kavaca
garuḍakavacam
गरुडकवचम्
Verse
हरिः ॐ । अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारदभगवानृषिः वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः । ॐ शिरो मे गरुडः पातु ललाटे विनतासुतः । नेत्रे तु सर्पहा पातु कर्णौ पातु सुरार्चितः ॥१॥
Verse
नासिकां पातु सर्पारिः वदनं विष्णुवाहनः । सूर्यसूतानुजः कण्ठं भुजौ पातु महाबलः ॥२॥
Verse
(सूर्येतालू च कण्ठे च) हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः । नखान् नखायुधः पातु कक्षौ मुक्तिफलप्रदः ॥३॥
Verse
स्तनौ मे विहगः पातु हृदयं पातु सर्पहा । (हृदयं पातु सर्वदा) नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥४॥
Verse
(कटिं पातु सुधाहरः) ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा । पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥५॥
Verse
(ऊरू पातु महावीरः जानुनि चण्डविक्रमः । जङ्घे दुण्ढायुधः पातु गुल्फौ विष्णुरथः सदा ॥५॥) सुपर्णः पातु मे पादौ तार्क्ष्यः पादाङ्गुली तदा । रोमकूपानि मे वीरो त्वचं पातु भयापहा ॥६॥
Verse
इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् । यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति ॥७॥
Verse
(विषदोषं प्रणश्यति) त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः । द्वादशाहं पठेद्यस्तु मुच्यते शत्रुबन्धनात् ॥८॥
Verse
एकेवारं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः । वज्रपञ्जरनामेदं कवचं बन्धमोचनम् ॥९॥
Verse
॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥
Verse
कालसर्पदोष, नागदोष, शत्रुबाधा निवारणार्थं गरुडकवचस्तोत्रम् ॥
