Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrīyogeśvarīkavacam

श्रीयोगेश्वरीकवचम्

Verse

श्रीगणेशाय नमः । श्रीयोगेश्वर्यै नमः । देव्युवाच - भगवन्सर्वमाख्यातं मन्त्रयन्त्रादिकं त्वया । योगिन्याः कवचन्देव न कुत्रापि प्रकाशितम् ॥१॥

Verse

श्रोतुमिच्छाम्यहं देव कृपापात्रं तवास्म्यहम् । कथयस्व महादेव यद्यहं तव वल्लभा ॥२॥

Verse

ईश्वर उवाच - श‍ृणुदेवि महाविद्यां सर्वदेवप्रपूजिताम् । यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरिः ॥३॥

Verse

सृष्टिकर्ता भवेद्ब्रह्मा संहर्ताहं तथैवच । यस्याः स्मरणमात्रेण देवादेवत्वमाप्नुयुः ॥४॥

Verse

रहस्यं श‍ृणुवक्ष्यामि योगेश्याः प्राणवल्लभे । त्रैलोक्यविजयं नाम कवचं मन्त्र विग्रहम् ॥५॥

Verse

अस्य श्रीयोगेश्वरीकवचस्य महादेव ऋषिः । अनुष्टुप्छन्दः । श्रीयोगेश्वरी देवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकम् । मम योगेश्वरीप्रसादसिद्ध्यर्थे जपे विनियोगः । अथन्यासः - श्रीमहादेव ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीयोगेश्वरी देवतायै नमः हृदये । ऐं बीजाय नमः दक्षिणस्तने । ह्रीं शक्तये नमः वामस्तने । श्रीं कीलकाय नमः नाभौ ॥

Verse

ऐं अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । श्रीं मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । ह्रीं कनिष्ठिकाभ्यां नमः । श्रीं करतलकरपृष्ठाभ्यां नमः ॥

Verse

ऐं हृदयाय नमः । ह्रीं शिररोस्वाहा । श्रीं शिखायै वषट् । ऐं कवचाय हुं । ह्रीं नेत्रत्रयाय वौषट् । श्रीं अस्त्रायफट् । भूर्भुवः स्वरोमिति दिग्बन्धः । अथ ध्यानम् - खड्गपात्रं च मुसलं लाङ्गलं च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगेश्वरी तथा ॥

Verse

इति ध्यात्वा पञ्चोपचारैः सम्पूज्य कवचं पठेत् । अथ कवचम् । शिरो मे शाङ्करी पातु मूर्ध्नि नारायणी तथा । ऐं बीजा भालदेशेतु ह्रीं बीजं दक्षनेत्रके ॥१॥

Verse

श्रीं बीजं वामनेत्रे च दक्षश्रोत्रे परास्मृता । वामश्रोत्रे नारसिंही नासामूलञ्च खड्गिनी ॥२॥

Verse

नासिकां मानिनी पातु मुखं मेऽवतु चाम्बिका । कपोलौ भूतसंहारी चुबुकं भ्रामरी तथा ॥३॥

Verse

कण्ठं मे चण्डिका पातु हृदयं विन्ध्यवासिनी । उदरे गिरिजा पातु नाभिं मेवऽतु भोगिनी ॥४॥

Verse

शुम्भिनी पृष्ठदेशे च स्कन्धयोः शूलधारिणी । हस्तयोर्योगिनी रक्षेत्कम्बुकण्ठ्यङ्गुलीस्तथा ॥५॥

Verse

कट्यां च सुन्दरी रक्षेद्गुह्यं गुह्येश्वरी तथा । कुब्जिका पातु मे मेढ्रं पातु देशेच शाम्भवी ॥६॥

Verse

भद्रकाली पातु चोर्वो जान्वोर्मेऽवतु कालिका । जङ्घे पातु महाभीमा गुल्फयोर्वतुशूलिनी ॥७॥

Verse

पादयोः श्रीधरी रक्षेत्सर्वाङ्गे योगिनी वतु । रक्तमज्जावसामांसान्यस्थिमेदांसि भैरवी ॥८॥

Verse

चामुण्डा चैव वाराही कौमारी वैष्णवी तथा । माहेश्वरी च सर्वाद्या जयश्रीर्मङ्गला तथा ॥९॥

Verse

रक्षन्तु स्वायुधैर्दिक्षु मां विदिक्षु यथा तथा । इतीदं कवचं दिव्यं पठनात्सर्वसिद्धिदम् ॥१०॥

Verse

स्मरणात्कवचस्यास्य जयः सर्वत्र जायते । राजद्वारे स्मशाने च भूतप्रेताभिचारके ॥११॥

Verse

बन्धने च महादुःखे जपेच्छत्रुसमागमे । प्रयोगञ्चाभिचारं च यो नरः कर्तुमिच्छति ॥१२॥

Verse

अयुताच्च भवेत्सिद्धिः पठनात्कवचस्य तु । सर्वत्र लभते कीर्तिः श्रीमान्भवति धार्मिकः ॥१३॥

Verse

भूर्जपत्रे लिखित्वा तु कवचं यस्तु धारयेत् । मन्त्रसिद्धिमवाप्नोती योगेश्वर्याः प्रसादतः ॥१४॥

Verse

पुत्रवान्धनवान्छ्रीमान्नानाविद्यानिधिर्भवेत् । ब्रह्मास्त्रादीनि शस्त्राणि नश्यन्ति पठनाच्च वै ॥१५॥

Verse

इदं कवचमज्ञात्वा योगिनीं लभते न च । शतलक्षप्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥१६॥

Verse

इति श्रीरुद्रयामले बहुरूपाष्टकप्रस्तावे ईश्वरपार्वतीसंवादे योगेश्वरीकवचं सम्पूर्णम् ॥

Verse

अथ मूल मन्त्रः - ॐ ह्रीं नमो भगवति रक्तचामुण्डे योगेश्वरी, योगिनीं ह्रीं स्वाहा इति मन्त्रः रक्तचामुण्डायै विघ्नहे भूत संहारिण्यैच धीमहि । तन्नो योगेश्वरी प्रचोदयात् ॥

Verse

गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवी त्वप्रसादात्त्वयि स्थितिः ॥

Verse

लं, हं, यं, रं, वं । अथ महामन्त्रः- ॐ अस्य श्रीयोगेश्वरी महामन्त्रस्य महादेवऋषिः अनुष्टुप् छन्दः । श्रीयोगेश्वरी देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्लीं कीलकम् । मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः । अथ न्यासः- ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ यं तर्जनीभ्यां नमः । ॐ यां मध्यमाभ्यां नमः । ॐ रुद्रद्रेवत्या अनामिकाभ्यां नमः । ॐ योगेश्वर्यै कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यसेत् । अथ ध्यानम् । ॐ देवीं भक्तजनप्रियां सुवदनां खड्गं च पाशं तथा स्वर्णालङ्कृतलाङ्गलं सुमुसलं हस्तैर्दधानां श्रियम् । विद्युत्कोटिरवीन्दुकान्तिधवलां दन्तासुरोन्मूलिनीं ब्रह्मेन्द्राद्यभिवन्दितां च वरदां योगेश्वरीं संभजे ॥१॥

Verse

लं पृथिव्यादि पञ्चमानसोपचारैः सम्पूज्य जपेत् । अथ मन्त्रः । ॐ ह्रीं यं यां रुद्रदेवतायै योगेश्वर्यै स्वाहा ॥

Verse

उत्तर न्यासं कृत्या गुह्यातिगुह्यगोप्त्रीत्वं गृहाणास्मत्कृतं जपम् । सिद्धिभर्वतु मे देवित्वत्प्रसादात्सुरेश्वरि ॥

Verse

इति ॥

Verse

श्रीयोगेश्वर्यै नमः ॥

yoginīnāyikākavacam
śrīyonikavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms