pujavidhanam
śrī-sāvitrī-vratam — kāmākṣī-pūjā
श्री-सावित्री-व्रतम् — कामाक्षी-पूजा
Verse
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे उत्तरायणे शिशिर -ऋतौ कुम्भ -मासे [[paksha]] पक्षे [[tithi]] शुभतिथौ [[vasara]] -वासरयुक्तायां [[nakshatra]] -नक्षत्र- [[yoga]] -योग- [[karana]] -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् [[tithi]] शुभतिथौ
Verse
श्रीपरमेश्वर-प्रीत्यर्थं कामाक्ष्याः प्रीत्यर्थं कामाक्ष्याः प्रसादेन मम दीर्घ सौमाङ्गल्य-अवाप्त्यर्थं मम भर्तुश्च अन्योन्यप्राप्त्यर्थम् अवियोगार्थं
Verse
यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्रीकामाक्षी-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
Verse
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)
Verse
Verse
Verse
Verse
Verse
Verse
Verse
एकाम्रनाथ-दयितां कामाक्षीं भुवनेश्वरीम् ध्यायामि हृदये देवीं वाञ्छितार्थप्रदायिनीम् कामाक्षीं ध्यायामि।
Verse
सर्वमङ्गल-माङ्गल्ये शिवे सर्वार्थदायिनि आवाहयामि कुम्भेऽस्मिन् मम माङ्गल्य-सिद्धये कामाक्षीम् आवाहयामि।
Verse
कामाक्षि वरदे देवि काञ्चनेन विनिर्मितम् भक्त्या दास्ये स्वीकुरुष्व वरदा भव चासनम् कामाक्ष्यै नमः, आसनं समर्पयामि।
Verse
गङ्गादि-सर्व-तीर्थेभ्यः नदीभ्यश्च समाहृतम् पाद्यं सम्प्रददे देवि गृहाण त्वं शिवप्रिये कामाक्ष्यै नमः, पाद्यं समर्पयामि।
Verse
कामाक्षि स्वर्ण-कलशेनाहृतं च मया शिवे मधुकैटभ-हन्त्रि त्वं ददाम्यर्घ्यं गृहाण भोः कामाक्ष्यै नमः, अर्घ्यं समर्पयामि।
Verse
आचम्यतां महादेवि एलोशीर-सुवासितम् ददामि तीर्थममलं गृहीत्वा लोकरक्षके कामाक्ष्यै नमः, आचमनीयं समर्पयामि।
Verse
मधुपर्कं मया देवि काञ्चीपुर-निवासिनि स्वीकृत्य दयया देहि चिरं मह्यं तु मङ्गलम् कामाक्ष्यै नमः, मधुपर्कं समर्पयामि।
Verse
पञ्चामृतमिदं दिव्यं पञ्चपातक-नाशनम् पञ्चभूतात्मके देवि पाहि स्वीकृत्य शङ्करि कामाक्ष्यै नमः, पञ्चामृत-स्नानं समर्पयामि।
Verse
स्नास्यतां पापनाशाय या प्रवृत्ता सुरापगा मयाऽर्पिता त्वं गृह्णीष्व प्रीता भव दयानिधे कामाक्ष्यै नमः, स्नानं समर्पयामि।
Verse
दुकूलान्यम्बराणीह वस्त्राणि विविधानि च ददामि हरदेवीशि विद्याधिष्टान-पीठिके कामाक्ष्यै नमः, वस्त्रं समर्पयामि।
Verse
उपवीतं मया प्रीत्यै काञ्चनेन विनिर्मितम् गृहीत्वा तव मे भक्तिं प्रयच्छ करुणानिधे कामाक्ष्यै नमः, यज्ञोपवीतं समर्पयामि।
Verse
गन्धं सुवासितं रत्नं कुङ्कुमान्वितम् अम्बिके गङ्गानुजे देहि मह्यं दीर्घमङ्गल-सूत्रकम् कामाक्ष्यै नमः, गन्धान् धारयामि। हरिद्राकुङ्कुमं समर्पयामि।
Verse
कार्पास-सूत्रं दास्यामि सुवर्णमणि-संयुतम् भूषणार्थं मयाऽऽनीतं देहि मे वरमुत्तमम् कामाक्ष्यै नमः, मङ्गलसूत्रं समर्पयामि।
Verse
जातीचम्पक-पुन्नाग-केतकी-वकुलानि च मयाऽर्पितानि सुभगे गृहाण जननि मम कामाक्ष्यै नमः, पुष्पाणि समर्पयामि।
Verse
१.कामाक्ष्यै नमः — पादौ पूजयामि
Verse
२.कल्मषघ्न्यै नमः — गुल्फौ पूजयामि
Verse
३.विद्याप्रदायिन्यै नमः — जङ्घे पूजयामि
Verse
४.करुणामृत-सागरायै नमः — जानुनी पूजयामि
Verse
५.वरदायै नमः — ऊरू पूजयामि
Verse
६.काञ्चीनगर-वासिन्यै नमः — कटिं पूजयामि
Verse
७.कन्दर्प-जनन्यै नमः — नाभिं पूजयामि
Verse
८.पुरमथन-पुण्यकोट्यै नमः — वक्षः पूजयामि
Verse
९.महाज्ञान-दायिन्यै नमः — स्तनौ पूजयामि
Verse
१०.लोकमात्रे नमः — कण्ठं पूजयामि
Verse
११.मायायै नमः — नेत्रे पूजयामि
Verse
१२.मधुरवेणी-सहोदर्यै नमः — ललाटं पूजयामि
Verse
१३.एकाम्र-नाथायै नमः — कर्णौ पूजयामि
Verse
१४.कामकोटि-निलयायै नमः — शिरः पूजयामि
Verse
१५.कामेश्वर्यै नमः — चिकुरं पूजयामि
Verse
१६.कामितार्थ-दायिन्यै नमः — धम्मिल्लं पूजयामि
Verse
१७.कामाक्ष्यै नमः — सर्वाण्यङ्गानि पूजयामि
Verse
Verse
एकाम्रनाथ-दयिते काञ्चीपुर-निवासिनि धूपं गृहाण देवि त्वं सर्वाभीष्ट-प्रदायिनि कामाक्ष्यै नमः, धूपम् आघ्रापयामि।
Verse
घृतवर्ति-समायुक्तं सर्वलोक-प्रकाशकम् दीपं गृह्णीष्व सुभगे वाञ्छितार्थ-प्रदायिनि कामाक्ष्यै नमः, दीपं सन्दर्शयामि।
Verse
गुडापूपत्रयं देवि साढकं प्रददाम्यहम् नवनीतयुतं देवि मोदकापूपसंयुतम्
Verse
पायसं सघृतं दद्यां सफलं लड्डुकान्वितम् मम भर्तुस्सदा देवि गृहीत्वा प्रीतिदा भव कामाक्ष्यै नमः, नैवेद्यं निवेदयामि।
Verse
पूगीफल-समायुक्तं नागवल्लिदलैर्युतम् कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् कामाक्ष्यै नमः, कर्पूरताम्बूलं निवेदयामि।
Verse
कर्पूरदीपं सुभगे सर्वमङ्गल-वर्धनम् सर्वव्याधिहरं देवि गृह्यताम् अम्बिके शिवे कामाक्ष्यै नमः, मम दीर्घसौमङ्गल्य-सिद्ध्यर्थं कर्पूर-नीराञ्जनं सन्दर्शयामि।
Verse
कान्ता कामदुघा करीन्द्रगमना कामारिवामाङ्कगा कल्याणी कलितावतारसुभगा कस्तूरिकाचर्चिता कम्पातीररसालमूलनिलया कारुण्यकल्लोलिनी कल्याणानि करोतु मे भगवती काञ्चीपुरीदेवता
Verse
मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे मङ्गलाढ्ये मङ्गलेशे मङ्गलं देहि मे भवे
Verse
नमो देव्यै महादेव्यै लोकमात्रे नमो नमः शिवायै शिवरूपिण्यै भक्ताभीष्टप्रदा भव
Verse
कामाक्षि काञ्चिनिलये मम माङ्गल्यवृद्धये नमस्करोमि देवेशि मह्यं कुरु दयां शिवे कामाक्ष्यै नमः, अनन्तकोटि-प्रदक्षिण-नमस्कारान् समर्पयामि।
Verse
कामाक्षी स्वरूपस्य ब्राह्मणस्य इदमासनम् — सकलाराधनैः स्वर्चितम्।
Verse
कामाक्षी काम-वृद्ध्यर्थं मम माङ्गल्य-सिद्धये उपायनं प्रदास्यामि ददामोघं वरं मम
Verse
इदं हिरण्यं सदक्षिणाकं सताम्बूलं कामाक्षी-स्वरूपाय ब्राह्मणाय सम्प्रददे न मम॥
Verse
दोरं गृह्णामि सुभगे सहारिद्रं धराम्यहम् भर्तुरायुष्य-सिद्ध्यर्थं सुप्रीता भव सर्वदा
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि।
Verse
श्री-चन्द्र-मौलीश्वराय नमः। श्री-कामाक्षी-देव्यै नमः।
Verse
जय जय श्री-त्रिचत्वारिंशत्-कोण-श्रीचक्रान्तराल-बिन्दु-पीठोपरि-लसत्-पञ्च-ब्रह्म-मय-मञ्च-मध्य-स्थ-श्री-शिव-कामेश-वामाङ्क-निलये!
Verse
जय जय श्री-विधि-हरि-हर-सुर-गण-वन्दित-चरणारविन्द-युगले!
Verse
जय जय श्री-रमा-वाणीन्द्राणी-प्रमुख-रमणी-कर-कमल-समर्पित-चरण-कमले!
Verse
जय जय श्री-निखिल-निगमागम-सकल-संवेद्यमान-विविध-वस्त्रालङ्कृत-हेम-निर्मित-अनर्घ-भूषण-भूषित-दिव्य-मूर्ते!
Verse
जय जय श्रीमद्-अनवरताभिषेक-धूप-दीप-नैवेद्यादि-नाना-विधोपचारैः परिशोभिते!
Verse
जय जय श्री-काञ्ची-नगर्यां द्वात्रिंशद्-धर्म-प्रतिपादनार्थ-स्थापित-हेम-ध्वजालङ्कृते!
Verse
जय जय श्री-सकल-मन्त्र-तन्त्र-यन्त्र-मय-परा-बिलाकाश-स्वरूपे!
Verse
जय जय श्री-काञ्ची-नगर्यां कामाक्षीति प्रख्यात-नामाङ्किते!
Verse
यस्य स्मृत्या च नामोक्त्या तपः-पूजा-क्रियादिषु न्यूनं सम्पूर्णतां याति सद्यो वन्दे
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि
Verse
सर्वं तत्सद्ब्रह्मार्पणमस्तु।
