Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

trailokyamohana śrīrāmakavacam

त्रैलोक्यमोहन श्रीरामकवचम्

Verse

विनियोगः - ॐ अस्य त्रैलोक्यमोहनश्रीरामकवचस्य ब्रह्मा ऋषिरनुष्टुप् छन्दः । श्रीरामचन्द्रो देवता । अनन्तोऽग्न्यासनः । सेन्दुरितिबीजम् । ॐ श्रीराम एव परं ब्रह्म इति शक्तिः । ॐ मधुरप्रसन्नवदनायेति हृदयम् । ॐ क्लीं रामभद्रायेति कीलकम् । ॐ हूँ जानकीवल्लभायेत्यस्रम् । ॐ अमिततेजसे बलायेति कवचम् । ॐ श्रीं रां रामायेति परमो मन्त्रः । मम सकलविधिश्रीसीतारामपदारविन्दानुरागार्थे (जपे) पाठे विनियोगः ॥

Verse

ऋष्यादिन्यासः - ॐ ब्रह्मा ऋषये नमः शिरसि । ॐ अनुष्टुप् छन्दसे नमो मुखे । ॐ श्रीरामचन्द्रो देवतायै नमो हृदये । ॐ अनन्तोऽग्न्यासनः सेन्दुरिति बीजाय नमो नाभ्याम् । ॐ मधुरप्रसन्नवदनायेति हृदयाय नम उदरे । ॐ क्लीं रामभद्रायेति कीलकाय नमः कट्याम् । ॐ हूँ जानकीवल्लभायेत्यस्राय नमो गुहये । ॐ अमिततेजसे बलायेति कवचाय नमो जङ्घयोः । ॐ श्रीं रां रामायेति परममन्त्राय नमः पुनः शिरसि । श्रीसीतारामपदारविन्दानुरागार्थे पाठे विनियोगाय (जपे) सर्वाङ्गे ॥

Verse

करन्यासः - ॐ रां अङ्गुष्ठाभ्यां नमः । ॐ रां तर्जनीभ्यां नमः । ॐ मां मध्यामाम्यां नमः । ॐ यं यमनामिकाभ्यां नमः । ॐ नं कनिष्ठिकाभ्यां नमः । ॐ मः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः - ॐ रां हृदयाय नमः । ॐ रां शिरसे स्वाहा । ॐ मां शिखायै वषट् । ॐ यं कवचाय हूं। ॐ नं नेत्राभ्यां वौषट् । ॐ मः अस्त्राय फट् । ॐ हीं क्लीं श्रीं रां क्षौं क्रौं एँ हुँ फट् स्वाहा इति दिग्बन्धनं कुर्यात् ॥

Verse

ध्यानम् - वैदेही सहितं सुरदुमतले है मे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रैः परं व्याख्यातं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥

Verse

पार्वत्युवाच । भगवन् सर्वदेवेश सर्व देवनमस्कृत । सर्वं मे कथितं देव राममन्त्रो विशेषतः ॥१॥

Verse

त्रैलोक्यमोहनं नाम कवचं पूर्वसूचितम् । कथयस्व महादेव यद्यहं तव वल्लभा ॥२॥

Verse

ईश्वर उवाच । श‍ृणु वक्ष्यामि देवेशि कवचं परमाद्भुतम् । अत्यन्तं गोपनं गुह्यं ब्रह्ममन्त्रौघविग्रहम् ॥३॥

Verse

ॐ प्रणवो मे शिरः पातु तारको ब्रह्मरूपकः । अनन्तोऽग्न्यासनः सेन्दुर्नासामेकाक्षरोऽवतु ॥१॥

Verse

ॐ रां रामाय नमः पातु भाड्वर्णो भुक्तिमुक्तिदः । भालं पायान्नेत्रयुग्मं रामो द्वयक्षरसंज्ञकः ॥२॥

Verse

ॐ क्लीं पायाच्छ्रोत्रयुग्मं ह्यकाक्षरविमोहनः । ॐ ह्रीं श्रीं क्लीं नमो रामाय मुखं मे परिरक्षतु ॥३॥

Verse

ॐ नमः श्री राघवेन्द्राय कण्ठं पातु मनुस्त्वयम् । ॐ क्लीं श्रीं रां रामाय नमः स्कन्धौ पातु खरान्तकः ॥४॥

Verse

ॐ नमो रां रामचन्द्राय मन्त्रः पातु भुजद्वयम् । ॐ श्रीमद्रामभद्राय करौ पातु मनुस्वराट् ॥५॥

Verse

ॐ श्रीरामचन्द्राय रक्षोघ्नाय नमो मन्त्रोऽयं द्वादशाक्षरः । हृदयं मे सदा पातु रघुवंशसमुद्भवः ॥६॥

Verse

ॐ क्लीं रामभद्राय नमः पातु नाभिं दुष्टान्तकः प्रभुः । ॐ नमः श्रीरामचन्द्राय कटिमष्टाक्षरोऽवतु ॥७॥

Verse

सक्थिनी सततं पातु राक्षसेन्द्र विमर्द कः । ॐ ह्रीं रामचन्द्राय नमः पातु मे ऊरूयुग्मकम् ॥८॥

Verse

ॐ प्रणवो रामचन्द्राय नमो वस्वक्षरः स्वराट् । जानुनी मे सदा पातु रक्षःकुलविनाशकः ॥९॥

Verse

ॐ प्रणवो रामभद्राय नमोऽष्टाक्षरस्वयम् । पादयुग्मं सदा पातु वानरेन्द्रश्रियः प्रदः ॥१०॥

Verse

ॐ नमो रामभद्राय सर्वाङ्ग पातु सर्वतः । ॐ ह्रीं सीतापतये नमः प्राच्यां मां सर्वदावतु ॥११॥

Verse

ॐ हीं जानकीवल्लभाय दक्षिणे पातु सर्वदा । ॐ क्लीं जानकीशाय नमो वारुण्यां मां सदावतु ॥१२॥

Verse

ॐ श्रीं रघुनाथाय नमः कौबेर्या दिशि रक्षतु । ॐ ह्रीं जानकीवल्लभाय आग्नेयां मां सदावतु ॥१३॥

Verse

ॐ ह्रीं क्लीं भरताग्रजाय पातु मां नैऋत्यां दिशि । ॐ श्रीं जानकीवल्लभाय वायव्यां मां सदावतु ॥१४॥

Verse

ॐ श्रीं ह्रीं क्लीं दाशरथाय चेशान्यां रक्ष मां सदा । ॐ नमो भगवते रघुनन्दनाय रक्षोघ्नविषदाय मधुरप्रसन्नवदनाय अमिततेजसे बलाय रामाय विष्णवे नमः ॥१५॥

Verse

प्रणवादिनमोऽन्तोऽयं मालामन्त्र उदीरितः । राज्यस्थाने सदा पातु रघुवंशसमुद्भवः ॥१६॥

Verse

ॐ नमो भगवते श्रीरामाय महापुरुषाय नमः । अष्टादशाक्षरो मन्त्रो मामेव सर्वदावतु ॥१७॥

Verse

ध्यायेद्धृत्पुण्डरीकाक्षं परञ्ज्योतिः परात्परम् । राममेव परं ब्रह्म सच्चिदानन्दलक्षणम् ॥१८॥

Verse

इति ध्यात्वा जपेन्मन्त्रं भुक्तिमुक्तिप्रदायकम् । ॐ दाशरथाय विद्महे सीताप्रियाय धीमहि । तन्नो रामः प्रचोदयात् ॥१९॥

Verse

इत्येवं रामगायत्री भक्तिवीर्यप्रवर्धिनी । गायत्री जपमात्रेण भुक्तिमुक्तिप्रदायनी ॥२०॥

Verse

इति ते कथितं देवि ! सर्वमन्त्रौघविग्रहम् । त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥२१॥

Verse

प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् । सायम्मध्याह्नकालेऽपि जपात्सिद्धिमनूत्तमाम् ॥२२॥

Verse

पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः । कीर्तिः श्रीः कान्तिमेधायुर्जपतो भवति ध्रुवम् ॥२३॥

Verse

राममन्त्रमयं ब्रह्मकवचं मन्मुखोदितम् । गुरुमभ्यर्च्य विधिवत्कवचं यः पठेत्ततः ॥२४॥

Verse

द्विः सकृद्वा जपेद्यस्तु सोपि पुण्यवतां वरः । देवमभ्यर्च्य विधिवत्पुरश्चर्या समारभेत् ॥२५॥

Verse

अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम् । ततस्तु सिद्धकवचं सर्वकार्याणि साधयेत् ॥२६॥

Verse

मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः । गद्यपद्यमयी वाणीं तस्य वक्त्रात्प्रवर्तते ॥२७॥

Verse

वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे । पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत्सकृत् ॥२८॥

Verse

अपि वर्षसहस्राणां पूजाफलमवाप्नुयात् । विलिख्य भूर्जपत्रे च स्वर्णस्थं धारयेद्यदि ॥२९॥

Verse

कण्ठे वा दक्षिणे वाहौ स कुर्याद्दासवज्जगत् । त्रैलोक्यं क्षोभयेद्दवि त्रैलोक्यविजयी भवेत् ॥३०॥

Verse

तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि यानि च । माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥३१॥

Verse

स्पर्धामुधूय भवने लक्ष्मी वाणी मुखे वसेत् । इदं कवचमज्ञात्वा यो जपेद्राममन्त्रकम् ॥३२॥

Verse

शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः । स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥३३॥

Verse

सम्यग् ज्ञात्वा तु कवचं मन्त्रः स्याच्छीघ्रसिद्धिदः । एकावृत्त्या लभेल्लक्ष्मीं द्विरावृत्त्या जगद्वशी ॥३४॥

Verse

त्रिरावृत्त्या पठेन्नित्यं सर्वार्थसिद्धिदं भवेत् । चतुर्वारं पठेन्नित्यं पुत्रपौत्रादिकं भवेत् ॥३५॥

Verse

पञ्चवारं पठेन्नित्यं दिव्यकायो भवेन्नरः । षड्वारं तु पठेन्नित्यं सर्वसिद्धीश्वरो भवेत् ॥३६॥

Verse

सप्तावृत्त्या सहोमेन वाचासिद्धिः प्रजायते । इति श्रीरुद्रयामलतन्त्रे ईश्वरपार्वतीसंवादे त्रैलोक्यमोहनं नाम श्रीरामकवचं सम्पूर्णम् ॥

śrīdakṣiṇakālikāyāḥ trailokyamohanakavacam
trailokyamohanaśrīsītākavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms