Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

saṅkramaṇa-puṇyakāla-snāna-saṅkalpaḥ

सङ्क्रमण-पुण्यकाल-स्नान-सङ्कल्पः

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।

Verse

आचमनम्। शुक्लाम्बरधरं + शान्तये। प्राणायामः।

Verse

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि

Verse

अपवित्रः पवित्रो वा सर्वावस्थागतोऽपि वा यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः

Verse

मानसं वाचिकं पापं कर्मणा समुपार्जितम् श्रीरामः स्मरणेनैव व्यपोहति न संशयः

Verse

श्रीराम राम राम।

Verse

तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेव च योगश्च करणं चैव सर्वं विष्णुमयं जगत्

Verse

श्रीहरे गोविन्द गोविन्द गोविन्द।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम्, अद्य श्रीभगवतः विष्णोः नारायणस्य अचिन्त्यया अपरिमितया शक्त्या भ्रियमाणस्य महाजलौघस्य मध्ये परिभ्रमताम् अनेककोटिब्रह्माण्डानाम् एकतमे पृथिवी-अप्-तेजो-वायु-आकाश-अहङ्कार-महद्-अव्यक्तैः आवरणैः आवृते अस्मिन् महति ब्रह्माण्डकरण्डमध्ये चतुर्दशभुवनान्तर्गते भूमण्डले जम्बू-प्लक्ष-शाक-शाल्मलि-कुश-क्रौञ्च-पुष्कराख्य-सप्तद्वीपमध्ये जम्बूद्वीपे भारत-किम्पुरुष-हरि-इलावृत-रम्यक-हिरण्मय-कुरु-भद्राश्व-केतुमाल-नववर्षमध्ये भारतवर्षे इन्द्र-चेरु-ताम्र-गभस्ति-नाग-सौम्य-गन्धर्व-चारण-भरत-नवखण्डमध्ये भरतखण्डे सुमेरु-निषद-हेमकूट-हिमाचल-माल्यवत्-पारियात्रक-गन्धमादन-कैलास-विन्ध्याचलादि- अनेकपुण्यशैलानां मध्ये दण्डकारण्य-चम्पकारण्य-विन्ध्यारण्य-वीक्षारण्य-श्वेतारण्य-वेदारण्यादि- अनेकपुण्यारण्यानां मध्ये कर्मभूमौ रामसेतुकेदारयोः मध्ये भागीरथी-यमुना-नर्मदा-त्रिवेणी-मलापहारिणी-गौतमी-कृष्णवेणी-तुङ्गभद्रा-कावेर्यादि- अनेकपुण्यनदी-विराजिते इन्द्रप्रस्थ-यमप्रस्थ-अवन्तिकापुरी-हस्तिनापुरी-अयोध्यापुरी-द्वारका-मथुरापुरी-मायापुरी-काशीपुरी-काञ्चीपुर्यादि- अनेकपुण्यपुरी-विराजिते सकलजगत्स्रष्टुः परार्धद्वयजीविनः ब्रह्मणः द्वितीयपरार्धे

Verse

पञ्चाशद्-अब्दादौ प्रथमे वर्षे प्रथमे मासे प्रथमे पक्षे प्रथमे दिवसे अह्नि द्वितीये यामे तृतीये मुहूर्ते स्वायम्भुव-स्वारोचिष-उत्तम-तामस-रैवत-चाक्षुषाख्येषु षट्सु मनुषु अतीतेषु सप्तमे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये

Verse

[[samvatsara]] नाम संवत्सरे उत्तरायणे / दक्षिणायने (ग्रीष्म / वर्ष / शरद् / हेमन्त / शिशिर / वसन्त) ऋतौ (मेष / वृषभ / मिथुन / कर्कटक / सिंह / कन्या / तुला / वृश्चिक / धनुर् / मकर / कुम्भ / मीन) मासे [[paksha]] पक्षे [[tithi]] शुभतिथौ [[vasara]]-वासरयुक्तायाम् [[nakshatra]] नक्षत्र [[yoga]]-योग [[karana]]-करण-युक्तायां च

Verse

एवंगुणविशेषणविशिष्टायाम् अस्याम् [[tithi]] शुभतिथौ

Verse

अनादि-अविद्या-वासनया प्रवर्तमाने अस्मिन् महति संसारचक्रे विचित्राभिः कर्मगतिभिः विचित्रासु योनिषु पुनःपुनः अनेकधा जनित्वा केनापि पुण्यकर्मविशेषेण इदानीन्तन-मानुष-द्विजजन्म-विशेषं प्राप्तवतः मम

Verse

जन्माभ्यासात् जन्मप्रभृति एतत्क्षणपर्यन्तं बाल्ये कौमारे यौवने मध्यमे वयसि वार्धके च जागृत्-स्वप्न-सुषुप्ति-अवस्थासु मनो-वाक्-कायाख्य-त्रिकरणचेष्टया कर्मेन्द्रिय-ज्ञानेन्द्रिय-व्यापारैः सम्भावितानाम् इह जन्मनि जन्मान्तरे च ज्ञानाज्ञानकृतानां महापातकानां महापातक-अनुमन्तृत्वादीनां समपातकानाम् उपपातकानां मलिनीकरणानां गर्ह्यधन-आदान-उपजीवनादीनाम् अपात्रीकरणानां जातिभ्रंशकराणां विहितकर्मत्याग-निन्दितसमाचरणादीनां ज्ञानतः सकृत् कृतानाम् अज्ञानतः असकृत् कृतानां सर्वेषां पापानां सद्यः अपनोदनार्थं महागणपत्यादिसमस्तवैदिकदेवतासन्निधौ

Verse

[[blank]]-पुण्यकाल-स्नानमहं करिष्ये। [अप उपस्पृश्य।]

Verse

गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

Verse

गङ्गे च यमुने चैव गोदावरि सरस्वति नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु

Verse

अतिक्रूर महाकाय कल्पान्तदहनोपम भैरवाय नमस्तुभ्यम् अनुज्ञां दातुम् अर्हसि

Verse

स्नात्वा वस्त्रं धृत्वा कुलाचारवत् पुण्ड्रधारणं च कृत्वा आचम्य।

śrī-sāvitrī-vratam — kāmākṣī-pūjā
kārttikasomavārārghyam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms