Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīpītāmbarāṣṭottaraśatanāmastotram

श्रीपीताम्बराष्टोत्तरशतनामस्तोत्रम्

Verse

श्रीगणेशाय नमः ।

Verse

श्रीभगवान उवाच ।

Verse

इतीदं नामसाहस्रं ब्रह्मन्स्ते गदितं मया । नाम्नामष्टोत्तरशतं शृणुष्व गदितं मम ॥१॥

Verse

ॐ पीताम्बरा शूलहस्ता वज्रा वज्रशरीरिणी । तुष्टिपुष्टिकरी शान्तिर्ब्रह्माणी ब्रह्मवादिनी ॥२॥

Verse

सर्वालोकननेत्रा च सर्वरोगहरापि च । मङ्गला मङ्गलास्नाता निष्कलङ्का निराकुला ॥३॥

Verse

विश्वेश्वरी विश्वमाता ललिता ललिताकृतिः । सदाशिवैकग्रहणी चण्डिका चण्डविक्रमा ॥४॥

Verse

सर्वदेवमयी साक्षात्सर्वागमनिरूपिता । ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ॥५॥

Verse

योगमार्गपरायोगीयौगिध्येयपदाम्बुजा । योगेन्द्रा योगिनीपूज्या योगसूर्याङ्गनन्दिनी ॥६॥

Verse

इन्द्रादिदेवतावृन्दस्तूयमानात्मवैभवा । विशुद्धिदा भयहरा भक्तद्वेषीक्षयङ्करी ॥७॥

Verse

भवपाशविनिर्मुक्ता भेरुण्डा भैरवार्चिता । बलभद्रप्रियाकाराहालामदरसोधृता ॥८॥

Verse

पञ्चभूतशरीरस्था पञ्चकोशप्रपञ्चहृत् । सिंहवाहा मनोमोहा मोहपाशनिकृन्तनी ॥९॥

Verse

मदिरा मदिरोन्मादमुद्रा मुद्गरधारिणी । सावित्री प्रसावित्री च परप्रियविनायका ॥१०॥

Verse

यमदूती पिङ्गनेत्रा वैष्णवी शाङ्करी तथा । चन्द्रप्रिया चन्दनस्था चन्दनारण्यवासिनी ॥११॥

Verse

वदनेन्दुप्रभापूर पूर्णब्रह्माण्डमण्डला । गान्धर्वी यक्षशक्तिश्च कैराती राक्षसी तथा ॥१२॥

Verse

पापपर्वतदम्भोलिर्भयध्वान्तप्रभाकरा । सृष्टिस्थित्युपसंहारकारिणि कनकप्रभा ॥१३॥

Verse

लोकानां देवतानाञ्च योषितां हितकारिणी । ब्रह्मानन्दैकरसिका महाविद्या बलोन्नता ॥१४॥

Verse

महातेजोवती सूक्ष्मा महेन्द्रपरिपूजिता । परापरवती प्राणा त्रैलोक्याकर्षकारिणी ॥१५॥

Verse

किरीटाङ्गदकेयूरमाला मञ्जिरभूषिता । सुवर्णमालासञ्जप्ताहरिद्रास्रक् निषेविता ॥१६॥

Verse

उग्रविघ्नप्रशमनी दारिद्र्यद्रुमभञ्जिनी । राजचोरनृपव्यालभूतप्रेतभयापहा ॥१७॥

Verse

स्तम्भिनी परसैन्यानां मोहिनी परयोषिताम् । त्रासिनी सर्वदुष्टानां ग्रासिनी दैत्यराक्षसाम् ॥१८॥

Verse

आकर्षिणी नरेन्द्राणां वशिनी पृथिवीमृताम् । मारिणी मदमत्तानां द्वेषिणी द्विषितां बलात् ॥१९॥

Verse

क्षोभिणि शत्रुसङ्घानां रोधिनी शस्त्रपाणिनाम् । भ्रामिणी गिरिकूटानां राज्ञां विजय वर्द्धिनी ॥२०॥

Verse

ह्लीं कार बीज सञ्जाप्ता ह्लीं कार परिभूषिता । बगला बगलावक्त्रा प्रणवाङ्कुर मातृका ॥२१॥

Verse

प्रत्यक्ष देवता दिव्या कलौ कल्पद्रुमोपमा । कीर्त्तकल्याण कान्तीनां कलानां च कुलालया ॥२२॥

Verse

सर्व मन्त्रैक निलया सर्वसाम्राज्य शालिनी । चतुःषष्ठी महामन्त्र प्रतिवर्ण निरूपिता ॥२३॥

Verse

स्मरणा देव सर्वेषां दुःखपाश निकृन्तिनी । महाप्रलय सङ्घात सङ्कटद्रुम भेदिनी ॥२४॥

Verse

इतिते कथितं ब्रह्मन्नामसाहस्रमुत्तमम् । अष्टोत्तरशतं चापि नाम्नामन्ते निरूपितम् ॥२५॥

Verse

काश्मीर केरल प्रोक्तं सम्प्रदायानुसारतः । नामानिजगदम्बायाः पठस्वकमलासन ॥२६॥

Verse

तेनेमौदानवौवीरौस्तब्ध शक्ति भविष्यतः । नानयोर्विद्यते ब्रह्मनूभयं विद्या प्रभावतः ॥२७॥

Verse

ईश्वर उवाच ।

Verse

इत्युक्तः सतदाब्रह्मा पठन्नामसहस्रकम् । स्तम्भयामास सहसा तयीः शक्तिपराक्रमात् ॥२८॥

Verse

इतिते कथितं देवि नामसाहस्रमुत्तमम् । परं ब्रह्मास्त्र विद्याया भुक्ति मुक्ति फलप्रदम् ॥२९॥

Verse

यः पठेत्पाठयेद्वापि शृणोति श्रावयेदिदम् । स सर्वसिद्धि सम्प्राप्य स्तम्भयेदखिलं जगत् ॥३०॥

Verse

इति मे विष्णुना प्रोक्तं महास्तम्भकरं परम् । धनधान्य गजाश्वादि साधकं राज्यदायकम् ॥३१॥

Verse

प्रातःकाले च मध्याह्ने सन्ध्याकाले च पार्वति । एकचित्तः पठेदेतत्सर्वसिद्धिं च विन्दति ॥३२॥

Verse

पठनादेकवारस्य सर्वपापक्षयो भवेत् । वारद्वयस्य पठनाद्गणेश सदृशो भवेत् ॥३३॥

Verse

त्रिवारं पठनादस्य सर्वसिद्ध्यति नान्यथा । स्तवस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः ॥३४॥

Verse

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां वश्यार्थी वशयेज्जगत् ॥३५॥

Verse

महीपतिर्वत्सरस्य पाठाच्छत्रुक्षयो भवेत् । पृथ्वीपतिर्वशस्तस्य वत्सरात्स्मरसुन्दरः ॥३६॥

Verse

य पठेत्सर्वदा भक्त्या श्रीयुक्तो भवति प्रिये । गणाध्यक्षः प्रतिनिधिः कविः काव्य इवापरः ॥३७॥

Verse

गोपनीयं प्रयत्नेन जननीजारवत्प्रिये । शक्तियुक्तः पठेन्नित्यं पीताम्बरधरः स्वयम् ॥३८॥

Verse

य इदं पठते नित्यं शिवेन सदृशो भवेत् । धर्मार्थकाममोक्षाणां पतिर्भवति मानवः ॥३९॥

Verse

सत्यं सत्यं मया देवि रहस्यं सम्प्रकाशितम् । स्तवस्यास्य प्रभावेन किं न सिद्ध्यति भूतले ॥४०॥

Verse

स्तम्भितावास्कराः सर्वे स्तवराजस्य कीर्त्तनात् । मधु कैटभ दैतेन्द्रौध्वस्तशक्ति बभूवतुः ॥४१॥

Verse

इदं सहस्रनामाख्यं स्तोत्रं त्रैलोक्य पावनम् । एतत्पठति यो मन्त्री फलं तस्य वदाम्यहम् ॥४२॥

Verse

राजानो वश्यतां यान्ति यान्ति पापानि संक्षयः । गिरयः समतां यान्ति वह्निर्गच्छति शीतताम् ॥४३॥

Verse

प्रचण्डा सौम्यतां यान्ति शोषयान्त्येव सिन्धवः । धनैः कोशा विवर्धते जनैश्च विविधालयाः ॥४४॥

Verse

मन्दिराः स्करगैः पूर्णा हस्तिशालाश्च हस्तिभिः । स्तम्भयेद्विषतां वाचं गतिं शस्त्रं पराक्रमम् ॥४५॥

Verse

रवेरथं स्तम्भयति सञ्चारं च नभस्वतः । किमन्यं बहुनोक्तेन सर्वकार्यकृति क्षयम् ॥४६॥

Verse

स्तवराजमिदं जप्त्वा न मातुर्गर्भगो भवेत् । तेनेष्टाक्रतवः सर्वे दत्तादानपरम्पराः ॥४७॥

Verse

व्रतानि सर्वाण्यातानियेनायं पठ्यते स्तवः । निशीथकाले प्रजपेदेकाकी स्थिर मानसः ॥४८॥

Verse

पीताम्बरधरी पीतां पीतगन्धानुलेपनाम् । सुवर्णरत्नखचितां दिव्य भूषण भूषिताम् ॥४९॥

Verse

संस्थाप्य वामभागेतु शक्तिं स्वामि परायणाम् । तस्य सर्वार्थ सिद्धिःस्याद्यद्यन्मनसि कल्पते ॥५०॥

Verse

ब्रह्महत्यादि पापानि नश्यन्तेस्यजपादपि । सहस्रनाम तन्त्राणां सारमाकृत पार्वति ॥५१॥

Verse

मया प्रोक्तं रहस्यं ते किमन्य श्रोतुमर्हसि ॥५२॥

Verse

॥ इति श्रीउत्कट शम्बरे नागेन्द्रप्रयाण तन्त्रे षोडश साहस्रग्रन्थे विष्णु शङ्कर संवादे श्रीपीताम्बरा अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

śrīpārvatyaṣṭottaraśatanāmastotram
śrīvṛndāvaneśvaryā aṣṭottaraśatanāmastotraṃ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms