kavaca
gaṅgāsāmrājyakavacam
गङ्गासाम्राज्यकवचम्
Verse
॥ श्रीगणेशाय नमः ॥
Verse
श्रीदेव्युवाच -- देवेश! परमेशान ! भक्तानुग्रहकारक ! । गङ्गायाः कवचं ब्रूहि यद्यहं तव वल्लभा ॥१॥
Verse
श्रीशिव उवाच -- शृणु देवि ! प्रवक्ष्यामि गङ्गायाः कवचं शुभम् । यस्य स्मरणमात्रेण भवेत्साक्षान्महेश्वरः ॥२॥
Verse
पुत्रप्रदमपुत्राणां दरिद्राणां धनप्रदम् । मोक्षप्रदं मुमुक्षूणां शृणु चैकमना प्रिये ! ॥३॥
Verse
ॐ ओङ्कारी ब्रह्मरूपा ब्रह्महत्यापहारिणी । तारिणी सर्वलोकानां दायिनी सर्वसम्पदाम् ॥४॥
Verse
सर्वसौख्यकरी सत्यं कवचं तद्वदामि ते । ॐ अस्य श्रीगङ्गासाम्राज्यकवचमन्त्रस्य श्रीभगवान् महादेव ऋषिरनुष्टुप्छन्दः, श्रीगङ्गापरमेश्वरी देवता, ॐ ऐं बीजं हिलि हिलि मिलि मिलि शक्तिः, गङ्गे मां पावय पावय स्वाहा इति कीलकम्, धर्मार्थकाममोक्षार्थे जपे विनयोगः । ॐ शिरो मे प्रणवः पातु सर्वसिद्धिकरीश्वरी ॥५॥
Verse
ऐँ बीजं में शिखां पातु गङ्गा त्रैलोक्यसुन्दरी । ह्रिङ्कारी मस्तके मेऽव्याल्लिकारं मे ललाटके ॥६॥
Verse
पुनः पातु महामाया हिकारी परदेवता ॥७॥
Verse
मिकारी मुखमध्ये तु लिकारी श्रोत्रयोर्मम । कण्ठमध्ये सदा पातु मिकारी वाग्विलासिनी ॥८॥
Verse
लिकारी हृदयं रक्षेद्गङ्गे पापापहारिणी ॥
Verse
स्तनद्वन्द्वे सदा मेऽव्यान्माङ्कारी परमेश्वरी ॥९॥
Verse
पाकारी पार्श्वयोः पातु वकारं नाभिदेशके । यकारं मे कटिं पातु पाकारी लिङ्गदेशके ॥१०॥
Verse
पुनः पाकारं मे पातु गुह्यदेशे निरन्तरम् । वकारं जङ्घयोः पातु पकारं मम जानुनी ॥११॥
Verse
स्वाकारं गुल्फयोः पातु हाकारं पादयोः सदा । सर्वाङ्गं मे सदा पातु गङ्गा सवार्थसिद्धिदा ॥१२॥
Verse
इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् । पठनाद्ब्रह्मसायुज्यं प्राप्नुयान्नात्र संशयः ॥१३॥
Verse
सप्तम्यां वा चतुर्दश्यां सङ्क्रान्तौ ग्रहणे तथा । यः पठेन्नित्यकृद् भक्त्या सर्वसिद्धीश्वरो भवेत् ॥१४॥
Verse
इदं कवचमज्ञात्वा गङ्गां यो भजतेऽधमः । जन्मजन्म भवेन्मूर्खो दरिद्रो व्याधिसंयुतः ॥१५॥
Verse
तस्मादवश्यमेतत्तु यः पठेन्नित्यमेव हि । सर्वसम्पद्युतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् ॥१६॥
Verse
इति श्रीशिवशिवानन्दनाथविरचितं श्रीगङ्गासाम्राज्यकवचम् ॥
