Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

gargasaṃhitāntargataṃ

गर्गसंहितान्तर्गतं

Verse

मान्धातोवाच - यमुनायाः कृष्णराज्ञ्याः कवचं सर्वतोऽमलम् । देहि मह्यं महाभाग धारयिष्याम्यहं सदा ॥१॥

Verse

सौभरिरुवाच - यमुनायाश्च कवचं सर्वरक्षाकरं नृणाम् । चतुष्पदार्थदं साक्षाच्छृणु राजन्महामते ॥२॥

Verse

कृष्णां चतुर्भुजां श्यामां पुण्डरीकदलेक्षणाम् । रथस्थां सुन्दरीं ध्यात्वा धारयेत्कवचं ततः ॥३॥

Verse

स्नातः पूर्वमुखो मौनी कृतसन्ध्यः कुशासने । कुशैर्बद्धशिखो विप्रः पठेद्वै स्वस्तिकासनः ॥४॥

Verse

यमुना मे शिरः पातु कृष्णा नेत्रद्वयं सदा । श्यामा भ्रूभङ्गदेशं च नासिकां नाकवासिनी ॥५॥

Verse

कपोलौ पातु मे साक्षात्परमानन्दरूपिणी । कृष्णवामांससम्भूता पातु कर्णद्वयं मम ॥६॥

Verse

अधरौ पातु कालिन्दी चिबुकं सूर्यकन्यका । यमस्वसा कन्धरां च हृदयं मे महानदी ॥७॥

Verse

कृष्णप्रिया पातु पृष्ठं तटिनि मे भुजद्वयम् । श्रोणीतटं च सुश्रोणी कटिं मे चारुदर्शना ॥८॥

Verse

ऊरुद्वयं तु रम्भोरुर्जानुनी त्वङ्घ्रिभेदिनी । गुल्फौ रासेश्वरी पातु पादौ पापप्रहारिणी ॥९॥

Verse

अन्तर्बहिरधश्चोर्ध्वं दिशासु विदिशासु च । समन्तात्पातु जगतः परिपूर्णतमप्रिया ॥१०॥

Verse

इदं श्रीयमुनायाश्च कवचं परमाद्भुतम् । दशवारं पठेद्भक्त्या निर्धनो धनवान्भवेत् ॥११॥

Verse

त्रिभिर्मासैः पठेद्धीमान् ब्रह्मचारी मिताशनः । सर्वराज्याधिपत्यञ्च प्राप्यते नात्र संशयः ॥१२॥

Verse

दशोत्तरशतं नित्यं त्रिमासावधि भक्तितः । यः पठेत्प्रयतो भूत्वा तस्य किं किं न जायते ॥१३॥

Verse

यः पठेत्प्रातरुत्थाय सर्वतीर्थफलं लभेत् । अन्ते व्रजेत्परं धाम गोलोकं योगिदुर्लभम् ॥१४॥

Verse

इति गर्गसंहितायां माधुर्यखण्डे षोडशाध्यायान्तर्गतं यमुना कवचं सम्पूर्णम् ॥

mohinīkavacam
yoganidroktakavacanyāsaḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms