Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīvāsavīkanyakāparameśvaryaṣṭottaraśatanāmastotram

श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रम्

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

Verse

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

Verse

न्यासः - अस्य श्रीवासवीकन्यकापरमेश्वरी अष्टोत्तरशतनामस्तोत्रमालामन्त्रस्य समाधि ऋषिः ।

Verse

श्रीकन्यकापरमेश्वरी देवता।

Verse

अनुष्टुप्छन्दः।

Verse

वं बीजम् ।

Verse

स्वाहा शक्तिः।

Verse

सौभाग्यमिति कीलकम्। मम सकलसिद्धिप्राप्तये जपे विनियोगः ॥

Verse

ध्यानम् - वन्दे कुसुमाम्बासत्पुत्रीं वन्दे कुसुमश्रेष्ठतनयाम् । वन्दे विरूपाक्षसहोदरीं वन्दे कन्यकापरमेश्वरीम् ॥

Verse

वन्दे भास्कराचार्यविद्यार्थिनीं वन्दे नगरेश्वरस्य प्रियाम् । वन्दे विष्णुवर्धनमर्दिनीं वन्दे पेनुकोण्डापुरवासिनीम् ॥

Verse

वन्दे आर्यवैश्यकुलदेवीं वासवीं भक्तानामभीष्टफलदायिनीम् । वन्दे अन्नपूर्णास्वरूपिणीं वासवीं भक्तानां मनालयनिवासिनीम् ॥

Verse

ॐ सौभाग्यजननी माता माङ्गल्या मानवर्धिनी । महाकीर्तिप्रसारिणी महाभाग्यप्रदायिनी ॥१॥

Verse

वासवाम्बा च कामाक्षी विष्णुवर्धनमर्दिनी । वैश्यवम्शोद्भवा चैव कन्यकाचित्स्वरूपिणी ॥२॥

Verse

कुलकीर्तिप्रवर्द्धिनी कुमारी कुलवर्धिनी । कन्यका काम्यदा करुणा कन्यकापरमेश्वरी ॥३॥

Verse

विचित्ररूपा बाला च विशेषफलदायिनी । सत्यकीर्तिः सत्यवती सर्वावयवशोभिनी ॥४॥

Verse

दृढचित्तमहामूर्तिः ज्ञानाग्निकुण्डनिवासिनी । त्रिवर्णनिलया चैव वैश्यवंशाब्धिचन्द्रिका ॥५॥

Verse

पेनुकोण्डापुरीवासा साम्राज्यसुखदायिनी । विश्वख्याता विमानस्था विरूपाक्षसहोदरी ॥६॥

Verse

वैवाहमण्डपस्था च महोत्सवविलासिनी । बालनगरसुप्रीता महाविभवशालिनी ॥०७॥

Verse

सौगन्धकुसुमप्रीता सदा सौगन्धलेपिनी । सत्यप्रमाणनिलया पद्मपाणी क्षमावती ॥८॥

Verse

ब्रह्मप्रतिष्ठा सुप्रीता व्यासोक्तविधिवर्धिनी । सर्वप्राणहितेरता कान्ता कमलगन्धिनी ॥०९॥

Verse

मल्लिकाकुसुमप्रीता कामितार्थप्रदायिनी । चित्ररूपा चित्रवेषा मुनिकारुण्यतोषिणी ॥१०॥

Verse

चित्रकीर्तिप्रसारिणी नमिता जनपोषिणी । विचित्रमहिमा माता नारायणी निरञ्जना ॥११॥

Verse

गीतकानन्दकारिणी पुष्पमालाविभूषिणी । स्वर्णप्रभा पुण्यकीर्ति?स्वार्तिकालाद?कारिणी ॥१२॥

Verse

स्वर्णकान्तिः कला कन्या सृष्टिस्थितिलयकारणा । कल्मषारण्यवह्नी च पावनी पुण्यचारिणी ॥१३॥

Verse

वाणिज्यविद्याधर्मज्ञा भवबन्धविनाशिनी । सदा सद्धर्मभूषणी बिन्दुनादकलात्मिका ॥१४॥

Verse

धर्मप्रदा धर्मचित्ता कला षोडशसम्युता । नायकी नगरस्था च कल्याणी लाभकारिणी ॥१५॥

Verse

?मृडाधारा? गुह्या चैव नानारत्नविभूषणा । कोमलाङ्गी च देविका सुगुणा शुभदायिनी ॥१६॥

Verse

सुमुखी जाह्नवी चैव देवदुर्गा दाक्षायणी । त्रैलोक्यजननी कन्या पञ्चभूतात्मिका परा ॥१७॥

Verse

सुभाषिणी सुवासिनी ब्रह्मविद्याप्रदायिनी । सर्वमन्त्रफलप्रदा वैश्यजनप्रपूजिता ॥१८॥

Verse

करवीरनिवासिनी हृदयग्रन्थिभेदिनी । सद्भक्तिशालिनी माता श्रीमत्कन्याशिरोमणी ॥१९॥

Verse

सर्वसम्मोहकारिणी ब्रह्मविष्णुशिवात्मिका । वेदशास्त्रप्रमाणा च विशालाक्षी शुभप्रदा ॥२०॥

Verse

सौन्दर्यपीठनिलया सर्वोपद्रवनाशिनी । सौमङ्गल्यादिदेवता श्रीमन्त्रपुरवासिनी ॥२१॥

Verse

वासवीकन्यका माता नगरेश्वरमानिता । वैश्यकुलनन्दिनी वासवी सर्वमङ्गला ॥२२॥

Verse

फलश्रुतिः - इदं स्तोत्रं वासव्याः नाम्नामष्टोत्तरं शतम् । यः पठेत्प्रयतो नित्यं भक्तिभावेन चेतसा ॥१॥

Verse

न शत्रुभयं तस्य सर्वत्र विजयी भवेत् । सर्वान् कामानवाप्नोति वासवाम्बा प्रसादतः ॥२॥

Verse

॥ इति श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Verse

समर्पणम् - यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् । तत्सर्वं क्षम्यतां देवी वासवाम्बा नमोऽस्तुते ॥१॥

Verse

विसर्गबिन्दुमात्राणि पदपादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरि ॥२॥

Verse

अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरि ॥३॥

vasudhārānāmadhāraṇīstotram
śrīvighneśvarāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms