aSTottaranAma
vakārādi śrīvāmanāṣṭottaraśatanāmastotram
वकारादि श्रीवामनाष्टोत्तरशतनामस्तोत्रम्
Verse
वामनो वारिजाताक्षो वर्णी वासवसोदरः । वासुदेवो वावदूको वालखिल्यसमो वरः ॥१॥
Verse
वेदवादी विद्युदाभो वृतदण्डो वृषाकपिः । वारिवाहसितच्छत्रो वारिपूर्णकमण्डलुः ॥२॥
Verse
वलक्षयज्ञोपवीतो वरकौपीनधारकः । विशुद्धमौञ्जीरशनो विधृतस्फाटिकस्रजः ॥३॥
Verse
वृतकृष्णाजिनकुशो विभूतिच्छन्नविग्रहः । वरभिक्षापात्रकक्षो वारिजारिमुखो वशी ॥४॥
Verse
वारिजाङ्घ्रिर्वृद्धसेवी वदनस्मितचन्द्रिकः । वल्गुभाषी विश्वचित्तधनस्तेयी विशिष्टधीः ॥५॥
Verse
वसन्तसदृशो वह्नि शुद्धाङ्गो विपुलप्रभः । विशारदो वेदमयो विद्वदर्धिजनावृतः ॥६॥
Verse
वितानपावनो विश्वविस्मयो विनयान्वितः । वन्दारुजनमन्दारो वैष्णवर्क्षविभूषणः ॥७॥
Verse
वामाक्षीमदनो विद्वन्नयनाम्बुजभास्करः । वारिजासनगौरीशवयस्यो वासवप्रियः ॥८॥
Verse
वैरोचनिमखालङ्कृद्वैरोचनिवनीवकः । वैरोचनियशस्सिन्धुचन्द्रमा वैरिबाडबः ॥९॥
Verse
वासवार्थस्वीकृतार्थिभावो वासितकैतवः । वैरोचनिकराम्भोजरससिक्तपदाम्बुजः ॥१०॥
Verse
वैरोचनिकराब्धारापूरिताञ्जलिपङ्कजः । वियत्पतितमन्दारो विन्ध्यावलिकृतोत्सवः ॥११॥
Verse
वैषम्यनैर्घृण्यहीनो वैरोचनिकृतप्रियः । विदारितैककाव्याक्षो वांछिताज्ङ्घ्रित्रयक्षितिः ॥१२॥
Verse
वैरोचनिमहाभाग्य परिणामो विषादहृत् । वियद्दुन्दुभिनिर्घृष्टबलिवाक्यप्रहर्षितः ॥१३॥
Verse
वैरोचनिमहापुण्याहार्यतुल्यविवर्धनः । विबुधद्वेषिसन्त्रासतुल्यवृद्धवपुर्विभुः ॥१४॥
Verse
विश्वात्मा विक्रमक्रान्तलोको विबुधरञ्जनः । वसुधामण्डलव्यापिदिव्यैकचरणाम्बुजः ॥१५॥
Verse
विधात्रण्डविनिर्भेदिद्वितीयचरणाम्बुजः । विग्रहस्थितलोकौघो वियद्गङ्गोदयाङ्घ्रिकः ॥१६॥
Verse
वरायुधधरो वन्द्यो विलसद्भूरिभूषणः । विष्वक्सेनाद्युपवृतो विश्वमोहाब्जनिस्स्वनः ॥१७॥
Verse
वास्तोष्पत्यादिदिक्पालबाहुर्विधुमयाशयः । विरोचनाक्षो वह्न्यास्यो विश्वहेत्वर्षिगुह्यकः ॥१८॥
Verse
वार्धिकुक्षिर्वारिवाहकेशो वक्षस्थ्सलेन्दिरः । वायुनासो वेदकण्ठो वाक्छन्दा विधिचेतनः ॥१९॥
Verse
वरुणस्थानरसनो विग्रहस्थचराचरः । विबुधर्षिगणप्राणो विबुधारिकटिस्थलः ॥२०॥
Verse
विधिरुद्रादिविनुतो विरोचनसुतानन्दनः । वारितासुरसन्दोहो वार्धिगम्भीरमानसः ॥२१॥
Verse
विरोचनपितृस्तोत्रकृतशान्तिर्वृषप्रियः । विन्ध्यावलिप्राणनाध भिक्षादायी वरप्रदः ॥२२॥
Verse
वासवत्राकृतस्वर्गो वैरोचनिकृतातलः । वासवश्रीलतोपघ्नो वैरोचनिकृतादरः ॥२३॥
Verse
विबुधद्रुसुमापाङ्गवारिताश्रितकश्मलः । वारिवाहोपमो वाणीभूषणोऽवतु वाक्पतिः ॥२४॥
Verse
॥ इति वकारादि श्री वामनावताराष्टोत्तरशतम् पराभव श्रावण बहुल प्रतिपदि लिखितं रामेण समर्पितं च श्री हयग्रीवायदेवाय ॥
