Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīmahākālakakārādyaṣṭottaraśatanāmastotram

श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रम्

Verse

कैलासशिखरे रम्ये सुखासीनं जगद्गुरुम् । प्रणम्य परया भक्त्या पार्वती परिपृच्छति ॥१॥

Verse

श्रीपार्वत्युवाच - त्वत्तः श्रुतं पुरा देव भैरवस्य महात्मनः । नाम्नामष्टोत्तरशतं ककारादिमभीष्टदम् ॥२॥

Verse

गुह्याद्गुह्यतरं गुह्यं सर्वाभीष्टार्थसाधकम् । तन्मे वदस्व देवेश! यद्यहं तव वल्लभा ॥३॥

Verse

श्रीशिवोवाच - लक्षवारसहस्राणि वारिताऽसि पुनः पुनः । स्त्रीस्वभावान्महादेवि! पुनस्तत्त्वं तु पृच्छसि ॥४॥

Verse

रहस्यातिरहस्यं च गोप्याद्गोप्यं महत्तरम् । तत्ते वक्ष्यामि देवेशि! स्नेहात्तव शुचिस्मिते ॥५॥

Verse

कूर्चयुग्मं महाकाल प्रसीदेति पदद्वयम् । लज्जायुग्मं वह्निजाया राजराजेश्वरो महान् ॥६॥

Verse

मन्त्रः - ``ह्रूं ह्रूं महाकाल ! प्रसीद प्रसीद ह्रीं ह्रीं स्वाहा ।'' मन्त्रग्रहणमात्रेण भवेत्सत्यं महाकविः । गद्यपद्यमयी वाणी गङ्गा निर्झरणी यथा ॥

Verse

विनियोगः - ॐ अस्य श्रीराजराजेश्वर श्रीमहाकाल ककाराद्यष्टोत्तरशतनाममालामन्त्रस्य श्रीदक्षिणाकालिका ऋषिः, विराट् छन्दः, श्रीमहाकालः देवता, ह्रूं बीजं, ह्रीं शक्तिः, स्वाहा कीलकं, सर्वार्थसाधने पाठे विनियोगः ॥

Verse

ऋष्यादिन्यासः - श्रीदक्षिणाकालिका ऋषये नमः शिरसि ।

Verse

विराट् छन्दसे नमः मुखे ।

Verse

श्रीमहाकाल देवतायै नमः हृदि ।

Verse

ह्रूं बीजाय नमः गुह्ये ।

Verse

ह्रीं शक्तये नमः पादयोः ।

Verse

स्वाहा कीलकाय नमः नाभौ । विनियोगाय नमः सर्वाङ्गे ॥

Verse

करन्यासः एवं हृदयादिन्यासः - ॐ ह्रां अङ्गुष्ठाभ्यां नमः, हृदयाय नमः ।

Verse

ॐ ह्रीं तर्जनीभ्यां नमः, शिरसे स्वाहा ।

Verse

ॐ ह्रूं मध्यमाभ्यां नमः, शिखायै वषट् ।

Verse

ॐ ह्रैं अनामिकाभ्यां नमः, कवचाय हुम् ।

Verse

ॐ ह्रौं कनिष्ठिकाभ्यां नमः, नेत्रत्रयाय वौषट् । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः, अस्त्राय फट् ॥

Verse

ध्यानम् - कोटि कालानलाभासं चतुर्भुजं त्रिलोचनम् । श्मशानाष्टकमध्यस्थं मुण्डाष्टकविभूषितम् ॥

Verse

पञ्चप्रेतस्थितं देवं त्रिशूलं डमरुं तथा । खड्गं च खर्परं चैव वामदक्षिणयोगतः ॥

Verse

विश्चतं सुन्दरं देहं श्मशानभस्मभूषितम् । नानाशवैः क्रीडमानं कालिकाहृदयस्थितम् ॥

Verse

लालयन्तं रतासक्तं घोरचुम्बनतत्परम् । गृध्रगोमायुसंयुक्तं फेरवीगणसंयुतम् ॥

Verse

जटापटल शोभाढ्यं सर्वशून्यालयस्थितम् । सर्वशून्यमुण्डभूषं प्रसन्नवदनं शिवम् ॥

Verse

अथ स्तोत्रम् ।

Verse

ॐ कूं कूं कूं कूं शब्दरतः क्रूं क्रूं क्रूं क्रूं परायणः । कविकण्ठस्थितः कै ह्रीं ह्रूं कं कं कवि पूर्णदः ॥१॥

Verse

कपालकज्जलसमः कज्जलप्रियतोषणः । कपालमालाऽऽभरणः कपालकरभूषणः ॥२॥

Verse

कपालपात्रसन्तुष्टः कपालार्घ्यपरायणः । कदम्बपुष्पसम्पूज्यः कदम्बपुष्पहोमदः ॥३॥

Verse

कुलप्रियः कुलधरः कुलाधारः कुलेश्वरः । कौलव्रतधरः कर्म कामकेलिप्रियः क्रतुः ॥४॥

Verse

कलह ह्रींमन्त्रवर्णः कलह ह्रींस्वरूपिणः । कङ्कालभैरवो देवः कङ्कालभैरवेश्वरः ॥५॥

Verse

कादम्बरीपानरतः तथा कादम्बरीकलः । करालभैरवानन्दः करालभैरवेश्वरः ॥६॥

Verse

करालः कलनाधारः कपर्दीशवरप्रदः । करवीरप्रियप्राणः करवीरप्रपूजनः ॥७॥

Verse

कलाधारः कालकण्ठः कूटस्थः कोटराश्रयः । करुणः करुणावासः कौतुकीकालिकापतिः ॥८॥

Verse

कठिनः कोमलः कर्णः कृत्तिवासकलेवरः । कलानिधिः कीर्तिनाथः कामेन हृदयङ्गमः ॥९॥

Verse

कृष्णः काशीपतिः कौलः कुलचूडामणिः कुलः । कालाञ्जनसमाकारः कालाञ्जननिवासनः ॥१०॥

Verse

कौपीनधारी कैवर्तः कृतवीर्यः कपिध्वजः । कामरूपः कामगतिः कामयोगपरायणः ॥११॥

Verse

कामसम्मर्दनरतः कामगृहनिवासनः । कालिकारमणः कालिनायकः कालिकाप्रियः ॥१२॥

Verse

कालीशः कालिकाकान्तः कल्पद्रुमलतामतः । कुलटालापमध्यस्थः कुलटासङ्गतोषितः ॥१३॥

Verse

कुलटाचुम्बनोद्युक्तः कुलटाकुचमर्दनः । केरलाचारनिपुणः केरलेन्द्रगृहस्थितः ॥१४॥

Verse

कस्तूरीतिलकानन्दः कस्तूरीतिलकप्रियः । कस्तूरीहोमसन्तुष्टः कस्तूरीतर्पणोद्यतः ॥१५॥

Verse

कस्तूरीमार्जनोद्युक्तः कस्तूरीकुण्डमज्जनः । कामिनीपुष्पनिलयः कामिनीपुष्पभूषणः ॥१६॥

Verse

कामिनीकुण्डसंलग्नः कामिनीकुण्डमध्यगः । कामिनीमानसाराध्यः कामिनीमानतोषितः ॥१७॥

Verse

काममञ्जीररणितः कामदेवप्रियातुरः । कर्पूरामोदरुचिरः कर्पूरामोदधारणः ॥१८॥

Verse

कर्पूरमालाऽऽभरणः कूर्परार्णवमध्यगः । क्रकसः क्रकसाराध्यः कलापपुष्परूपकः ॥१९॥

Verse

कुशलः कुशलाकर्णी कुक्कुरासङ्गतोषितः । कुक्कुरालयमध्यस्थः काश्मीरकरवीरभृत् ॥२०॥

Verse

कूटस्थः क्रूरदृष्टिश्च केशवासक्तमानसः । कुम्भीनसविभूषाढ्यः कुम्भीनसवधोद्यतः ॥२१॥

Verse

फलश्रुतिः - नाम्नामष्टोत्तरशतं स्तुत्वा महाकालदेवम् । ककारादि जगद्वन्द्यं गोपनीयं प्रयत्नतः ॥१॥

Verse

य इदं पठते प्राप्तः त्रिसन्ध्यं वा पठेन्नरः । वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ॥२॥

Verse

लभते ह्यचलां लक्ष्मीं देवानामपि दुर्लभाम् । पूजाकाले जपान्ते च पठनीयं विशेषतः ॥३॥

Verse

यः पठेत्साधकाधीशः कालीरूपो हि वर्षतः । पठेद्वा पाठयेद्वापि शृणोति श्रावयेदपि ॥४॥

Verse

वाचकं तोषयेद्वापि स भवेद् भैरवी तनुः । पश्चिमाभिमुखं लिङ्गं वृषशून्यं शिवालयम् ॥५॥

Verse

तत्र स्थित्वा पठेन्नाम्नां सर्वकामाप्तये शिवे । भौमवारे निशीथे च अष्टम्यां वा निशामुखे ॥६॥

Verse

माषभक्तबलिं छागं कृसरान्नं च पायसम् । मद्यं मीनं शोणितं च दुग्धं मुद्रागुडार्द्रकम् ॥७॥

Verse

बलिं दत्वा पठेत्तत्र कुबेरादधिको भवेत् । पुरश्चरणमेतस्य सहस्रावृत्तिरुच्यते ॥८॥

Verse

महाकालसमो भूत्वा यः पठेन्निशि निर्भयः । सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा ॥९॥

Verse

मुक्तकेशो दिशावासः ताम्बूलपूरिताननः । कुजवारे मध्यरात्रौ होमं कृत्वा श्मशानके ॥१०॥

Verse

पृथ्वीशाकर्षणं कृत्वा मात्र कार्या विचारणा । ब्रह्माण्डगोले देवेशि! या काचिज्जगतीतले ॥११॥

Verse

समस्ता सिद्धयो देवि! वाचकस्य करे स्थिता । भस्माभिमन्त्रितं कृत्वाग्रहस्ते च विलेपयेत् ॥१२॥

Verse

भस्म संलेपनाद्देवि! सर्वग्रहविनाशनम् । वन्ध्या पुत्रप्रदं देवि! नात्र कार्या विचारणा ॥१३॥

Verse

गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः । स्वयोनिरिव गोप्तव्यं न देयं यस्य कस्यचित् ॥१४॥

Verse

इति श्रीमहाकालककाराद्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

mantrasiddhipradamahādurgāśatanāmastotram
mahācakravartināmāṣṭottaraśatastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms