Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīpārthasārathyaṣṭottaraśatanāmastotram

श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम्

Verse

ध्यानम् - मुरान्तकं सुरार्चितं धरापतिं परात्परं निरामयं जराहरं करेण वेत्रधारिणम् । सदा ऋते प्रतिष्ठितं भजामि विश्वरूपिणं सदाशिवप्रियं हरिं नमामि पार्थसारथिम् ॥१॥

Verse

भूपेन तेन मुचुकुन्द महात्मना यः संस्थापितोस्त्र मुचुकुन्दपुरे मनोज्ञे । शङ्खेन चारुतरवेत्रधृतेन दोष्णा संक्षोभयन्तमखिलं भुवनं तमिडे ॥२॥

Verse

पार्थस्य युद्ध विमुखस्य हृदिस्थ मौढ्यम् गीतामृतेन शमितं किल येन सद्यः । वेदान्तवेद्यमनघं पुरुषं पुराणम् तं पार्थसारथिमहं प्रणतोऽस्मि भक्त्या ॥३॥

Verse

अथ स्तोत्रम् ।

Verse

ॐ श्रीकृष्णः पार्थसूतः श्रीतुलसीवनसंश्रितः । ईश ईड्य इळाकान्तो लीलार्थमनुजाकृतिः ॥१॥

Verse

कृतभारतयुद्धार्थसूतवेषः श्रियःपतिः । व्यासप्रत्यक्षितस्वार्चविग्रहो विमलो विभुः ॥२॥

Verse

कृष्णार्तिघ्नः कैरविणीसरस्तीरविहारभूः । रुक्मिणी सात्यकीरामप्रद्युम्नोषाधवान्वितः ॥३॥

Verse

आत्रेयपूजासन्तुष्टो वृन्दारण्यकृतालयः । आनन्दाख्यविमानस्थ आत्रेयर्षिप्रतिष्ठितः ॥४॥

Verse

प्रपन्नागोहरः पार्थराज्यदो रुक्मिणीप्रियः । शङ्खराड्दक्षिणकरो वरदेतरपाणिमान् ॥५॥

Verse

नन्दकी गोविन्द उरुक्रमः कल्याणकारणम् । सुमत्याख्यनृपश्रेष्ठवरदो वेङ्कटेश्वरः ॥६॥

Verse

नीळाधवो धरानन्दवर्धनो वृष्णि पुङ्गवः । सुमत्यवनिपालार्थकुटुम्बसहितः सुधीः ॥७॥

Verse

वेदवेद्योऽच्युतो यज्ञमूर्तिर्यज्ञभुगुत्तमः । सुमतिप्रेमरचितमहोत्सवविधिप्रियः ॥८॥

Verse

महामतिर्महाभागो महायोगी कविप्रियः । विष्णुर्वेङ्कटकृष्णाख्यो वरदो वत्सलोस्नघः ॥९॥

Verse

सालिग्रामशिलामाली पीनवक्षाः प्रियोत्सवः । केशवार्येष्टिसन्तुष्टो यतीन्द्रोत्पत्ति कारणम् ॥१०॥

Verse

मयूरनगरीनाथो जगद्दुरितभञ्जनः । गीतोपनिषदाचार्यो विश्वरूपप्रदर्शनः ॥११॥

Verse

भक्तिसारतपस्तुष्टोस्नन्तोस्नन्तगतिः पतिः । भक्तिसारस्तुतस्तोत्रप्रियः पक्षीश्वरध्वजः ॥१२॥

Verse

परकालादिसूक्तीड्यो वासुदेवः सुरारिहा । इन्द्रसोमाग्नि वरुणमीनतीर्थविहारभूः ॥१३॥

Verse

गम्भीराम्भस्समद्भूतसद्यःसम्फुल्लपद्मदृक् । पञ्चमूर्तिः पञ्चहेतिः पञ्चबाणपिता हरिः ॥१४॥

Verse

मन्मथो वेदवल्लीशो श्रीशः सर्वशुभाश्रयः । भृगुपुत्रीप्रियो देवः भृग्वाराधनतोषितः ॥१५॥

Verse

चतुर्भुजः पद्मनाभः शेषशायी सुखायनम् । माघशुक्ल द्वादशीकृतोद्वाहश्च कृपानिधिः ॥१६॥

Verse

रामः सीतासमायुक्तो मधुमद्वरदो वसुः । ससौमित्रिः सभरतः साञ्जनेयो धनुर्धरः ॥१७॥

Verse

गजेन्द्रवरदस्तार्क्ष्यसमारूढो नृपार्चितः । आरूढयोगो नृहरिर्मौद्गल्यवरदोस्मलः ॥१८॥

Verse

शरण्यः शरणः शान्तः शरणागतवत्सलः । महामन्त्रार्चनप्रीतो महैश्वर्यप्रदायकः ॥१९॥

Verse

॥ फलश्रुतिः ॥

Verse

य इदं परमं पुण्यं नाम्नामष्टोत्तर शतम् । पार्थस्य सारथेःस्तोत्रं सर्वाभीष्टप्रदायकम् ॥१॥

Verse

प्रत्यहं प्रातरुत्थाय प्रयतः पठते नरः । तस्य विद्या धनं शान्तिः पुष्टिस्तुष्टिश्च जायते ॥२॥

Verse

स्वयमेव हरिः साक्षात् भूत्वा सारथिरुत्तमः । तस्य जीवनयात्रायां कुरुते सर्वमङ्गलम् ॥३॥

Verse

इति श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

śrīpārthasārathyaṣṭottaraśatanāmastotram
śrīpārvatyaṣṭottaraśatanāmastotram

Read next

More on श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम्

  • श्रीपार्थसारथ्यष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms