Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrīgaṅgākavacam

श्रीगङ्गाकवचम्

Verse

ॐ श्रीगणेशाय नमः । ॐ गङ्गायै नमः । विनियोगः - गङ्गाकवचस्य विष्णुरृषिविराट्छन्दः चतुर्दश पुरुष उद्धारण अर्थे पाठे विनियोगः । ॐ द्रव्यरूपा महाभागा स्नाने च तर्पणेऽपि च । अभिषेके पूजने च पातु मां शुक्लरुपिणी ॥१॥

Verse

विष्णुपादप्रसूतासि वैष्णवी नामधारिणी । पाहि मां सर्वतो रक्षेद्गङ्गा त्रिपथगामिनी ॥२॥

Verse

मन्दाकिनी सदा पातु देहान्ते स्वर्गवल्लभा । अलकनन्दा च वामभागे पृथिव्यां या तु तिष्ठति ॥३॥

Verse

भोगवती च पाताले स्वर्गे मन्दाकिनी तथा । पञ्चाक्षरमिमं मन्त्रं यः पठेच्छृणुयादपि ॥४॥

Verse

रोगी रोगात्प्रमुच्येत्बद्धो मुच्येत बन्धनात् । गुर्विणी जनयेत् पुत्रं वन्ध्या पुत्रवती भवेत् ॥५॥

Verse

गङ्गास्मरणमात्रेण निष्पापो जायते नरः । यः पठेद्गृहमध्ये तु गङ्गास्नानफलं लभेत् ॥६॥

Verse

स्नानकाले पठेद्यस्तु शतकोटिफलं लभेत् । यः पठेत्प्रयतो भक्त्या मुक्तः कोटिकुलैः सह ॥७॥

Verse

॥ इति श्रीविष्णुयामले शिवपार्वतीसंवादे गङ्गाकवचं सम्पूर्णम् ॥

gaṅgākavacam divyamaṅgalākhyam
gaṅgāsāmrājyakavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms