kavaca
bharatakavacam
भरतकवचम्
Verse
॥ अथ श्रीमदानन्दरामायणांतर्गत श्री भरत कवचं ॥
Verse
अगस्तिरुवाच- अथः परं भरतस्य कवचं ते वदाम्यहं । सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदं ॥१॥
Verse
कैकेयी तनयं सदा रघुवर न्यस्केक्षणं श्यामलं सप्त द्वीपपतेर् विदेह तनया कान्तस्य वाक्ये रतं । श्रीसीताधव सव्यपार्श्व निकटे स्तित्वा वरं चामरं धृत्वा दक्षिण सत्करेण भरतं तं वीजयन्तं भजे ॥२॥
Verse
अस्य श्री भरतकवच मन्त्रस्य अगस्त्य ऋषिः । श्री भरतो देवता । अनुष्टुप् छन्दः । शङ्ख इति बीजं । कैकेयी नन्दनः इति शक्तिः । भरतखण्डेश्वर इति कीलकं । रामानुज इत्यस्त्रं । सप्तद्वीपेश्वर दास इति कवचं । रामांशज इति मन्त्रः । श्रीभरत प्रीत्यर्थं सकलमनोरथ सिद्ध्यर्थं जपे विनियोगः ॥
Verse
अथ अङ्गुळी न्यासः ॥
Verse
ॐ भरताय अङ्गुष्ठाभ्यां नमः । ॐ शङ्खाय तर्जनीभ्यां नमः । ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः । ॐ भरतखण्डेश्वराय अनामिकाभ्यां नमः । ॐ रामानुज कनिष्ठिकाभ्यां नमः । ॐ सप्त द्वीपेश्वर दासाय करतल करपृष्ठाभ्यां नमः ॥
Verse
हृदयादिन्यासः ॥
Verse
ॐ भरताय हृदयाय नमः । ॐ शङ्खाय शिरसे स्वाहा । ॐ कैकेयीनन्दनाय शिकायै वषट् । ॐ भरतखण्डेश्वराय कवचाय हुं । ॐ रामानुजाय नेत्रत्रयाय वौषट् । ॐ सप्त द्वीपेश्वर दासाय अस्त्राय फट् । ॐ रामांशजेति दिग्बन्धः ॥
Verse
अथ ध्यानम् ॥
Verse
रामचन्द्र सव्यपार्श्वे स्थितं केकयजा सुतं । रामाय चामरेणैव वीजयन्तं मनोरमं ॥१॥
Verse
रत्नकुण्डल केयूर कङ्कणादि सुभूषितं । पीताम्बर परिधानं वनमाला विराजितं ॥२॥
Verse
माण्डवी धौत चरणं रशना नूपुरान्वितं । नीलोत्पल दलश्यामं द्विजराज समाननं ॥३॥
Verse
आजानुबाहुं भरत खण्डस्य प्रतिपालकं । रामानुजं स्मितास्यंच शत्रुघ्न परिवन्दितं ॥४॥
Verse
रामन्यस्तेक्षणं सौम्यं विद्युत् पुञ्च समप्रभं । रामभक्तं महावीरं वन्दे तं भरतं शुभं ॥५॥
Verse
एवं ध्यात्वा तु भरतं रामपादेक्षणं हृदि । कवचं पठनीयं हि भरतस्येद मुत्तमं ॥६॥
Verse
कवच प्रारंभः ॥
Verse
ॐ । पूर्वतो भरतः पातु दक्षिणे कैकयीसुतः । नृपात्मजः प्रतीच्यां हि पातूदीश्यां रघूत्तमः ॥१॥
Verse
अथः पातु श्यामलाङ्गः चोर्ध्वं दशरथात्मजः । मध्ये भारतवर्षेशः सर्वतः सूर्यवंशजः ॥२॥
Verse
शिरस् दक्षपिता पातु भालं पातु हरिप्रियः । भृवोर् मध्यम जनकजा वाक्यैक तत्परोवतु ॥३॥
Verse
पातु जनक जामाता मम नेत्रे सदात्र हि । कपोले माण्डवीकान्तः कर्णमूले स्मिताननः ॥४॥
Verse
नासाग्रं मे सदा पातु कैकेयी तोषवर्धनः । उदाराङ्गो मुखे पातु वाणीं पातु जटाधरः ॥५॥
Verse
पातु पुष्करतातो मे जिह्वां दन्ताण् प्रभामयः । चिबुकं वल्कलधरः कण्ठे पातु वराननः ॥६॥
Verse
स्कन्धौ पातु जिताराति भुजौ शत्रुघ्न वन्दितः । करौ कवचधारीच नखान् खड्गधरोवतु ॥७॥
Verse
कुक्षौ रामानुजः पातु वक्षः श्री रामवल्लभः । पार्श्वे राघव पार्श्वस्थः पातु पृष्ठं सुभाषणः ॥८॥
Verse
जठरं च धनुर्धारी नाभिं शरकरोवतु । कटिं पद्मेक्षणः पातु गुह्यं रामैकमानसः ॥९॥
Verse
राममित्रः पातु लिङ्गमूरू श्रीरामसेवकः । नन्दिग्राम स्थितः पातु जानुनी मम सर्वदा ॥१०॥
Verse
श्री रामपातुकाधारी पातु जङ्घे सदा मम । गुल्फौ श्रीराम बन्धुश्च पादौ पातु सुरार्चितः ॥११॥
Verse
रामाज्ञापालकः पातु ममाङ्गान्यत्र सर्वदा । मम पादाङ्गुळीः पातु रघुवंश सुभूषणः ॥१२॥
Verse
रोमाणि पातु मे रम्यः पातु रात्रौ सुधीर् मम । तूणीरधारी दिवसे दिक् पातु मम सर्वदा ॥१३॥
Verse
सर्वकालेषु मां पातु पाञ्चजन्यः सदा भुवि । एवं श्रीभरस्येदं सुतीक्ष्ण कवचं शुभं ॥१४॥
Verse
मया प्रोक्तं तवाग्रे हि महामङ्गल कारकं । स्तोत्राणा मुत्तमं स्तोत्रमिदं ज्ञेयं सुपुण्यदं ॥१५॥
Verse
पठनीयं सदा भक्त्या रामचन्द्रस्य हर्षदं । पठित्वा भरतस्येदं कवचं रघुनन्दनः ॥१६॥
Verse
यथा याति परं तोषं तथा स्वकवचेनन । तस्मादेतत् सदा जप्यं कवचाना मनुत्तमं ॥१७॥
Verse
अस्यात्र पठनान् मर्त्यः सर्वान् कामानवाप्नुयात् । विद्याकामो लभेत्विद्यां पुत्रकामो लभेत् सुतं ॥१८॥
Verse
पत्नीकामो लभेत् पत्नीं धनार्थी धन माप्नुयात् । यद्यन् मनोभि लषितं तत्तत् कवचपाठतः ॥१९॥
Verse
लभ्यते मानवैरत्र सत्यं सत्यं वदाम्यहं । तस्मात् सदा जपनीयं रामोपासक मानवैः ॥२०॥
Verse
इति श्री शतकोटिरामचरितांतर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे श्री भरतकवचं संपूर्णं ॥
