Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

gaṇeśvarakṛtaṃ skandakavacam

गणेश्वरकृतं स्कन्दकवचम्

Verse

गणेश्वर उवाच । कनककुण्डलमण्डलराजित सरसिजामलसुन्दरलोचनम् । निशितशस्त्रशरासन धारिणं शरवणोद्भवमीशसुतं नमः ॥१५६॥

Verse

सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभि- र्दिव्यैराभरणैर्विभूषिततनुं स्वर्गस्य सौख्यप्रदम् । अम्भोजाभयशक्ति कुक्कुटधरं दिव्याङ्गरागोज्ज्वलं सुब्रह्मण्यमुपास्महे प्रणमतां सर्वार्थसिद्धिप्रदम् ॥१५७॥

Verse

- - शिखां रक्षेत्कुमारस्तु कार्तिकेयः शिरोऽतु । ललाटं पार्वतीसूनुर्विशाखोऽवतु भ्रूयुगम् ॥१५८॥

Verse

नेत्रेऽव्यात्क्रौञ्चभेदी च नासिकां शिखिवाहनः । कर्णद्वयं शक्तिधरः कर्णमूले षडाननः ॥१५९॥

Verse

गण्डयुग्मं महासेनः कपोलौ तारकान्तकः । ओष्ठद्वयं च सेनानी रसनां शिखिकेतनः ॥१६०॥

Verse

तालुं कलाधरः पातु दंष्ट्रां देवशिखामणिः । गाङ्गेयश्चुबुकं पातु मुखं पातु शिखोद्भवः ॥१६१॥

Verse

हनू हरसुतः पातु पातु कण्ठं सदाग्निभूः । ग्रीवां गौरीसुतः पातु कक्षौ कारुण्यवारिधिः ॥१६२॥

Verse

स्कन्धौ ममावतात्स्कन्दो बाहुलेयो भुजौ मम । बाहू भवोद्भवः पातु करौ षाण्मातुरोऽवतु ॥१६३॥

Verse

अङ्गुली पिङ्गलः पातु हृदयं मधुमित्रजित् । नाभिं ममोदरं चैव सुब्रह्मण्यः सदावतु ॥१६४॥

Verse

मध्यं जगद्विभुः पातु नाभिं द्वादशलोचनः । कटिं द्विषड्भुजः पातु गुह्यं पातु गुहः सदा ॥१६५॥

Verse

जघनं जाह्नवीसूनुः पृष्ठं प्रमथनायकः । ऊरू पायादुमापुत्रो जानुयुग्मं जगद्धितः ॥१६६॥

Verse

जङ्घे पातु जगत्पूज्यः पातु गुल्फौ महाबलः । पादौ पातु परं ज्योतिः सर्वाङ्गं कुक्कुटध्वजः ॥१६७॥

Verse

ऊर्ध्वं पातु महोदारोऽप्यधस्तात्पातु शाङ्करिः । पार्श्वं नः पातु पापघ्नः सर्वतः पातु शक्तिधृक् ॥१६८॥

Verse

पूर्वाह्णेऽव्यात्परं ब्रह्म मध्याह्नेऽवतु तारजित् । अपराह्णे गुहः पातु रात्रौ दैत्यान्तकोऽवतु ॥१६९॥

Verse

त्रिसन्ध्यं च सुधीः पातु सर्वदा पातु बर्हिगः । बहिष्ठं षण्मुखः पातु अन्तःस्यं कृत्तिकासुतः ॥१७०॥

Verse

व्रजन्तं सुरसैन्येशः अटन्तं पाशधृग्विभुः । शयानं पातु शूरघ्नो मार्गे पातु कुमारकः ॥१७१॥

Verse

वने रणे गिरिचरः सदा रक्षतु मां वटुः । सुब्रह्मण्यस्य कवचं धर्मकामार्थमोक्षदम् ॥१७२॥

Verse

मन्त्राणां परमं मन्त्रं गुह्याद्गुह्यतरं सदा । पठन् श‍ृण्वन् सर्वपापैः रोगैश्चापि विमुच्यते ॥१७३॥

Verse

॥ इति शिवरहस्यान्तर्गते गणेश्वरकृतं स्कन्दकवचं सम्पूर्णम् ॥

śrīsaubhāgyakavacastotram
śrīhanumatkavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms