Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīrādhāṣṭottaraśatanāmastotram

श्रीराधाष्टोत्तरशतनामस्तोत्रम्

Verse

अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् । यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥१॥

Verse

राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी । चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥२॥

Verse

वीणापाणिः स्मितमुखी रक्ताशोकलतालया । गोवर्धनचरी गोपी गोपीवेषमनोहरा ॥३॥

Verse

चन्द्रावली-सपत्नी च दर्पणस्था कलावती । कृपावती सुप्रतीका तरुणी हृदयङ्गमा ॥४॥

Verse

कृष्णप्रिया कृष्णसखी विपरीतरतिप्रिया । प्रवीणा सुरतप्रीता चन्द्रास्या चारुविग्रहा ॥५॥

Verse

केकराक्षा हरेः कान्ता महालक्ष्मीः सुकेशिनी । सङ्केतवटसंस्थाना कमनीया च कामिनी ॥६॥

Verse

वृषभानुसुता राधा किशोरी ललिता लता । विद्युद्वल्ली काञ्चनाभा कुमारी मुग्धवेशिनी ॥७॥

Verse

केशिनी केशवसखी नवनीतैकविक्रया । षोडशाब्दा कलापूर्णा जारिणी जारसङ्गिनी ॥८॥

Verse

हर्षिणी वर्षिणी वीरा धीरा धाराधरा धृतिः । यौवनस्था वनस्था च मधुरा मधुराकृतिः ॥९॥

Verse

वृषभानुपुरावासा मानलीलाविशारदा । दानलीला दानदात्री दण्डहस्ता भ्रुवोन्नता ॥१०॥

Verse

सुस्तनी मधुरास्या च बिम्बोष्ठी पञ्चमस्वरा । सङ्गीतकुशला सेव्या कृष्णवश्यत्वकारिणी ॥११॥

Verse

तारिणी हारिणी ह्रीला शीला लीला ललामिका । गोपाली दधिविक्रेत्री प्रौढा मुग्धा च मध्यका ॥१२॥

Verse

स्वाधीनपतिका चोक्ता खण्डिता याऽभिसारिका । रसिका रसिनी रस्या रसनास्त्रैकशेवधिः ॥१३॥

Verse

पालिका लालिका लज्जा लालसा ललनामणिः । बहुरूपा सुरूपा च सुप्रसन्ना महामतिः ॥१४॥

Verse

मरालगमना मत्ता मन्त्रिणी मन्त्रनायिका । मन्त्रराजैकसंसेव्या मन्त्रराजैकसिद्धिदा ॥१५॥

Verse

अष्टादशाक्षरफला अष्टाक्षरनिषेविता । इत्येतद्राधिकादेव्या नाम्नामष्टोत्तरशतम् ॥१६॥

Verse

कीर्तयेत्प्रातरुत्थाय कृष्णवश्यत्वसिद्धये । एकैकनामोच्चारेण वशी भवति केशवः ॥१७॥

Verse

वदने चैव कण्ठे च बाह्वोरुरसि चोदरे । पादयोश्च क्रमेणास्या न्यसेन्मन्त्रान्पृथक्पृथक् ॥१८॥

Verse

इत्यूर्ध्वाम्नाये राधाष्टोत्तरशतनामकथनं नाम प्रथमः पटलः ॥

śrīrāghavendrāṣṭottaraśatanāmastotram
śrīrādhikāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms