Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

sarveśvarīvidyā

सर्वेश्वरीविद्या

Verse

॥ ॐ नम उमङ्गेश्वर्यै ॥

Verse

अभिजिदुवाच । कैषा गुह्या महाविद्या यदुक्ता भवताधुना । सर्वेश्वरीति या प्रोक्ता सर्वकामार्थसिद्धिदा ॥

Verse

भवताराधिता शैले यया त्रैलोक्यपोषिणी । तां विद्यां ब्रूहि विप्रेन्द्र कृपास्ति यदि ते मयि ॥

Verse

निग्रह उवाच । मार्तण्डादिगणेशकालसहिता सम्पूजिता शम्भुना । सा देवी महिषान्धकान्तककरी सर्वेश्वरी पातु नः ॥

Verse

अथाहं सम्प्रवक्ष्यामि विद्यां सर्वेश्वरीं शुभाम् । अभक्तेभ्यो न दातव्या रक्षणीया प्रयत्नतः ॥

Verse

निग्रहेण मया प्रोक्ता निग्रहागमसम्मता । श्रीकालिकोपासकाय पुरा देवलशर्मणे ॥

Verse

विनियोगः - ॐ अस्य श्रीसर्वेश्वरीविद्यास्तोत्रमन्त्रस्य निग्रहऋषिरनुष्टुप्छन्दः, सदाशिवः फलसाक्षी, श्रीपरमेश्वरी देवता, ऐं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, महाविद्यास्वरूपं, नवदुर्गाध्यानं सर्वोचिताभीष्टसिद्धिहेतवे पुरुषार्थचतुष्टयसिद्ध्यर्थे पाठे विनियोगः ॥

Verse

अथ ध्यानम् । दुर्गा चाष्टभुजी त्रिलोकजननी रक्ताम्बरालङ्कृता तस्मिञ्छैलगुहान्तरे बुधजनै ह्याराधिता सर्वदा । चित्ताह्लादकरी सदासुखकरी साम्राज्यसन्दायिनी अर्धाङ्गी गिरिराजराजतनया रक्षन्तु भक्तान् सदा ॥

Verse

अथ सर्वेश्वरीविद्यास्तोत्रम् । ॐ नमश्चण्डिकायै । कालिका कालरूपा च यमदण्डविदारिणी । दक्षिणेशी त्रिनेत्रा च दिगम्बर्यै नमोऽस्तु ते ॥१॥

Verse

शङ्करार्द्धासनगता जागृतव्योमचारिणी । शूलखट्वाङ्गधारिण्यै कालिकायै नमोऽस्तु ते ॥२॥

Verse

दिग्वस्त्रा कृष्णवर्णा च ज्वलदग्निसमप्रभा । दैत्यहन्त्री शवारूढा मोक्षदायै नमोऽस्तु ते ॥३॥

Verse

श्मशानस्थाननिलया मुक्तकेशी स्मितानना । रोगापहारिणी देवि रक्तभोज्यै नमोऽस्तु ते ॥४॥

Verse

तनोति जगतः सारं पापौघान् परिशाम्यति । सा तारा भीमरूपा च सर्वाभीष्टप्रदा भवेत् ॥५॥

Verse

तारा त्रैलोक्यजननी नागमाला समाश्रिता । अद्भुता ज्ञानदात्री च सृष्टिस्थित्यन्तकारिणी ॥६॥

Verse

पाटलाब्जैरर्चिता सा नीला भीमा सरस्वती । विवस्त्रा दैत्यसंहन्त्री धनदा निर्गुणामला ॥७॥

Verse

शिवा शिवप्रिया चैव शम्भुधात्री महोज्ज्वला । त्रैलोक्यपालिनी देवी सा तारा परिपातु मे ॥८॥

Verse

षोडशी सौम्यवदना ब्रह्मविष्णुशिवानुता । हाटकैर्भूषणैर्दिव्यैः सर्वालङ्कारभूषिता ॥९॥

Verse

विशालनेत्रा सुकुचा दाडिमोपमदन्तुरा । षोडशाङ्गी कोमलाङ्गी मन्दहासा सदा शुभा ॥१०॥

Verse

कटिप्रदेशसूक्ष्माङ्गी वृत्तपीनपयोधरा । पद्महस्ता च कन्याभिः षोडशाभिः सदावृता ॥११॥

Verse

सर्वसम्पत्करी देवी षोडशी सुरसुन्दरी । आनन्दवर्द्धिनी भामा विश्वयोने नमोऽस्तु ते ॥१२॥

Verse

त्रिदेवजननी वन्द्या रक्तचन्दनचर्चिता । केयूराङ्गदभूषाङ्गी मीनाक्षी कोकिलस्वरा ॥१३॥

Verse

भुवनेशी जगन्माता त्रिदशैः सर्वदार्चिता । ईश्वरी भोगदा रम्या शिवपर्यङ्कशायिनी ॥१४॥

Verse

जपाकुसुमसम्पूज्या पद्मासनसमाश्रिता । चन्द्रसूर्याग्निनेत्रा च वरदा मोक्षदायिनी ॥१५॥

Verse

रक्तवस्त्रा महाविद्या महादेवी तु शाङ्करी । प्रयच्छतु ममाभीष्टान् सर्वदा भुवनेश्वरी ॥१६॥

Verse

रक्तपा सा करालास्या विरूपा विकटानना । भैरवी चण्डिका देवी चण्डमुण्डविनाशिनी ॥१७॥

Verse

योगिनीवृन्दघोरैश्च सदापूज्या जयप्रदा । मुण्डमालावृताङ्गी सा प्रसन्ना भैरवी भवेत् ॥१८॥

Verse

चितावह्निसमारूढा पापौघदुर्विदारिणी । कौशिकी वसुधा तीव्रा भैरवी चापराजिता ॥१९॥

Verse

सुरासुराराधिता च निजभक्तार्तिनाशिनी । भैरवी पञ्चमी विद्या सर्वतः परिपातु माम् ॥२०॥

Verse

छिन्नमस्ताद्भुता घोरा सुमेधर्षिसुपूजिता । स्वरक्तपा विशालाक्षी वस्त्रहीना महाभुजा ॥२१॥

Verse

त्यागवात्सल्यसम्पूर्णा शत्रुनाशार्थतत्परा । मनोजवप्रियारूढा कृष्णा भीमा जयामरा ॥२२॥

Verse

वेतालगणसाम्राज्ञी प्रज्ञावर्धनकारिणी । खट्वाङ्गमुण्डधारिण्यै विशीर्षायै नमो नमः ॥२३॥

Verse

कुण्डली कुण्डलेशानी जयादियोगिनीवृता । छिन्नशीर्षा सदा पातु महाभोगप्रदायिनी ॥२४॥

Verse

वृद्धा धूम्रा शूर्पहस्ता प्रचण्डभीमविक्रमा । विरूपा कुटिला तीक्ष्णा श्वेतकेशी भयङ्करी ॥२५॥

Verse

यस्या जपेन होमेन स्मरणेनैव चेदपि । नश्यन्ति शत्रवः सर्वे तथा दुरितनाशनम् ॥२६॥

Verse

गर्दभासनसंरूढा दरिद्रा भोगनाशिनी । ज्येष्ठालक्ष्मीस्तथा धूमावती आपन्निवारिणी ॥२७॥

Verse

विश्वरूपां रिपुध्वंसकारिणीं क्लेशहारिणीम् । सर्वभूतनियन्त्रीं तां धूमादेवीं नमाम्यहम् ॥२८॥

Verse

विष्णोः संहारिकाशक्तिर्बगलेति प्रचक्षते । शत्रुनाशाय वन्दे तामच्युतां बगलामुखीम् ॥२९॥

Verse

पीताम्बरा पीतवर्णा पीतपुष्पोपशोभिता । स्तम्भिनी द्राविणी चैव बगले त्वां नतोऽस्म्यहम् ॥३०॥

Verse

प्रेतासनोपसंविष्टा हरिद्राकेतकीप्रिया । सुधासमुद्रद्वीपस्था तत्र सन्त्रासयन् रिपून् ॥३१॥

Verse

षट्कर्मसिद्धिदां देवीं कोमलां भीमविक्रमाम् । स्वर्णवर्णां स्वयन्तेजां तां नमाम्यहमादरात् ॥३२॥

Verse

मातङ्गी नवमी विद्या मतङ्गमुनिपूजिता । गजारूढा मत्तचित्ता मधुपा चित्तमोहिनी ॥३३॥

Verse

मधूकपुष्पसम्पूज्या योगदा भोगदा जया । काकपक्षकिरीटाङ्गी रक्ताभरणलङ्कृता ॥३४॥

Verse

बुद्ध्यहङ्कारचित्तादीन्मोहयित्वा हसन्मुखी । सा निजेच्छानुसारेण भ्रामयत्येव मायया ॥३५॥

Verse

मनुराज्यप्रदा मन्दहासा मन्देहनाशिनी । मातङ्गी विश्वजननी प्रसन्ना स्यान्ममोपरि ॥३६॥

Verse

भार्गवी सिन्धुसम्भूता कमलासनसंस्थिता । शक्रादिभिः पूजिता च श्रीदेवी विष्णुवल्लभा ॥३७॥

Verse

उलूकासनसंरूढा यातुलैश्वर्यदायिनी । केशवार्द्धासनगता रक्तवस्त्रा शुचिस्मिता ॥३८॥

Verse

दशमी कमला विद्या सर्वार्थपरिपालिनी । सिन्धुजा अरुणा भद्रा पद्मपुष्पविलासिनी ॥३९॥

Verse

चन्द्रप्रभा कर्दमाम्बा स्वर्णवृष्टिकरी सदा । श्रीविद्या परमेशानी दारिद्र्यात्त्राहि वेगतः ॥४०॥

Verse

दाक्षायणीदेहसमाश्रितास्तथा दशाकृती रूपगुणैर्विभाजिताः । ताः सर्वविद्याः प्रणमाम्यहं सदा यच्छन्तु मह्यं हृदि पूर्ववाञ्छितम् ॥४१॥

Verse

नगेन्द्रजा पार्वती च अपर्णा शिवरागिणी । गणेशजननी देवि शैलपुत्री सदावतु ॥४२॥

Verse

शिवा शिवप्रिया चैकवीरा योगीन्द्रपूजिता । कैलाशवासिनी देवी शैलजा परिरक्षतु ॥४३॥

Verse

ब्रह्मरूपा च वेदज्ञा श्रुतिसङ्घातकारिणी । सावित्री ब्रह्मविद्या सा परमा प्रकृति परा ॥४४॥

Verse

पराविद्यां परावाणीं परध्यानैकगामिनीम् । अक्षमालाङ्कुशधरां नमामि ब्रह्मचारिणीम् ॥४५॥

Verse

शब्दब्रह्ममयी देवी ह्यक्षरा रावकारिणी । ॐकारेशी चतुर्वाणी चतुर्दिङ्कीर्तिविस्तरा ॥४६॥

Verse

चन्द्रघण्टां स्वयंशब्दां दैत्यकर्णविदारिणीम् । पूर्णेन्दुसमसौम्यां तां सर्वदां प्रणमाम्यहम् ॥४७॥

Verse

असङ्ख्यकोटिब्रह्माण्डसम्भूतिस्थितिकारिणी । कूष्माण्डा सा महामाया सर्वदा सुप्रसीदतु ॥४८॥

Verse

स्वोदरे विश्वमखिलं धारयन्तीं तु सर्वदा । विना श्रमेण वन्दे तां कूष्माण्डां विश्वधारिणीम् ॥४९॥

Verse

महासेनस्य जननी देवसैन्यप्रकाशिनी । सिंहारूढा विशालाक्षी सा नश्येद्दुरितं मम ॥५०॥

Verse

बालग्रहाभिभूतानां सर्वोपद्रवनाशिकाम् । सर्वाभीष्टप्रदां देवीं नमामि शम्भुवल्लभाम् ॥५१॥

Verse

मूलाधारस्थिते पद्मे चतुर्वर्णसमाश्रिता । कात्यायनी योगगम्या कल्याणं विदधातु मे ॥५२॥

Verse

मृगेन्द्रासनमारूढा कात्यायनतनूद्भवा । सर्वभूतनियन्त्री सा सर्वदा वरदा भवेत् ॥५३॥

Verse

गर्दभासनसंरूढा मुक्तकेशी महोदरी । चर्मशाटीं समावृत्य क्वचिद्वस्त्रैर्निरावृता ॥५४॥

Verse

कालस्य हारिणी भूतद्राविणी विकटानना । अजेया कालरात्रिः सर्वाशुभेभ्योऽभिरक्षतु ॥५५॥

Verse

वृषारूढा शशाङ्काङ्गा त्रिनेत्रा श्वेतवाससा । मन्दारपुष्पसम्पूज्या शूलटङ्कधरा शिवा ॥५६॥

Verse

महागौरीति सा ज्ञेया पूज्या कैवल्यदायिनी । विभ्रतीं ज्ञानमुद्राञ्च दासिष्ट ज्ञाननिर्मलम् ॥५७॥

Verse

चक्रेश्वरी राजविद्या गुह्या गोप्या सरस्वती । विबुधैर्वन्दिता दिव्यमाल्याम्बरधरा प्रिया ॥५८॥

Verse

योगीन्द्रवृन्दसंसेव्यां सर्वाभीष्टैकदायिनीम् । सर्वलोकस्तुतां सिद्धिदात्रीं तां प्रणमाम्यहम् ॥५९॥

Verse

निग्रह उवाच । इमां सर्वेश्वरीं विद्यां योऽधीते प्रत्यहं नरः । सर्वैश्वर्यमवाप्नोत्ययुतावृत्तिर्यदि कृता ॥६०॥

Verse

गुरुपुष्ये रविपुष्येऽमायां वापि निशागते । शक्तिपीठे सिद्धपीठे नवरात्रे विशेषतः ॥६१॥

Verse

प्राप्नोति द्रविणं ज्ञानं सन्ततिं प्रेयसीं तथा । अथवा मुक्तिमाप्नोति निष्कामो यदि सम्पठेत् ॥६२॥

Verse

अभिजिदुवाच । भवताराधिता कस्मिन् शैले सा निग्रहेश्वरी । किं रहस्यं तथा नाम वर्म सर्वं वदस्व मे ॥

Verse

अभिजित् ने कहा - आपके द्वारा वह निग्रहेश्वरी देवी किस पर्वत में पूजिता हुईं, उनका रहस्य, नाम, कवच आदि सब मुझे कहें । निग्रह उवाच । ददात्युमङ्गं भक्ताय शोकतापविनाशनम् । तस्माज्जनैरुमङ्गेति प्रोच्यते परमेश्वरी ॥१॥

Verse

अगस्तु भास्करः प्रोक्त उमिति क्रोधवर्जनम् । मार्तण्डयुक्ता चाक्रोधोमगेति कथिता जनैः ॥२॥

Verse

शतनामानि वक्ष्यामि श‍ृणुष्व मानवर्षभ । येषां वै पाठमात्रेण सोमङ्गा सम्प्रसीदति ॥३॥

Verse

आदौ स्नात्वा धौतवस्त्रं धारयित्वा तु चन्दनम् । नत्वा विघ्नेश्वरं सूर्यं स्वगुरुं भैरवं शिवम् ॥४॥

Verse

ततो वै कार्यसिद्ध्यर्थे निशामध्ये समागते । उमङ्गाशैलमारुह्य पूजयेदुमगेश्वरीम् ॥५॥

Verse

अष्टादशैः षोडशैर्वा दशैः पञ्चैस्तुमानसैः । यथालब्धोपचारैश्च सत्त्वभावेन पूजयेत् ॥६॥

Verse

रुद्राक्षमालया रक्तचन्दनेनास्थिमालया । जपेच्चैव मूलमन्त्रमभावे मणिमालया ॥७॥

Verse

कृत्वा न्यासविधानन्तु मूलमन्त्रेण साधकः । ध्यानं कुर्यान्महाबाहो भक्तियुक्तेन चेतसा ॥८॥

Verse

रक्ताम्बरधरा देवी रक्ता सिंहेन्द्रवाहना । मार्तण्डभैरवयुता शिलाधोभागमाश्रिता ॥९॥

Verse

उमङ्गाशैलनिलया महामहिषघातिनी । मगविप्रैः सदा सेव्या भैरवेन्द्रेण पूजिता ॥१०॥

Verse

सर्वसिद्धिकरी भक्तभोगमोक्षफलप्रदा । देवस्तुता जगन्माता शिवाङ्का चोमगेश्वरी ॥११॥

Verse

शिवाराध्या शिवा सर्वेश्वरी सद्भिः सदा स्तुता । एवं ध्यात्वाऽनन्यचित्तो भूत्वा चाभीष्टसिद्धये ॥१२॥

Verse

पुण्यानि शतनामानि मध्यगत्या तु सम्पठेत् । जगत्यप्रकाशितानि निग्रहेण मया श‍ृणु ॥१३॥

Verse

अथ शतनामानि । ॐ उमङ्गा उमगेशानी मातृका योगिनी परा । श्रीविद्या कण्ठनिलया सर्वदेवनमस्कृता ॥१४॥

Verse

शिवा शिवप्रिया तारा शिवपर्यङ्कशायिनी । कपिला विन्ध्यगेहा च उमङ्गेशी शवासना ॥१५॥

Verse

महाविद्या महायोनिर्महापाशा महाङ्कुशा । महोदरा महावक्षा महाकेशा महाभुजा ॥१६॥

Verse

कमला कमलेशानी शिवाराध्या शिवस्तुता । गणेशजननी विश्वमाता विश्वप्रतिष्ठिता ॥१७॥

Verse

विश्वेशा विश्वसाम्राज्ञी विश्वारूढा जयप्रदा । मार्तण्डभैरवयुता बटुकेनाभिरक्षिता ॥१८॥

Verse

दाक्षायणी पर्वतेशात्मजा गङ्गानुजा उमा । कौशिकी वसुधा धूमा चोग्रतारा शुचिस्मिता ॥१९॥

Verse

भैरवी कालरूपा च दानवव्यूथभेदिनी । वसुधा कालिका कृष्णा रक्तपा विकटानना ॥२०॥

Verse

रक्तवस्त्रा पीतवस्त्रा शुभ्रवस्त्रा शुभानना । शिवारूढा शवारूढा सिंहारूढा तथाम्बिका ॥२१॥

Verse

सर्वाशा चैव सर्वेशा सृष्टिस्थित्यन्तकारिणी । अनेका चैकरूपा च ब्रह्मविष्णुशिवानुता ॥२२॥

Verse

अशोकसुन्दरीमाता स्कन्दमाता बलान्विता । एकास्या च षडास्या च सहस्रास्यामितानना ॥२३॥

Verse

महिषान्तकरी चन्द्रघण्टा चन्द्रमुखी शुभा । चन्द्रकान्तियुता सौम्या चन्द्रशेखरवल्लभा ॥२४॥

Verse

ऐलस्तुता महागौरी शाङ्करी पन्नगेश्वरी । भद्रकाली महाकाली कालकाली तथाद्भुता ॥२५॥

Verse

महाकालप्रियाशेषा सगुणा निर्गुणामला । श्मशानेशी जगन्माता जगदानन्दकारिणी ॥२६॥

Verse

गुह्यस्थिता महातेजा भैरवेन्द्रवरप्रदा । वेतालप्रेतडाकिन्यादिभिः पूज्येति कीर्तिता ॥२७॥

Verse

निग्रह उवाच । राज्यं धनं तथा पुत्रं कलत्रं रोगनाशनम् । यच्चिन्तितं जनैर्नामपाठमात्रेण लभ्यते ॥२८॥

Verse

पठित्त्वेतानि नामानि दिव्यानि नियतात्मनः । वर्मपाठेन संसिद्धिर्निर्भयो जायते नरः ॥२९॥

Verse

ततो रक्षाविधानाय सुस्पष्टोच्चारणेन च । प्रपठेत् कवचं देव्यास्ततो भीतिर्न जायते ॥३०॥

Verse

अभिजिदुवाच । कवचं कीदृशं देव्या महाभयविनाशकम् । कृपया विप्रशार्दूल उमङ्गाया वदस्व मे ॥३१॥

Verse

निग्रह उवाच । अथाहं सम्प्रवक्ष्यामि कवचं महदद्भुतम् । उमङ्गेशीमहादेव्या नास्ति यज्जगति श्रुतम् ॥३२॥

Verse

अथ कवचम् । अमरा पातु शीर्षे मां जित्वरा केशकर्दमे । ललाटे पातु मां नित्यं त्रिपुरारीश्वरप्रिया ॥३३॥

Verse

नेत्रे रक्षतु मेऽजेया भ्रूयुगे गिरिजा तथा । उमङ्गा नासिकायाञ्च कर्णौ श्रीजगदम्बिका ॥३४॥

Verse

कपोले पातु मां चण्डमुण्डशीर्षापहारिणी । मुखे दन्ते च जिह्वायां सर्वदा कमलानना ॥३५॥

Verse

सावित्री सर्वदा रक्षेत्कण्ठदेशे समाश्रिता । ग्रीवायामादिप्रकृतिर्हृदये त्रिगुणात्मिका ॥३६॥

Verse

सन्ध्या कुक्षौ तथा स्कन्धौ पङ्कजायतलोचना । देवेन्द्रवन्दिता देवी बाहू मे पातु सर्वदा ॥३७॥

Verse

करौ रक्षतु इन्द्राणी अङ्गुल्यग्रं पतिव्रता । देवहूतिः सदा रक्षेदुदरं करुणामयी ॥३८॥

Verse

अपर्णा मे कटिं पातु पृष्ठमर्चिस्तु सर्वदा । वसुन्धरा तथा नाभिं लिङ्गं सा विश्वमोहिनी ॥३९॥

Verse

रक्षेदुन्मादयन्ती मे गुदं मेढ्रञ्च भास्वरा । उरू च जानुनी पातु श्रीप्रदा विष्णुवल्लभा ॥४०॥

Verse

जङ्घे मे पातु देवेशी गुल्फौ पातु तथादितिः । प्रसूतिः पातु मे पादौ पादान्ते च सरस्वती ॥४१॥

Verse

लोहितं पातु मे रक्तबीजशोणितपायिनी । नखान् रक्षतु गायत्री चानुसूया सदा त्वचम् ॥४२॥

Verse

अन्तःस्थितान्तथान्याङ्गान्त्रिपुरासुरनाशिनी । त्रिपुरा त्रिपुरेशी च दशदिक्षु प्रपातु माम् ॥४३॥

Verse

रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् । सर्वदा सर्वतः सर्वं पातु मां सोमगेश्वरी ॥४४॥

Verse

निग्रह उवाच । इति ते कथितं वत्स कवचञ्चेदमद्भुतम् । न वै देयमशिष्याय गोपनीयं प्रयत्नतः ॥४५॥

Verse

महाभयेऽथवा युद्धे विषे चाग्नौ जलोद्भवे । राजदण्डे तथाकाले वने वा हिंस्रजन्तुषु ॥४६॥

Verse

दशावृत्तिकृतं वर्म नूनं रक्षति पाठकम् । निर्भयो जायते मर्त्य उमङ्गायाः कृपान्वितः ॥४७॥

Verse

ऐलेन बुधपुत्रेण पुरा शैले प्रतिष्ठिता । कालान्तरे साधकैश्च भैरवेन्द्रादिभिस्तथा ॥४८॥

Verse

तस्मात्तां पूजयेदम्बां सर्वलोकेश्वरेश्वरीम् । शक्तिपूजां विना कोऽपि न किञ्चित्कर्तुमर्हति ॥४९॥

Verse

शक्तियुक्तो महेशश्च शक्तियुक्तश्च केशवः । ब्रह्मा शक्तियुतो भूत्वा स्वकर्मगतिमान् भवेत् ॥५०॥

Verse

॥ इति श्रीनिग्रहाचार्येण प्रकाशिता निग्रहागमसम्मतागस्त्यप्रोक्तेषु शक्तिसूत्रेषु सृष्टिभाष्यान्तर्गता सर्वेश्वरीविद्या सम्पूर्णा ॥

śrīmadsarasvatīdevīkavacam 3
ūrdhvāmnāyokta siddha vīraughagurukavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms