aSTottaranAma
śrīsītāṣṭottaraśatanāmastotram
श्रीसीताष्टोत्तरशतनामस्तोत्रम्
Verse
अथ श्रीमदानन्दरामायणान्तर्गत श्री सीताष्टोत्तरशतनाम स्तोत्रम् ॥
Verse
अगस्तिरुवाच- एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् । अतः परं शृणुष्वान्यत्सीतायाः स्तोत्रमुत्तमम् ॥१॥
Verse
यस्मिन्नष्टोत्तरशतं सीतानामानि सन्ति हि । अष्टोत्तरशतं सीतानाम्नां स्तोत्रमनुत्तमम् ॥२॥
Verse
यस्मिन्नष्टोत्तरशतं सीतानामानि सन्ति हि । अष्टोत्तरशतं सीतानाम्नां स्त्रमनुत्तमम् ॥३॥
Verse
ये पठन्ति नरास्त्वत्र तेषां च सफलो भवः । ते धन्या मानवा लोके ते वैकुण्ठं व्रजन्ति हि ॥४॥
Verse
न्यासः ।
Verse
अस्य श्रीसीतानामाष्टोत्तरशतमन्त्रस्य अगस्त्य ऋषिः ।
Verse
अनुष्टुप् छन्दः ।
Verse
रमेति बीजम् ंआतुलिङ्गीति शक्तिः ।
Verse
पद्माक्षजेति कीलकम् ।
Verse
अवनिजेत्यस्त्रम् ।
Verse
जनकजेति कवचम् ।
Verse
मूलकासुरमर्दिनीति परमो मन्त्रः । श्रीसीतारामचन्द्रप्रीत्यर्थं सकलकामनासिद्ध्यर्थं जपे विनियोगः ॥
Verse
करन्यासः - ॐ सीतायै अङ्गुष्ठाभ्यां नमः ।
Verse
ॐ रमायै तर्जनीभ्यां नमः ।
Verse
ॐ मातुलिङ्ग्यै मध्यमाभ्यां नमः ।
Verse
ॐ पद्माक्षजायै अनामिकाभ्यां नमः ।
Verse
ॐ अवनिजायै कनिष्ठिकाभ्यां नमः । ॐ जनकजायै करतलकरपृष्ठाभ्यां नमः ॥
Verse
अङ्गन्यासः - ॐ सीतायै हृदयाय नमः ।
Verse
ॐ रमायै शिरसे स्वाहा ।
Verse
ॐ मातुलिङ्ग्यै शिखायै वषट् ।
Verse
ॐ पद्माक्षजायै नेत्रत्रयाय वौषट् ।
Verse
ॐ जनकात्मजायै अस्त्राय फट् । ॐ मूलकासुरमर्दिन्यै इति दिग्बन्धः ॥
Verse
अथ ध्यानम् - वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना या विप्राधिपयानरम्यनयना या विप्रपालानना । विद्युत्पुञ्जविराजमानवसना भक्तार्तिसङ्खण्डना श्रीमद्राघवपादपद्मयुगळन्यस्तेक्षणा सावतु ॥
Verse
अथ स्तोत्रम् ।
Verse
श्रीसीता जानकीदेवी वैदेही राघवप्रिया । रमाऽवनिसुता रामा राक्षसान्तप्रकारिणी ॥१॥
Verse
रत्नगुप्ता मातुलिङ्गी मैथिली भक्ततोषदा । पद्माक्षजा कञ्जनेत्रा स्मितास्या नूपुरस्वना ॥२॥
Verse
वैकुण्ठनिलया मा श्रीः मुक्तिदा कामपूरणी । नृपात्मजा हेमवर्णा मृदुलाङ्गी सुभाषिणी ॥३॥
Verse
कुशाम्बिका दिव्यदा च लवमाता मनोहरा । हनूमद्वन्दितपदा मुग्धा केयूरधारिणी ॥४॥
Verse
अशोकवनमध्यस्था रावणादिकमोहिनी । विमानसंस्थिता सुभ्रूः सुकेशी रशनान्विता ॥५॥
Verse
रजोरूपा सत्त्वरूपा तामसी वह्निवसिनी । हेममृगासक्तचित्ता वाल्मीक्याश्रमवासिनी ॥६॥
Verse
पतिव्रता महामाया पीतकौशेयवासिनी । मृगनेत्रा च बिम्बोष्ठी धनुर्विद्याविशारदा ॥७॥
Verse
सौम्यरूपा दशरथस्नुषा चामरवीजिता । सुमेधादुहिता दिव्यरूपा त्रैलोक्यपालिनि ॥८॥
Verse
अन्नपूर्णा महालक्ष्मीः धीर्लज्जा च सरस्वती । शान्तिः पुष्टिः क्षमा गौरी प्रभाऽयोध्यानिवासिनी ॥९॥
Verse
वसन्तशीतला गौरी स्नानसन्तुष्टमानसा । रमानामभद्रसंस्था हेमकुम्भपयोधरा ॥१०॥
Verse
सुरार्चिता धृतिः कान्तिः स्मृतिर्मेधा विभावरी । लघूदरा वरारोहा हेमकङ्कणमण्डिता ॥११॥
Verse
द्विजपत्न्यर्पितनिजभूषा राघवतोषिणी । श्रीरामसेवनरता रत्नताटङ्कधारिणी ॥१२॥
Verse
रामवामाङ्गसंस्था च रामचन्द्रैकरञ्जनी । सरयूजलसङ्क्रीडाकारिणी राममोहिनी ॥१३॥
Verse
सुवर्णतुलिता पुण्या पुण्यकीर्तिः कलावती । कलकण्ठा कम्बुकण्ठा रम्भोरूर्गजगामिनी ॥१४॥
Verse
रामार्पितमना रामवन्दिता रामवल्लभा । श्रीरामपदचिह्नाङ्गा रामरामेति भाषिणी ॥१५॥
Verse
रामपर्यङ्कशयना रामाङ्घ्रिक्षालिणी वरा । कामधेन्वन्नसन्तुष्टा मातुलिङ्गकरे धृता ॥१६॥
Verse
दिव्यचन्दनसंस्था श्रीर्मूलकासुरमर्दिनी । एवमष्टोत्तरशतं सीतानाम्नां सुपुण्यदम् ॥१७॥
Verse
ये पठन्ति नरा भूम्यां ते धन्याः स्वर्गगामिनः । अष्टोत्तरशतं नाम्नां सीतायाः स्तोत्रमुत्तमम् ॥१८॥
Verse
जपनीयं प्रयत्नेन सर्वदा भक्तिपूर्वकम् । सन्ति स्तोत्राण्यनेकानि पुण्यदानि महान्ति च ॥१९॥
Verse
नानेन सदृशानीह तानि सर्वाणि भूसुर । स्तोत्राणामुत्तमं चेदं भुक्तिमुक्तिप्रदं नृणाम् ॥२०॥
Verse
एवं सुतीक्ष्ण ते प्रोक्तमष्टोत्तरशतं शुभम् । सीतानाम्नां पुण्यदं च श्रवणान्मङ्गळप्रदम् ॥२१॥
Verse
नरैः प्रातः समुत्थाय पठितव्यं प्रयत्नतः । सीतापूजनकालेऽपि सर्ववाञ्छितदायकम् ॥२२॥
Verse
इति श्रीशतकोटिरामचरिते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे चतुर्दशसर्गान्तर्गतं सीताष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
