Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīrāghavendrāṣṭottaraśatanāmastotram

श्रीराघवेन्द्राष्टोत्तरशतनामस्तोत्रम्

Verse

सङ्कल्पद क्रमः - ॐ अस्य श्रीराघवेन्द्रगुरुमन्त्रराजात्मक अष्टोत्तरशतनामामृतस्तोत्रस्य श्रीकृष्णावधूतो ऋषिः, अनुष्टुप्छन्दः, श्रीराघवेन्द्रगुर्वन्तर्गतमनुनामक- भारतीरमणमुख्यप्राणान्तर्गत सीतापतिश्रीरामचन्द्रो देवता ।

Verse

श्रीं बीजं, नमः शक्तिः, राघवेन्द्राय इति कीलकम् ।

Verse

अथ करन्यासः १) ॐ श्रीं अङ्गुष्ठाभ्यां नमः, २) ॐ राघवेन्द्राय तर्जनीभ्यान्नमः ३) ॐ नमः मध्यमाभ्यां नमः, ४) ॐ श्रीं अनामिकाभ्यान्नमः, ५) ॐ राघवेन्द्राय कनिष्ठिकाभ्यां नमः, ६) ॐ नमः करतलकरपृष्ठाभ्यां नमः ।

Verse

अथ अङ्गन्यासः १) ॐ श्रीं हृदयायनमः, २) ॐ राघवेन्द्राय शिरसे स्वाहा, ३) ॐ नमः शिखाय्क् वषट्, ४) ॐ श्रीं कवचाय हुं, ५) ॐ राघवेन्द्राय नेत्राभ्यां वौषट्, ६) ॐ नमः अस्त्राय फट् ।

Verse

अथ ध्यानम् । भव्याकारो भावितेष्टार्थदाता वामे जानौ वामहस्तं दधानः! ज्ञानाभीतीज्ञानवान् दक्षहस्तीरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥

Verse

श्रीराघवेन्द्रगुर्वन्तर्गत मनुनामक भारतीरमण मुख्यप्राणान्तर्गत सीतापति श्रीरामचन्द्रप्रेरणया श्रीरामचन्द्रप्रीत्यर्थं गुरुमन्त्रराजात्मक अष्टोत्तरशतनामस्तोत्रपारायणं करिष्ये ।

Verse

ओमित्येकाक्षरं ब्रह्म यद्ग्रन्थे सम्प्रकाशितम् । तस्मै श्रीराघवेन्द्रार्य गुरवेऽस्तु नमो मम ॥१॥

Verse

नमस्ते श्रीरामचन्द्राङ्घ्रिपूजासम्पादिते शतम् । घनाभाङ्गाय वेदार्थप्रकाशोद्योगशालिने ॥२॥

Verse

द्रागभीष्टप्रदात्रे च यतिवर्याय ते नमः । नाना दुःखविनाशाय नमो मानधनप्रिय ॥३॥

Verse

श्रीप्रदात्रे नमस्तुभ्यं राजवर्यादिसेवित । घनसंसारसौख्याय वेपितप्रतिवादिने ॥४॥

Verse

द्राक्षामधुरभाषाय नमस्तुभ्यं यशःप्रद । नमतां सौख्यदात्रे च मानदाय नमो नमः ॥५॥

Verse

श्रीपतिप्रेष्ठभक्ताय नमस्ते राजपूजित । घनरोगविनाशाय वेङ्कटेशार्चिने नमः ॥६॥

Verse

द्रावितानेकभूताय यशोदातनयार्चक । नादरूपपरब्रह्मोपासिने मानिने नमः ॥७॥

Verse

श्रीनाथचरणाम्भोजबम्भारायितमानस । राष्ट्रागतजनस्तोम समीहितफलप्रद ॥८॥

Verse

घनरोगतृणध्वंसदवानलपदामृत । वेदशास्त्रसुधाम्भोधि मन्थनज्ञानमन्दर ॥९॥

Verse

द्राघिमाभावितीभूतभक्तसेवेष्टदायिने । नमस्ते याचकव्रातचातकामृततेजसे ॥१०॥

Verse

नरनारीकदम्बोग्रविपत्तिविनिवारिणे । महादयारसासारसागराय नमो नमः ॥११॥

Verse

श्रीमद्भिः सेव्यमानाय राष्ट्रक्षेमकराय च । घनाघनाङ्गलोलाय वेदव्याख्याविनेदिने ॥१२॥

Verse

द्राविताऽनेकपापाय यानाद्यैश्वर्यशालिने । नागारिवाहभक्ताय मानदात्रे नमो नमः ॥१३॥

Verse

श्रीरामार्च्यापूजकाय रामानासक्तचेतसे । घनापत्परिहाराय वेपितारातये नमः ॥१४॥

Verse

द्राक्षामधुकटाक्षाय यदुनाथपदार्चिने । नमज्जनाघनाशाय मान्यमान्याय ते नमः ॥१५॥

Verse

श्रीव्यासराजरूपेण कृष्णार्चार्चक ते नमः । राशीकृताऽघतूलाग्निनिभदर्शन ते नमः ॥१६॥

Verse

घातुकानां घातुकाय वेदविद्याविशारद । द्राघीयः करुणापाङ्गैर्नमस्ते भक्ततोषिणे ॥१७॥

Verse

यथाशक्त्यप्पणार्योक्तस्तोत्रपाठप्रमोदिने । नरनारीनृपेड्याय महादारिद्र्यनाशिने ॥१८॥

Verse

श्रीसुधीन्द्रकरम्भोजसञ्जातवरसूनवे । रावितानेकदुर्वादिद्वीपिने घनचेतसे ॥१९॥

Verse

वेश्मत्रय निवासाय द्राक् प्रसन्नाय ते नमः । यमिने नरसिंहाङ्घ्रिनिरताय ममताजुषे ॥२० ॥

Verse

श्रीप्रह्लादावताराय राजद्वाणीविलासिने । घटनाननुरूपस्याप्यर्थस्य घटकाय ते ॥२१॥

Verse

वेदवेदाङ्गवित्ताय द्रावयन्मायिवादिने । यानारोहणसन्तप्तमुद्रास्थापनकारिणे ॥२२॥

Verse

नमो नम्यपदाब्जाय मायाविमदहारिणे । श्रीतुङ्गातीरवासाय तुभ्यं राजनताय च ॥२३॥

Verse

घनसाररजोरक्तभद्रश्रीरससेविने । वेतालभयनाशाय द्रागनुग्रहकारिणे ॥२४॥

Verse

यक्ष्मकुष्ठादिहरणपादतीर्थाय ते नमः । नामसङ्कीर्तनादेव पुरःसन्निहिताय च ॥२५॥

Verse

महाजनशिरःस्थानसमालालितपादुक । श्रीसर्वतन्त्रस्वातन्त्र्यशालिने राजलक्ष्मणे ॥२६॥

Verse

घनविघ्नविनाशाय बद्धकङ्कण ते नमः । वेगेन भक्तकार्याणां साधकाय नमोऽस्तु ते ॥२७॥

Verse

द्रावयद्वादिजिह्वाय यशोव्याप्तदिशे नमः । नानाजातिजनस्तोमस्तूयमानपदाम्बुज ॥२८॥

Verse

नमो मार महावीर मार्गणामृग्यचेतसे । श्रीमध्वशास्त्रसट्टीकाव्याख्याकौशल्यशालिने ॥२९॥

Verse

राजच्छ्रीकाय धर्माभितप्ततापापहारिणे । वेलां वेलामुपागम्य भक्तानां कार्यसाधक ॥३०॥

Verse

द्राक्षापाकेन सकलग्रन्थव्याकृतिकारिणे । यथेष्टधनधान्यादिदात्रे नयविशारद ॥३१॥

Verse

मन्त्रालयमहाक्षेत्रवृन्दावननिवासिने । श्रीसत्यसन्धरूपेण श्रीसीताप्रतिमार्चक ॥३२॥

Verse

राजत्तुङ्गातटभ्राजन्महिषीक्षेत्रवासिने । धर्मद्युतिनवज्योतिद्योतिताम्बरधारिणे ॥३३॥

Verse

वेतण्डमत्तमायीन्द्र मृगेन्द्रद्रापितापहन् । यक्षरक्षोभयध्वंसिन् नमो नारायणप्रिय ॥३४॥

Verse

मायामोहितचित्तानां भक्तानां ज्ञानदायिने । नमः श्रीहनुमद्भीम मध्वात्मकहरिप्रिय ॥३५॥

Verse

राजपूजितपाटीरपादुकाय घनाकृते । वेशन्तीकृतसद्भक्तसंसाराम्बुधये नमः ॥३६॥

Verse

द्राविताखिलभक्तौघनानादुःखाय ते नमः । यमदूतभयत्रात्रे नानाभयविनाशिने ॥३७॥

Verse

मातृतः पितृतोप्युच्चैः भक्तकामदुघे नमः । इति श्रीराघवेन्द्रार्यगुरुराजमहात्मनः ॥३८॥

Verse

नाम्नामषाटोत्तरशतं सचतुष्टयमुत्तमम् । अष्टाक्षरमहामन्त्रवर्णानुक्रमवर्णितम् ॥३९॥

Verse

गुरुराजात्मभूकृष्णावधूत कविनोदितम् । गुरुराजेन कृपया सप्रसादं पुरस्कृतम् ॥४० ॥

Verse

पठतां जपतां सर्वकामदं गुर्वनुग्रहात् । नश्यन्ति ज्वरमोहाद्याः चतुर्दशदिनावधि ॥४१॥

Verse

इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे सप्तमपटले अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

śrīraṅganāthāṣṭottaraśatanāmastotram
śrīrādhāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms