Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrīsaubhāgyakavacastotram

श्रीसौभाग्यकवचस्तोत्रम्

Verse

कैलासशिखरे रम्ये सुखासीनं सुरार्चितं गिरीशं गिरिजा स्तुत्वा स्तोत्रैर्वेदान्तपारगैः । प्रणम्य परया भक्त्या तमपृच्छत् कृताञ्जलिः रहस्यं रक्षणं किं वा सर्वसम्पत्करं वद ॥

Verse

श्रीशिवोवाच - श‍ृणु देवि! प्रवक्ष्यामि यस्मात् त्वं परिपृच्छसि यस्य श्रवणमात्रेण भवभीतिर्न जायते । एतत् सौभाग्यकवच रहस्यातिरहस्यकं सौभाग्यकवचं देवि! श‍ृणु सौभाग्यदायकम् ॥

Verse

विनियोगः - अस्य श्रीसौभाग्यकवचस्तोत्रस्य श्रीआनन्दभैरव ऋषिः । अनुष्टुप् छन्दः । श्रीसौभाग्यसुन्दरी देवता । ॐ क्लीं सौः बीजम् । ह्रीं क्लीं शक्तिः । आं ह्रीं क्रों कीलकम् । सर्वसौभाग्यसिद्‍ध्यर्थे पाठे विनियोगः ॥

Verse

ऋष्यादिन्यासः - शिरसि श्रीआनन्दभैरवाय ऋषये नमः । मुखे अनुष्टुप्छन्दसे नमः । हृदि श्रीसौभाग्यसुन्दरीदेवतायै नमः । गुह्ये ॐ क्लीं सौः बीजाय नमः । पादयोः ह्रीं क्लीं शक्तये नमः । नाभौ आं ह्रीं क्रों कीलकाय नमः । सर्वाङ्गे सर्वसौभाग्यसिद्‍ध्यर्थे पाठे विनियोगाय नमः । षडङ्गन्यासः - करन्यासः - ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलकरपृष्ठाभ्यां नमः ॥

Verse

अङ्गन्यासः - ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा । सौः शिखायै वषट । ऐं कवचाय हुं । क्लीं नेत्रत्रयाय वौषट् । सौः अस्त्राय फट् ॥

Verse

ध्यानं - ऐहिकपरफलदात्रीमैशानीं मनसि भावये मुद्राम् । ऐन्दवकलावतंसामैश्वर्यस्फुरणपरिणतिं जगताम् ॥१॥

Verse

क्लीबत्वदैत्यहन्त्री क्लिन्नमनस्कां महेश्वराश्लिष्टाम् । क्लृप्तजनेष्टकर्त्रीं कल्पितलोकप्रभां नमामि कलाम् ॥२॥

Verse

सौभाग्यदिव्यकनिधिं सौरभकचवृन्दविचलदलिमालाम् । सौशील्यशेषतल्पां सौन्दर्यविभामञ्जरीं कलये ॥३॥

Verse

पाशपाणि सृणिपाणि भावये चापपाणि शरपाणि दैवतम् । यत्प्रभापटलपाटलं जगत् पद्मरागमणिमण्डपायते ॥४॥

Verse

हेमाद्रौ हेमपीठस्थितामखिलसुरैरीड्यमानां विराजत् । पुष्पेष्विष्वासपाशाङ्कुशकरकमलां रक्तवेषातिरक्ताम् ॥५॥

Verse

दिक्षूद्यद्भिश्चतुर्भिर्मणिमयकलशैः पञ्चशक्त्याञ्चितैः स्व । भ्रष्टैः क्लृप्ताभिषेकां भजत भगवतीं भूतिदामन्त्ययामे ॥६॥

Verse

कवचस्तोत्रं - शिखाग्रं सततं पातु मम त्रिपुरसुन्दरी । शिरः कामेश्वरी नित्या तत्पूर्वं भगमालिनी ॥१॥

Verse

नित्यक्लिन्नाऽवताद्दक्षं भेरुण्डा तस्य पश्चिमम् । वह्निवासिन्यवेद् वामं मुखं विद्येश्वरी तथा ॥२॥

Verse

शिवदूती ललाटं मे त्वरिता तस्य दक्षिणम् । तद्वामपार्श्वमवतात् तथैव कुलसुन्दरी ॥३॥

Verse

नित्या पातु भ्रुवोर्मध्यं भ्रुवं नीलपताकिनी । वामभ्रुवं तु विजया नयनं सर्वमङ्गला ॥४॥

Verse

ज्वालामालिन्यक्षि वामं चित्रा रक्षतु पक्ष्मणी । दक्षश्रोत्रं महानित्या वामं पातु महोद्यमा ॥५॥

Verse

दक्षं वामं च वटुका कपोलौ क्षेत्रपालिका । दक्षनासापुटं दुर्गा तदन्यं तु भारती ॥६॥

Verse

नासिकाग्रं सदा पातु महालक्ष्मीर्निरन्तरम् । अणिमा दक्षकटिं महिमा च तदन्यकम् ॥७॥

Verse

दक्षगण्डं च गरिमा लघिमा चोत्तरं तथा । ऊर्ध्वोष्ठकं प्राप्तिसिद्धिः प्राकाम्यमधरोष्ठकम् ॥८॥

Verse

ईशित्वमूर्ध्वदन्तांश्च ह्यधोदन्तान् वशित्वकम् । रससिद्धिश्च रसनां मोक्षसिद्धिश्च तालुकम् ॥९॥

Verse

तालुमूलद्वयं ब्राह्मीमाहेश्वर्यौ च रक्षताम् । कौमारी चिबुकं पातु तदधः पातु वैष्णवी ॥१०॥

Verse

कण्ठं रक्षतु वाराही चैन्द्राणी रक्षतादधः । कृकाटिकां तु चामुण्डा महालक्ष्मीस्तु सर्वतः ॥११॥

Verse

सर्वसङ्क्षोभिणीमुद्रा स्कन्धं रक्षतु दक्षिणम् । तदन्यं द्राविणीमुद्रा पायादंसद्वयं क्रमात् ॥१२॥

Verse

आकर्षणी वश्यमुद्रा चोन्मादिन्यथ दक्षिणम् । भुजं महाङ्कुशा वामं खेचरी दक्षकक्षकम् ॥१३॥

Verse

वामकक्षं बीजमुद्रा योनिमुद्रा तु दक्षिणम् । लसत् त्रिखण्डिनीमुद्रा वामभागं प्रपालयेत् ॥१४॥

Verse

श्रीकामाकर्षिणी नित्या रक्षताद् दक्षकूर्परम् । कूर्परं वाममवतात् सा बुद्‍ध्याकर्षिणी तथा ॥१५॥

Verse

अहङ्काराकर्षिणी तु प्रकाण्डं पातु दक्षिणम् । शब्दाकर्षिणिका वामं स्पर्शाकर्षिणिकाऽवतु ॥१६॥

Verse

प्रकोष्ठं दक्षिणं पातु रूपाकर्षिणिकेतरम् । रसाकर्षिणिका पातु मणिबन्धं च दक्षिणम् ॥१७॥

Verse

गन्धाकर्षिणिका वामं चित्ताकर्षिणिकाऽवतु । करभं दक्षिणं धैर्याकर्षिणी पातु वामकम् ॥१८॥

Verse

स्मृत्याकर्षिण्यसौ वामं नामाकर्षिणिकेतरम् । बीजाकर्षिणिका पायात् सततं दक्षिणाङ्गुलीः ॥१९॥

Verse

आत्माकर्षिणिका त्वन्या अमृताकर्षिणी नखान् । शरीराकर्षिणी वामनखान् रक्षतु सर्वदा ॥२०॥

Verse

अनङ्गकुसुमा शक्तिः पातु दक्षिणस्तनोपरि । अनङ्गमेखला चान्यस्तनोर्ध्वमभिरक्षतु ॥२१॥

Verse

अनङ्गमदना दक्षस्तनं तच्चूचुकं पुनः । रक्षतादनिशं देवी ह्यनङ्गःमदनातुरा ॥२२॥

Verse

अनङ्गरेखा वामं तु वक्षोज तस्य चूचुकम् । अनङ्गवेगिनी क्रोडमनङ्गास्याङ्कुशाऽवतु ॥२३॥

Verse

अनङ्गमालिनी पायाद् वक्षःस्थलमहर्निशम् । सर्वसङ्क्षोभिणी शक्तिर्हृत् सर्वद्राविणी परा ॥२४॥

Verse

कुक्षिं सर्वाकर्षिणी तु पातु पार्श्वं च दक्षिणम् । आह्लादिनी वामपार्श्वं मध्यं सम्मोहिनी चिरम् ॥२५॥

Verse

सा सर्वस्तम्भिनी पृष्ठं नाभिं वै सर्वजृम्भिणी । वशङ्करी वस्तिदेशं सर्वरञ्जिनी मे कटिम् ॥२६॥

Verse

सा तु सर्वोन्मादिनी मे पायाज्जघनमण्डलम् । सर्वार्थसाधिनी शक्तिः नितम्बं रक्षतान्मम ॥२७॥

Verse

दक्षस्फिचं सदा पातु सर्वसम्पत्तिपूरिणी । सर्वमन्त्रमयी शक्तिः पातु वामस्फिचं मम ॥२८॥

Verse

पायात् कुकुन्दरद्वन्द्वं सर्वद्वन्द्वक्षयङ्करी । सर्वसिद्धिप्रदा देवी पातु दक्षिण वङ्क्षणम् ॥२९॥

Verse

सर्वसम्पत्प्रदा देवी पातु मे वामवङ्क्षणम् । सर्वप्रियङ्करी देवी गुह्यं रक्षतु मे सदा ॥३०॥

Verse

मेढ्रं रक्षतु मे देवी सर्वमङ्गलकारिणी । सर्वकामप्रदा देवी पातु मुष्कं तु दक्षिणम् ॥३१॥

Verse

पायात् तदन्यमुष्कं तु सर्वदुःखविमोचिनी । सर्वमृत्युप्रशमनी देवी पातु गुदं मम ॥३२॥

Verse

पातु देवी गुह्यमध्यं सर्वविघ्ननिवारिणी । सर्वाङ्गसुन्दरी देवी रक्षताद् दक्षसक्थिकम् ॥३३॥

Verse

वामसक्थितलं पायात् सर्वसौभाग्यदायिनी । अष्ठीवं मम सर्वज्ञा देवी रक्षतु दक्षिणम् ॥३४॥

Verse

वामाष्ठीवं सर्वशक्तिः देवी पातु युगं मम । सर्वैश्वर्यप्रदा देवी दक्षजानुं सदाऽवतु ॥३५॥

Verse

सर्वज्ञानमयी देवी जानुमन्यं ममावतात् । अव्याद् देवी दक्षजङ्गां सर्वव्याधिविनाशिनी ॥३६॥

Verse

तदन्यां पातु देवी सा सर्वाधारस्वरूपिणी । सर्वपापहरा देवी गुल्फं रक्षतु दक्षिणम् ॥३७॥

Verse

सर्वानन्दमयी देवी वामगुल्फं सदाऽवतु । पार्ष्णि मे दक्षिणं पायात् सर्वरक्षास्वरूपिणी ॥३८॥

Verse

अव्यात् सदा सदा पार्ष्णि सर्वेप्सितफलप्रदा । दक्षाङ्घ्रिपार्श्वं वशिनी पूर्वं वाग्देवता मम ॥३९॥

Verse

सर्वं कामेश्वरी चोर्ध्वमधो वाग्देवता मम । मोदिनी प्रपदं पातु विमला दक्षिणेतरे ॥४०॥

Verse

अङ्गुलीररुणा पातु दक्षपादनखोज्ज्वला । तदन्या जयिनी पातु सदा सर्वेश्वरी मम ॥४१॥

Verse

दक्षवामपादतलं कौलिनी देवता मम । कुर्वन्तु जृम्भणा बाणाः त्रैलोक्याकर्षणं मम ॥४२॥

Verse

मोहं संहरतादिक्षुकोदण्डं भृङ्गमौविकम् । करोतु सततं पाशी वशीकरणमद्भुतम् ॥४३॥

Verse

विदध्यादङ्कुशं नित्यं स्तम्भनं शत्रुसङ्कटे । पीठं मे कामरूपाख्यं पातु कामान्तिकं मनः ॥४४॥

Verse

पूर्णं पूर्णगिरेः पीठं कान्तिं मे जनयेत् सदा । जालन्धरमन्यजालन्धरपीठं मे रक्षतु ॥४५॥

Verse

सायुज्ये नियतां प्रज्ञां श्रीपीठं श्रीकरं मम । कामेश्वरी त्वात्मतत्त्वं रक्षेद् वज्रेश्वरी तथा ॥४६॥

Verse

विद्यातत्त्वं शैवतत्त्वं पायाछ्रीभगमालिनी । कामं विद्यान्महाशत्रूनमृतार्णवमानसम् ॥४७॥

Verse

क्रोधं क्रोधापहा हन्यान्मन्युं पैताम्बुजासनम् । लोभं चिदासनं हन्याद् देव्यात्मामृतरूपभाक् ॥४८॥

Verse

मोहं संहरताच्चक्रं मदं मन्त्रासनं मम । मात्सर्यं नाशयेन्नित्यं मम सान्ध्यासनं तथा ॥४९॥

Verse

आधारं त्रिपुरा रक्षेत् स्वाधिष्ठानं पुरेश्वरी । मणिपूरं मणिद्योता पायात् त्रिपुरसुन्दरी ॥५०॥

Verse

अव्यादनाहतं भव्या नित्यं त्रिपुरवासिनी । विशुद्धिं त्रिपुरा श्रीश्च आज्ञां त्रिपुरमालिनी ॥५१॥

Verse

इडां मे त्रिपुरसिद्धा त्रिपुरा चापि पिङ्गलाम् । सुषुम्नां पातु मे नित्या पायात् त्रिपुरभैरवी ॥५२॥

Verse

त्रैलोक्यमोहनं चक्रं रोमकूपांश्च रक्षतु । सर्वाशापूरकं चक्रं सप्तधातूँश्च रक्षतु ॥५३॥

Verse

सर्वसङ्क्षोभण चक्रं प्राणाद्यं वायुपञ्चकम् । सौभाग्यदायकं चक्रं नागाद्यनिलपञ्चकम् ॥५४॥

Verse

सर्वार्थसाधकं चक्रं कारणानां चतुष्टयम् । सर्वरक्षाकरं चक्रं रक्षतान्मे गुणत्रयम् ॥५५॥

Verse

सर्वरोगहरं चक्रं पायात् पुर्यष्टकं मम । सर्वसिद्धिप्रदं चकमव्यान्मे कोशपञ्चकम् ॥५६॥

Verse

सर्वानन्दमयं चक्रं यशः कीर्तिं च रक्षतु । सौन्दर्यं मन्मथः पायाद् धृतिश्चापि रतिं मम ॥५७॥

Verse

प्रीतिं मे पातु या प्रीतिः रूपं पातु वसन्तकः । सङ्कल्पं कल्पकोद्यानं महालक्ष्मी श्रियं मम ॥५८॥

Verse

कान्तिं कपालिनी रक्षेत् मन्दिरं मणिमण्डपः । पुत्रान् शङ्खयनिधिः पायाद् भार्यां पद्मनिधिस्तथा ॥५९॥

Verse

मार्गे क्षेमङ्करी रक्षेत् मातङ्गी मुकुटं तथा । योगिनी प्रकटाद्यास्ता नवद्वाराणि पान्तु मे ॥६०॥

Verse

भोजने मामन्नपूर्णा मातङ्गी क्रीडनेऽवतात् । वने रक्षतु मां दुर्गा जाग्रती दुष्टनिग्रहे ॥६१॥

Verse

त्रिधाऽहङ्कारनैष्ठुर्यदोषत्रयं मलत्रयम् । डाकिन्यो योगिनीमुख्याः संहरन्तु ममानिशम् ॥६२॥

Verse

इच्छाशक्तिर्गुरोर्भक्तिं पातु मे ज्ञानमात्मनि । ज्ञानशक्तिः क्रियाशक्तिर्वैराग्यविषयेष्वपि ॥६३॥

Verse

हृत्पद्मकर्णिकामध्ये ह्रीङ्कारी परिरक्षतु । वैखरी श्रवणं पातु मध्यमा मननं पुनः ॥६४॥

Verse

योगं रक्षतु पश्यन्ती साक्षात् ज्ञानपरा मम । ब्रह्माणी जागृतं पातु शयानं वैष्णवी तथा ॥६५॥

Verse

सुषुप्तौ चण्डिका पातु तुर्या मे मोहकारिणी । सदा मां भैरवी पातु जगद्भरणपण्डिता ॥६६॥

Verse

चरणाम्भोरुहानन्दपरामृतरसेरिता । प्लाविनी कुण्डली पूर्णा अन्तरान्तं सदाऽवतात् ॥६७॥

Verse

अष्टदिक्षु महेन्द्राद्या सायुधाः पान्तु सर्वदा । पायादूर्ध्वा दिशं ब्रह्मा विष्णुश्चक्रायुधोप्यधः ॥६८॥

Verse

अनावृत्तानि स्थानानि कवचेन तु यानि मे । तानि सर्वाणि रक्षन्तु शिवाद्या गुरवः सदा ॥६९॥

Verse

फलश्रुतिः । एतत् सौभाग्यकवचं शाङ्करं यस्तु पाठयेत् । त्रिसन्ध्यं यः पठेद् भक्त्या श‍ृणुयाद् वा समाहितः ॥१॥

Verse

तस्य शीघ्रेण सिध्यन्ति सिद्धयस्त्वणिमादयः । गुटिकापादुकाद्यष्टसिद्धयः सम्भवन्ति च ॥२॥

Verse

वश्यादीन्यष्टकर्माणि योगश्चाष्टाङ्गसंयुतः । ब्रह्माविष्णुगिरीशेन्द्रकन्दर्परतिभिः सह ॥३॥

Verse

विचरन्ते तदखिलान् सिद्धगन्धर्वसेविताः । तस्य स्मरणमात्रेण ग्रहभूतपिशाचकाः ॥४॥

Verse

कीटवत् प्रपलायन्ते कष्माण्डा भैरवादयः । तस्याङ्घ्रितोयपतनात् प्रशाम्यति महारुजाः ॥५॥

Verse

तत्पादकमलासक्तरजोलेशाभिमर्शनात् । वश्यं भवति शीघ्रेण त्रैलोक्यं सचराचरम् । आबालमहिलाभूपाः किमु मायाविमोहिताः ॥६॥

Verse

॥ इति वामकेश्वरन्तन्त्रे नित्याषोडशिकार्णवे श्रीसौभाग्यकवचम् ॥

śrīsaubhāgyakavacam
gaṇeśvarakṛtaṃ skandakavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms