pujavidhanam
prāṇa-pratiṣṭhā
प्राण-प्रतिष्ठा
Verse
अस्य श्रीप्राणप्रतिष्ठामहामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः। ऋग्यजुस्सामाथर्वाणि छन्दांसि। प्राणशक्तिः परा देवता।
Verse
आं बीजम् - ह्रीं शक्तिः - क्रों कीलकम्। प्राणप्रतिष्ठापने विनियोगः॥
Verse
आंअङ्गुष्ठाभ्यांनमः।
Verse
ह्रींतर्जनीभ्यांनमः।
Verse
क्रोंमध्यमाभ्यांनमः।
Verse
आंअनामिकाभ्यांनमः।
Verse
ह्रींकनिष्ठिकाभ्यांनमः।
Verse
क्रोंकरतलकरपृष्ठाभ्यांनमः।
Verse
आंहृदयायनमः।
Verse
ह्रींशिरसेस्वाहा।
Verse
क्रोंशिखायैवषट्।
Verse
आंकवचायहुम्।
Verse
ह्रींनेत्रत्रयायवौषट्।
Verse
क्रोंअस्त्रायफट्।
Verse
2lभूर्भुवस्सुवरोमितिदिग्बन्धः॥
Verse
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षूद्भवमळिगुणमप्यङ्कुशं पञ्चबाणान् बिभ्राणासृक् कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः
Verse
आं ह्रीं क्रों, क्रों ह्रीं आं, य र ल व श ष स हों, हंसः सोऽहं सोऽहं हंसः। अस्यां मूर्तौ प्राणास्तिष्ठन्तु। जीवस्तिष्ठतु।
Verse
अस्यां मूर्तौ सर्वेन्द्रियाणि मनस्त्वक्चक्षुश्श्रोत्रजिह्वाघ्राणवाक्पाणिपादपायूपस्थाख्यानि प्राणापानव्यानोदानसमानाश्चात्रागत्य सुखं चिरं तिष्ठन्तु स्वाहा।
Verse
असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो॑ धेहि॒ भोग॑म्। ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑ नः स्व॒स्ति॥ ऋक् १०.५९.६॥
Verse
प्राणान् प्रतिष्ठापयामि।
