Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

yoganidroktakavacanyāsaḥ

योगनिद्रोक्तकवचन्यासः

Verse

योगनिद्रोवाच । दूरीभूतं कुरु भयं भयं किं ते हरौ स्थिते । स्थितायां मयि च ब्रह्मन्सुखी तिष्ठ जगत्पते ॥१७॥

Verse

श्रीहरिः पातु ते वक्त्रं मस्तकं मधुसूदनः । श्रीकृष्णश्चक्षुषी पातु नासिकां राधिकापतिः ॥१८॥

Verse

कर्णयुग्मं च कण्ठं च कपालं पातु माधवः । कपोलं पातु गोविन्दः केशांश्च केशवः स्वयम् ॥१९॥

Verse

अधरोष्ठं हृषीकेशो दन्तपङ्क्तिं गदाग्रजः । रासेश्वरश्च रसनां तालुकं वामनो विभुः ॥२०॥

Verse

वक्षः पातु मुकुन्दश्च जठरं पातु दैत्यहा । जनार्दनः पातु नाभिं पातु विष्णुश्च मेहनम् ॥२१॥

Verse

नितम्बयुग्मं गुह्यं च पातु ते पुरुषोत्तमः । जानुयुग्मे जानकीशः पातु ते सर्वदा विभुः ॥२२॥

Verse

हस्तयुग्मं नृसिंहश्च पातु सर्वत्र सङ्कटे । पादयुग्मं वराहश्च पातु ते कमलोद्भवः ॥२३॥

Verse

ऊर्ध्वं नारायणः पातु ह्यधस्तात्कमलापतिः । पूर्वस्यां पातु गोपालः पातु वह्नौ दशास्यहा ॥२४॥

Verse

वनमाली पातु याम्यां वैकुण्ठः पातु नैरृतौ । वारुण्यां वासुदेवश्च सतो रक्षाकरः स्वयम् ॥२५॥

Verse

पातु ते सन्ततमजो वायव्यां विष्टरश्रवाः । उत्तरे च सदा पातु तेजसा जलजासनः ॥२६॥

Verse

ऐशान्यामीश्वरः पातु पातु सर्वत्र शत्रुजित् । जले स्थले चान्तरिक्षे निद्रायां पातु राघवः ॥२७॥

Verse

इत्येवं कथितं ब्रह्मन्कवचं परमाद्भुतम् । कृष्णेन कृपया दत्तं स्मृतेनैव पुरा मया ॥२८॥

Verse

शुम्भेन सह सङ्ग्रामे निर्लक्ष्ये घोरदारुणे । गगने स्थितया सद्यः प्राप्तिमात्रेण सो जितः ॥२९॥

Verse

कवचस्य प्रभावेण धरण्यां पतितो मृतः । पूर्वं वर्षशतं खे च कृत्वा युद्धं भयावहम् ॥३०॥

Verse

मृते शुम्भे च गोविन्दः कृपालुर्गगनस्थितः । मालां च कवचं दत्त्वा गोलोकं स जगाम ह ॥३१॥

Verse

कल्पान्तरस्य वृत्तान्तं कृपया कथितं मुने । अभ्यन्तरभयं नास्ति कवचस्य प्रभावतः ॥३२॥

Verse

कोटिशः कोटिशो नष्टा मया दृष्टाश्च वेधसः । अहं च हरिणा सार्द्धं कल्पे कल्पे स्थिरा सदा ॥३३॥

Verse

इत्युक्त्वा कवचं दत्त्वा साऽन्तर्धानं चकार ह । निःशङ्को नाभिकमले तस्थौ स कमलोद्भवः ॥३४॥

Verse

सुवर्णगुटिकायां च कृत्वेदं कवचं परम् । कण्ठे वा दक्षिणे बाहौ बध्नीयाद्यः सुधीः सदा ॥३५॥

Verse

विषाग्निजलशत्रुभ्यो भयं तस्य न जायते । जले स्थले चान्तरिक्षे निद्रायां रक्षतीश्वरः ॥३६॥

Verse

सङ्ग्रामे वज्रपाते च विपत्तौ प्राणसङ्कटे । कवचस्मरणादेव सद्यो निःशङ्कतां व्रजेत् ॥३७॥

Verse

बद्ध्वेदं कवचं कण्ठे शङ्करस्त्रिपुरं पुरा । जघान लीलामात्रेण दुरन्तमसुरेश्वरम् ॥३८॥

Verse

बद्ध्वेदं कवचं काली रक्तबीजं चखाद सा । सहस्रशीर्षा धृत्वेदं विश्वं धत्ते तिलं यथा ॥३९॥

Verse

आवां सनत्कुमारश्च धर्मसाक्षी च कर्मणाम् । कवचस्य प्रभावेण सर्वत्र जयिनो वयम् ॥४०॥

Verse

तस्य नन्दशिशोः कण्ठे चकार कवचं द्विजः । आत्मनः कवचं कण्ठे दधार च स्वयं हरिः ॥४१॥

Verse

प्रभावः कथितः सर्वः कवचस्य हरेस्तथा । अनन्तस्याच्युतस्यैव प्रभावमतुलं मुने ॥४२॥

Verse

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे योगनिद्रोक्तकवचन्यासो नाम द्वादशोऽध्यायः ॥१२॥

Verse

ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय १२/१७-४२॥

gargasaṃhitāntargataṃ
yoginīnāyikākavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms