Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

bharatakavacam

भरतकवचम्

Verse

अगस्तिरुवाच- अतः परं भरतस्य कवचं ते वदाम्यहम् । सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदम् ॥१॥

Verse

कैकेयीतनयं सदा रघुवरन्यस्तेक्षणं श्यामलं सप्तद्वीपपतेर्विदेहतनयाकान्तस्य वाक्ये रतम् । श्रीसीताधवसव्यपार्श्वनिकटे स्थित्वा वरं चामरं धृत्वा दक्षिणसत्करेण भरतं तं वीजयन्तं भजे ॥२॥

Verse

ॐ अस्य श्रीभरतकवचमन्त्रस्य अगस्त्य ऋषिः । श्रीभरतो देवता । अनुष्टुप् छन्दः । शङ्ख इति बीजम् । कैकेयीनन्दन इति शक्तिः । भरतखण्डेश्वर इति कीलकम् । रामानुज इत्यस्त्रम् । सप्तद्वीपेश्वरदास इति कवचम् । रामांशज इति मन्त्रः । श्रीभरतप्रीत्यर्थं सकलमनोरथसिद्ध्यर्थं जपे विनियोगः ॥

Verse

अथ अङ्गुळीन्यासः - ॐ भरताय अङ्गुष्ठाभ्यां नमः । ॐ शङ्खाय तर्जनीभ्यां नमः । ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः । ॐ भरतखण्डेश्वराय अनामिकाभ्यां नमः । ॐ रामानुजाय कनिष्ठिकाभ्यां नमः । ॐ सप्तद्वीपेश्वरदासाय करतलकरपृष्ठाभ्यां नमः ॥

Verse

हृदयादिन्यासः - ॐ भरताय हृदयाय नमः । ॐ शङ्खाय शिरसे स्वाहा । ॐ कैकेयीनन्दनाय शिखायै वषट् । ॐ भरतखण्डेश्वराय कवचाय हुम् । ॐ रामानुजाय नेत्रत्रयाय वौषट् । ॐ सप्तद्वीपेश्वरदासाय अस्त्राय फट् । ॐ रामांशजेति दिग्बन्धः ॥

Verse

अथ ध्यानम् - रामचन्द्रसव्यपार्श्वे स्थितं केकयजासुतम् । रामाय चामरेणैव वीजयन्तं मनोरमम् ॥१॥

Verse

रत्नकुण्डलकेयूरकङ्कणादिसुभूषितम् । पीताम्बरपरिधानं वनमालाविराजितम् ॥२॥

Verse

माण्डवीधौतचरणं रशनानूपुरान्वितम् । नीलोत्पलदलश्यामं द्विजराजसमाननम् ॥३॥

Verse

आजानुबाहुं भरतखण्डस्य प्रतिपालकम् । रामानुजं स्मितास्यं च शत्रुघ्नपरिवन्दितम् ॥४॥

Verse

रामन्यस्तेक्षणं सौम्यं विद्युत्पुञ्जसमप्रभम् । रामभक्तं महावीरं वन्दे तं भरतं शुभम् ॥५॥

Verse

एवं ध्यात्वा तु भरतं रामपादेक्षणं हृदि । कवचं पठनीयं हि भरतस्येदमुत्तमम् ॥६॥

Verse

अथ कवचप्रारम्भः । ॐ पूर्वतो भरतः पातु दक्षिणे कैकयीसुतः । नृपात्मजः प्रतीच्यां हि पातूदीच्यां रघूत्तमः ॥१॥

Verse

अधः पातु श्यामलाङ्गः चोर्ध्वं दशरथात्मजः । मध्ये भारतवर्षेशः सर्वतः सूर्यवंशजः ॥२॥

Verse

शिरो दक्षपिता पातु भालं पातु हरिप्रियः । भ्रुवोर्मध्यं जनकजावाक्यैकतत्परोऽवतु ॥३॥

Verse

पातु जनक-जामाता मम नेत्रे सदाऽत्र हि । कपोले माण्डवीकान्तः कर्णमूले स्मिताननः ॥४॥

Verse

नासाग्रं मे सदा पातु कैकेयीतोषवर्धनः । उदाराङ्गो मुखं पातु वाणीं पातु जटाधरः ॥५॥

Verse

पातु पुष्करतातो मे जिह्वां दन्तान् प्रभामयः । चिबुकं वल्कलधरः कण्ठं पातु वराननः ॥६॥

Verse

स्कन्धौ पातु जितारातिर्भुजौ शत्रुघ्नवन्दितः । करौ कवचधारी च नखान् खड्गधरोऽवतु ॥७॥

Verse

कुक्षिं रामानुजः पातु वक्षः श्रीरामवल्लभः । पार्श्वे राघवपार्श्वस्थः पातु पृष्ठं सुभाषणः ॥८॥

Verse

जठरं च धनुर्धारी नाभिं शरकरोऽवतु । कटिं पद्मेक्षणः पातु गुह्यं रामैकमानसः ॥९॥

Verse

राममित्रः पातु लिङ्गमूरू श्रीरामसेवकः । नन्दिग्रामस्थितः पातु जानुनी मम सर्वदा ॥१०॥

Verse

श्रीरामपादुकाधारी पातु जङ्घे सदा मम । गुल्फौ श्रीरामबन्धुश्च पादौ पातु सुरार्चितः ॥११॥

Verse

रामाज्ञापालकः पातु ममाङ्गान्यत्र सर्वदा । मम पादाङ्गुळीः पातु रघुवंशसुभूषणः ॥१२॥

Verse

रोमाणि पातु मे रम्यः पातु रात्रौ सुधीर्मम । (सुधीश्च माम्) तूणीरधारी दिवसे दिक् पातु मम सर्वदा ॥१३॥

Verse

सर्वकालेषु मां पातु पाञ्चजन्यः सदा भुवि । एवं श्रीभरतस्येदं सुतीक्ष्ण कवचं शुभम् ॥१४॥

Verse

मया प्रोक्तं तवाग्रे हि महामङ्गलकारकम् । स्तोत्राणामुत्तमं स्तोत्रमिदं ज्ञेयं सुपुण्यदम् ॥१५॥

Verse

पठनीयं सदा भक्त्या रामचन्द्रस्य हर्षदम् । पठित्वा भरतस्येदं कवचं रघुनन्दनः ॥१६॥

Verse

यथा याति परं तोषं तथा स्वकवचेन न । तस्मादेतत् सदा जप्यं कवचानामनुत्तमम् ॥१७॥

Verse

अस्यात्र पठनान्मर्त्यः सर्वान् कामानवाप्नुयात् । विद्याकामो लभेद्विद्यां पुत्रकामो लभेत् सुतम् ॥१८॥

Verse

पत्नीकामो लभेत् पत्नीं धनार्थी धनमाप्नुयात् । यद्यन्मनोऽभिलषितं तत्तत्कवचपाठतः ॥१९॥

Verse

लभ्यते मानवैरत्र सत्यं सत्यं वदाम्यहम् । तस्मात् सदा जपनीयं रामोपासकमानवैः ॥२०॥

Verse

इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे पञ्चदशसर्गान्तर्गतं श्रीभरतकवचं सम्पूर्णम् ॥

Verse

हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न षट् कवचानि पठनीयम् । षट् कवचानि पठितुं अशक्तश्चेत् हनुमत्-लक्ष्मण-सीता-राम – अथवा हनुमत्-सीता-राम अथवा हनुमत्-राम / सीता-राम कवचानि । अथवा श्रीरामकवचमेव पठनीयम् ॥

śrībhadrakālīkavacam
śrībhavānīkavacam

Read next

More on भरतकवचम्

  • भरतकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms