः । विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥११५॥

Verse

कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः । कुब्जांगरागसुरभिः कंसकोदण्डखण्डनः ॥११६॥

Verse

धीरः कुवलयापीडमर्दनः कंसभीतिकृत् । दन्तिदन्तायुधो रंगत्रासको मल्लयुद्धवित् ॥११७॥

Verse

चाणूरहन्ता कंसारिर्देवकीहर्षदायकः । वसुदेवपदानम्रः पितृबन्धविमोचनः ॥११८॥

Verse

उर्वीभयापहो भूप उग्रसेनाधिपत्यदः । आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः ॥११९॥

Verse

आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः । सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः ॥१२०॥

Verse

गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः । हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः ॥१२१॥

Verse

धर्मराजजयानीतगुरुपुत्र उरुक्रमः । गुरुपुत्रप्रदश्शास्ता मथुराजनमानदः ॥१२२॥

Verse

जामदग्न्यसमभ्यर्च्यो गोमन्तगिरिसंचरः । गोमान्तदावशमनो गरुडानीतभूषणः ॥१२३॥

Verse

चक्राद्यायुधसंशोभी जरासंधमदापहः । सृगालावनिपालघ्नः सृगालात्मजराज्यदः ॥१२४॥

Verse

विध्वस्तकालयवनो मुचुकुन्दवरप्रदः । आज्ञापितमहाम्बोधिर्द्वारकापुरकल्पनः ॥१२५॥

Verse

द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः । रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः ॥१२६॥

Verse

अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः । अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥१२७॥

Verse

बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित् । धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥१२८॥

Verse

षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् । शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शम्भुसंस्तुतः ॥१२९॥

Verse

इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः । हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः ॥१३०॥

Verse

आत्मज्ञाननिधिर्मेधाकोशस्तन्मात्ररूपवान् । इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः ॥१३१॥

Verse

तुरीयस्सर्वधीसाक्षी द्वन्द्वारामात्मदूरगः । अज्ञातपारवश्यश्रीरव्याकृतविहारवान् ॥१३२॥

Verse

आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः । बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः ॥१३३॥

Verse

अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः । जलेशविजयी वीरः सत्राजिद्रत्नयाचकः ॥१३४॥

Verse

प्रसेनान्वेषणोद्युक्तो जांबवद्धृतरत्नदः । जितर्क्षराजतनयाहर्ता जांबवतीप्रियः ॥१३५॥

Verse

सत्यभामाप्रियः कामश्शतधन्वशिरोहरः । कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः ॥१३६॥

Verse

कैकेयीरमणो भद्राभर्ता नग्नजितीधवः । माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः ॥१३७॥

Verse

सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः । लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥१३८॥

Verse

सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित् । हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥१३९॥

Verse

नरकासुरविच्छेत्ता नरकात्मजराज्यदः । पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः ॥१४०॥

Verse

गुणग्राही गुणद्रष्टा गूढस्स्वात्मा विभूतिमान् । कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥१४१॥

Verse

प्रपञ्चपालनो माली महद्ब्रह्मविवर्धनः । वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः ॥१४२॥

Verse

स्वयंप्रभुरनिर्वेद्यः स्वप्रकाशश्चिरन्तनः । नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥१४३॥

Verse

कंदर्पकोटिलावण्यः परार्थैकप्रयोजकः । अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥१४४॥

Verse

शोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः । क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥१४५॥

Verse

शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः । अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्धुष्टचेष्टनः ॥१४६॥

Verse

पुराणस्संयमीजन्मालिप्तः षड्विंशकोऽर्थदः । यशस्यनीतिरान्द्यन्तरहितः सत्कथाप्रियः ॥१४७॥

Verse

ब्रह्मबोधः परानन्दः पारिजातापहारकः । पौण्ड्रकप्राणहरणः काशिराजनिषूदनः ॥१४८॥

Verse

कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः । हंसविध्वंसनस्साम्बजनको डिंभकार्दनः ॥१४९॥

Verse

मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः । रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥१५०॥

Verse

सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्धिभेधनः । आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥१५१॥

Verse

विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः । पार्थविस्मयकृत् पार्थप्रणवार्थप्रबोधनः ॥१५२॥

Verse

कैलासयात्रासुमुखो बदर्याश्रमभूषणः । घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः ॥१५३॥

Verse

मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः । तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः ॥१५४॥

Verse

प्रत्यक्षीकृतभूतेशः शिवस्तोता शिवस्तुतः । कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥१५५ । बलसंरम्भशमनो बलदर्शितपाण्डवः । यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥१५६॥

Verse

सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः । खाण्डवप्रीणितार्चिष्मान् मयदानवमोचनः ॥१५७॥

Verse

सुलभो राजसूयार्हयुधिष्ठिरनियोजकः । भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥१५८॥

Verse

राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः । चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः ॥१५९॥

Verse

सर्वात्मार्थसमाहर्ता मन्दराचलधारकः । यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः ॥१६०॥

Verse

बलियज्ञसभाध्वंस्वी दृप्तक्षत्रकुलान्तकः । दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥१६१॥

Verse

सर्वावताराधिष्ठाता वेदबाह्यविमोहनः । कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥१६२॥

Verse

अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः । द्रौपतीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥१६३॥

Verse

नारायणो मधुपतिर्माधवो दोषवर्जितः । गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥१६४॥

Verse

त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान् । हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥१६५॥

Verse

दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः । साल्वघ्नस्समरश्लाघी दन्तवक्त्रनिबर्हणः ॥१६६॥

Verse

दामोदरप्रियसखा पृथुकास्वादनप्रियः । घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥१६७॥

Verse

गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः । अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥१६८॥

Verse

पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत् । विदुरातिथ्यसंतुष्टः कुन्तीसंतोषदायकः ॥१६९॥

Verse

सुयोधनतिरस्कर्ता दुर्योधनविकारवित् । विदुराभीष्टदो नित्यो वार्ष्णेयो मङ्गलात्मकः ॥१७०॥

Verse

पञ्चविंशतितत्वेशश्चतुर्विंशतिदेहभाक् । सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः ॥१७१॥

Verse

अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः । मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता ॥१७२॥

Verse

उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः । ब्रह्मण्यदेवश्श्रुतिमान् गोब्राह्मणहिताशयः ॥१७३॥

Verse

वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान् । स्वभावशुद्धस्सन्मित्रस्सुशरणस्सुलक्षणः ॥१७४॥

Verse

धृतराष्ट्रगतौदृष्टिप्रदः कर्णविभेदनः । प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः ॥१७५॥

Verse

सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः । चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥१७६॥

Verse

ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् । अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः ॥१७७॥

Verse

सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः । अकालसंध्याघटनश्चक्रान्तरितभास्करः ॥१७८॥

Verse

दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः । सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक ॥१७९॥

Verse

सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः । पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥१८०॥

Verse

अंगुष्ठाक्रान्तकौन्तेयरथचक्रोऽहिशीर्षजित् । कालकोपप्रशमनो भीमसेनजयप्रदः ॥१८१॥

Verse

अश्वत्थामावधायासत्रातपाण्डुसुतः कृती । इषीकास्त्रप्रशमनो द्रौणिरक्षाविचक्षणः ॥१८२॥

Verse

पार्थापहारितद्रौणिचूडामणिरभंगुरः । धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः ॥१८३॥

Verse

भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः । गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः ॥१८४॥

Verse

गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः । प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यथापहः ॥१८५॥

Verse

शान्तः शान्तनवोदीर्णसर्वधर्मसमाहितः । स्मारितब्रह्मविद्यार्थप्रीतपार्थोमहास्त्रवित् ॥१८६॥

Verse

प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः । विपक्षपक्षक्षयकृत परीक्षित्प्राणरक्षणः ॥१८७॥

Verse

जगत्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः । विहितार्थाप्तसत्कारो मासकात्परिवर्तदः ॥१८८॥

Verse

उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः । जनकावगतस्वोक्तभारतस्सर्वभावनः ॥१८९॥

Verse

असोढयादवोद्रेको विहिताप्तादिपूजनः । समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥१९०॥

Verse

मुनिशापायुधः पद्मासनादित्रिदशार्थितः । सृष्टिप्रत्यवहारोत्कटस्स्वधामगमनोत्सुकः ॥१९१॥

Verse

प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् । सर्वयादवसंसेव्यः सर्वोत्कृष्टपरिच्छदः ॥१९२॥

Verse

वेलाकाननसञ्चारी वेलानिलहृतश्रमः । कालात्मा यादवोऽनन्तः स्तुतिसंतुष्टमानसः ॥१९३॥

Verse

द्विजालोकनसंतुष्टः पुण्यतीर्थमहोत्सवः । सत्काराह्लादिताशेषभूसरस्सुरवल्लभः ॥१९४॥

Verse

पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः । विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः ॥१९५॥

Verse

स्वमायामोहिताशेषवृष्णिवीरो विशेषविद् । जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥१९६॥

Verse

देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः । स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः ॥१९७॥

Verse

ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः । प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥१९८॥

Verse

व्याधेषुविद्धपूजाङ्घ्रिर्निषादभयमोचनः । पुलिन्दस्तुतिसंतुष्टः पुलिन्दसुगतिप्रदः ॥१९९॥

Verse

दारुकार्पितपार्थादिकरणीयोक्तिरीशिता । दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः ॥२००॥

Verse

पुराणः परमेशानः पूर्णभूमा परिष्टुतः । पतिराद्यः परंब्रह्म परमात्मा परात्परः ॥२०१॥

caitanyacandrasyasahasranāmastotram
śrī durgāsahasranāmastotram

Read next

More on श्रीकृष्णसहस्रनामस्तोत्रम्

  • श्रीकृष्णसहस्रनामस्तोत्रम्Sahasranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms