Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

pūrvāṅga-vighneśvara-pūjā

पूर्वाङ्ग-विघ्नेश्वर-पूजा

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य।

Verse

[अप उपस्पृश्य, पुष्पाक्षतान् गृहीत्वा।]

Verse

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं करिष्यमाणस्य कर्मणः अविघ्नेन परिसमाप्त्यर्थम् आदौ विघ्नेश्वरपूजां करिष्ये।

Verse

ॐ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्

Verse

अगजानानपद्मार्कं गजाननमहर्निशम् अनेकदं तं भक्तानाम् एकदन्तमुपास्महे

Verse

भूर्भुवः॒ सुव॒रोम्। अस्मिन् हरिद्राबिम्बे सुमुखं महागणपतिं ध्यायामि, आवाहयामि।

Verse

ॐ महागणपतये नमः, आसनं समर्पयामि। ॐ महागणपतये नमः, पादयोः पाद्यं समर्पयामि। ॐ महागणपतये नमः, अर्घ्यं समर्पयामि। ॐ महागणपतये नमः, आचमनीयं समर्पयामि। ॐ महागणपतये नमः, मधुपर्कं समर्पयामि। ॐ भूर्भुवः॒ सुवः॑। ॐ महागणपतये नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरमाचमनीयं समर्पयामि। ॐ महागणपतये नमः, वस्त्रार्थमक्षतान् समर्पयामि। ॐ महागणपतये नमः, यज्ञोपवीताभरणार्थे अक्षतान् समर्पयामि। ॐ महागणपतये नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि। ॐ महागणपतये नमः, अक्षतान् समर्पयामि। ॐ महागणपतये नमः, पुष्पमालिकां समर्पयामि। पुष्पैः पूजयामि।

Verse

सुमुखाय नमः

Verse

एकदन्ताय नमः

Verse

कपिलाय नमः

Verse

गजकर्णकाय नमः

Verse

लम्बोदराय नमः

Verse

विकटाय नमः

Verse

विघ्नराजाय नमः

Verse

विनायकाय नमः

Verse

धूमकेतवे नमः

Verse

गणाध्यक्षाय नमः

Verse

फालचन्द्राय नमः

Verse

गजाननाय नमः

Verse

वक्रतुण्डाय नमः

Verse

शूर्पकर्णाय नमः

Verse

हेरम्बाय नमः

Verse

स्कन्दपूर्वजाय नमः ॐ महागणपतये नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि। ॐ महागणपतये नमः, धूपमाघ्रापयामि। ॐ महागणपतये नमः, अलङ्कारदीपं सन्दर्शयामि।

Verse

ॐ भूर्भुवः॒ सुवः॑। + ब्र॒ह्मणे॒ स्वाहा᳚। ॐ महागणपतये नमः, [[blank]] (नैवेद्यं) निवेदयामि। अ॒मृ॒ता॒पि॒धा॒नम॑सि॥ निवेदनान्तरम् आचमनीयं समर्पयामि। ॐ महागणपतये नमः, ताम्बूलं समर्पयामि। ॐ महागणपतये नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि। ॐ महागणपतये नमः, मन्त्रपुष्पं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

Verse

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरैरपि सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः

Verse

गजाननं भूतगणादिसेवितं कपित्थ-जम्बूफल-सार-भक्षितम् उमासुतं शोकविनाशकारणं नमामि विघ्नेश्वरपादपङ्कजम्

Verse

अनन्तकोटिप्रदक्षिणनमस्कारान् समर्पयामि।

Verse

छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

Verse

वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभ अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा

Verse

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः लम्बोदरश्च विकटो विघ्नराजो गणाधिपः

Verse

धूमकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः वक्रतुण्डः शूर्पकर्णो हेरम्भः स्कन्दपूर्वजः

Verse

षोडशैतानि नामानि यः पठेच्छृणुयादपि विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते

Verse

प्रार्थनाः समर्पयामि।

guru-dhyānam
prāṇa-pratiṣṭhā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms