Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

ūrdhvāmnāyokta siddha vīraughagurukavacam

ऊर्ध्वाम्नायोक्त सिद्ध वीरौघगुरुकवचम्

Verse

॥ गुरु ध्यानम् ॥

Verse

ध्यायेच्छिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् । श्वेताम्बरपरीधानं श्वेतमाल्यानुलेपनम् ॥२॥

Verse

वराभयकरं शान्तं करुणामयविग्रहम् । वामेनोत्पलधारिण्या शक्त्यालिङ्गितविग्रहम् ॥

Verse

स्मेराननं सुप्रसन्नं साधकाभीष्टसिद्धिदम् । ॥ कवचस्तोत्रम् ॥

Verse

परनाथादिनाथश्च ब्रह्मरन्ध्रे सहस्रके । दिव्यचक्रे च मे पातु सर्वविश्वेश्वरेश्वरः ॥१॥

Verse

श्रीनाथः पातु शिरसि सिद्धिदले तु श्रीपतिः । वाग्देवी दुर्गनाथश्च दुर्गा दुर्गतिनाशिनी ॥२॥

Verse

षोडशारे सदा पातु कण्ठदेशे स्वरे तथा । ईश्वरो भैरवीनाथो कालमीशानभैरवः ॥३॥

Verse

द्वादशारे च मे पातु वीरभद्रो कालान्तकृत् । दशारे नाभिदेशे च रुरुनाथश्च भैरवः ॥४॥

Verse

परात्परगुरुर्देवो चक्रनाथो सदाऽवतु । षड्दले कामनेत्रे च कामदेवो सदाऽवतु ॥५॥

Verse

मत्स्येन्द्रो मत्स्यनाथश्च रक्षतु चाण्डकोषके । गोरक्षश्च वेदपद्मे आधारे पातु मे सदा ॥६॥

Verse

var गोरक्षनाथः चतुरारे भर्तृहरिः गुरुर्मे सर्वचक्रके । शीर्षादौ गुदपर्यन्तं पातु नाथो गुरुश्च मे ॥७॥

Verse

पादादिशीर्षपर्यन्तं विश्वनाथो विभुर्गुरुः । इष्टो इष्टपतिर्नाथो विश्वसृक् पातु मे सदा ॥८॥

Verse

॥ इति ऊर्ध्वाम्नायोक्त सिद्ध वीरौघगुरुकवचं सम्पूर्णम् ॥

sarveśvarīvidyā
śrīsītākavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms