aSTottaranAma
rāmānujāṣṭottaraśatanāmastotram
रामानुजाष्टोत्तरशतनामस्तोत्रम्
Verse
ॐ श्रीमते रामानुजाय नमः ॥
Verse
ॐ रामानुजः पुष्कराक्षो यतीन्द्रः करुणाकरः । कान्तिमत्यात्मजः श्रीमाँल्लीलामानुषविग्रहः ॥१॥
Verse
सर्वशास्त्रार्थतत्त्वज्ञः सर्वज्ञः सज्जनप्रियः । हारीतगोत्रतिलकः श्रीभूतपुरपालकः ॥२॥
Verse
अनघो भक्तमन्दारः केशवानन्दवर्धनः । काञ्चीपूर्णप्रियसखः प्रणतार्तिविनाशकः ॥३॥
Verse
पुण्यसङ्कीर्तनः पुण्योब्रह्मराक्षसमोचकः । यादवापादितापार्थवृक्षच्छेदकुठारकः ॥४॥
Verse
अमोघो लक्ष्मणमुनिः शारदाशोकनाशकः । निरन्तरजनाज्ञानविमोचनविचक्षणः ॥५॥
Verse
वेदान्तद्वयसारज्ञो वरदाम्बुप्रदायकः । पराभिप्रायतत्त्वज्ञो यामुनाङ्गुलिमोचकः ॥६॥
Verse
देवराजकृपालब्धषड्वाक्यार्थमहोदधिः । पूर्णार्यलब्धसन्मन्त्रः शौरिपादाब्जषट्पदः ॥७॥
Verse
त्रिदण्डधारी ब्रह्मज्ञो ब्रह्मध्यानपरायणः । रङ्गेशकैङ्कर्यरतो विभूतिद्वयनायकः ॥८॥
Verse
गोष्ठीपूर्णकृपालब्धमन्त्रराजप्रकाशकः । वररङ्गानुकम्पात्तद्राविडाम्नायपारगः ॥९॥
Verse
मालाधगयसुज्ञात द्राविडाम्नायतत्त्वधीः । चतुस्सप्ततिशिष्याढ्यः पञ्चाचार्यपदाश्रयः ॥१०॥
Verse
प्रपीतविषतीर्थाम्भः प्रकटीकृतवैभवः । प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनः ॥११॥
Verse
पवित्रीकृतकूरेश भागिनेयत्रिदण्डकः । कूरेशदासरथ्यादिचरमार्थप्रदायकः ॥१२॥
Verse
रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवः । देवराजार्चनरतो मूकमुक्तिप्रदायकः ॥१३॥
Verse
यज्ञमूर्तिप्रतिष्ठाता मन्नाथो धरणीधरः । वरदाचार्येसद्भक्तो यज्ञेशार्तिविनाशकः ॥१४॥
Verse
अनन्ताभीष्टफलदो विठ्ठलेशप्रपूजितः । श्रीशैलपूर्णकरुणालब्धरामायणार्थकः ॥१५॥
Verse
प्रपत्तिधर्मैकरतो गोविन्दार्यप्रियानुजः । व्याससूत्रार्थतत्त्वज्ञो बोधायनमतानुगः ॥१६॥
Verse
श्रीभाष्यादिमहाग्रन्थकारकः कलिनाशनः । अद्वैतमतविच्छेत्ता विशिष्टाद्वैतपारगः ॥१७॥
Verse
कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशकः । विनाशिताखिलमतश्शेषीकृतरमापतिः ॥१८॥
Verse
पुत्रीकृतशठारातिश्शठजिदृणमोचकः । भाषादत्तहयग्रीवो भाष्यकारो महायशाः ॥१९॥
Verse
पवित्रीकृतभूभागः कूर्मनाथप्रकाशकः । श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकः ॥२०॥
Verse
श्रीवेङ्कटेशश्वशुरः श्रीरमासखदेशिकः । कृपामात्रप्रसन्नार्यो गोपिकामोक्षदायकः ॥२१॥
Verse
समीचीनार्यसच्छिष्यसत्कृतो वैष्णवप्रियः । कृमिकण्ठनृपध्वंसी सर्वमन्त्रमहोदधिः ॥२२॥
Verse
अङ्गीकृतान्ध्रपूर्णार्यस्सालग्रामप्रतिष्ठितः । श्रीभक्तग्रामपूर्णाढ्य विष्णुवर्धनरक्षकः ॥२३॥
Verse
बौद्धध्वान्तसहस्रांशुःशेषरूपप्रदर्शकः । नगरीकृतवेदाद्रिर्ढिल्लीश्वरसमर्थितः ॥२४॥
Verse
नारायणप्रतिष्ठाता सम्पत्पुत्रविमोचकः । सम्पत्कुमारजनकः साधुलोकशिखामणिः ॥२६॥
Verse
सुप्रतिष्ठितगोविन्दराजः पूर्णमनोरथः । गोदाग्रजो दिग्विजेता गोदाभीष्टप्रपूरकः ॥२६॥
Verse
सर्वसंशयविच्छेत्ता विष्णुलोकप्रदायकः । अव्याहतमहद्वर्मा यतिराजो जगद्गुरुः ॥२७॥
Verse
एवं रामानुजार्यस्य नाम्नामष्टोत्तरं शतम् । यः पठेच्छृणुयाद्वापि सर्वान्कामान्समश्नुते ॥२८॥
Verse
यदान्ध्रपूर्णेन महात्मनेदं स्तोत्रं कृतं सर्वजनावनाय । तज्जीवभूतं भुवि वैष्णवानां बभूव रामानुजमात्तसानाम् ॥२९॥
Verse
इति श्रीमद्रामानुजाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
