aSTottaranAma
rāmanāmāṣṭottaraśatarāmāyaṇam
रामनामाष्टोत्तरशतरामायणम्
Verse
श्रीपतिः शेषशयनो रक्ष(१)स्त्रस्तसुरस्तुतः । वितीर्णेष्टाभयवरः सत्यसन्धः सुराश्रयः ॥१॥
Verse
ऋष्यशृङ्गेष्टिसम्भूतः सूर्यवंशविभूषणः । चतु(२)र्मूतिर्दाशरथिः कौसल्येयोऽतिसुन्दरः ॥२॥
Verse
कैकेयीनन्दनो रामः सुमित्रानन्दवर्धनः । लक्ष्मणानुचरो विद्वान् वसिष्ठच्छात्रसत्तमः ॥३॥
Verse
कौशिकात्तधनुर्वेदः सर्वशस्त्रास्त्रविद्वरः । ताडका(३)स्वनिलाहीषुर्मखप्रत्यूहनाशनः ॥४॥
Verse
सुबाहुप्राणसंहर्ता मारीच(४)स्मयभञ्जनः । अहल्यांहो(५)नगपविः शतानन्दस्तवाञ्चितः ॥५॥
Verse
महेश्वरधनुर्भेत्ता जानकीप्राणवल्लभः । जामदग्न्याहङ्कृतिघ्नः पितृचित्तप्रसाधकः ॥६॥
Verse
गुर्वर्थत्यक्तराज्यश्रीर्दारानुजसमन्वितः । सुमन्त्रसूतः सत्वाढ्यो वल्कली गुहसत्कृतः ॥७॥
Verse
भरद्वाजाभ्यनुज्ञातश्चित्रकूटकृतस्थितिः । निवापविधि(६)सन्निष्ठो भरतार्पितपादुकः ॥८॥
Verse
लब्धात्रिसत्कृतिः श्रीमान् मुनिप्रणतिसादरः । विराधोद्धरणोत्साही शरभङ्ग(७)सभाजितः ॥९॥
Verse
सुतीक्ष्णकृतसत्कारः कुम्भसम्भवपूजितः । कृतपञ्चवटीवासो जटायुर्विहितादरः ॥१०॥
Verse
छिन्नशूर्पणखाघ्राणः खरघ्नो दूषणान्तकः । मायास्वर्णैणमारीचरक्षःप्राणापहारकः ॥११॥
Verse
यतिच्छद्मदशग्रीव(८)हृतप्राणप्रियाङ्गनः । दयिताविरहात्यार्त(९)सर्वकामिविडम्बकः ॥१२॥
Verse
स्वतातसखगृध्रेन्द्रसुदुरापगतिप्रदः । कबन्धबाहुबन्धच्छित् शबरीक्षण निर्वृतः ॥१३॥
Verse
पम्पातीरस्मृतप्राणप्रेयसीशोकविह्वलः । हनूमद्दर्शनप्रीतः सुग्रीवकृतसौहृदः ॥१४॥
Verse
प्रियोत्तरीयभूषेक्षास्पर्शानन्दनिमीलितः । सप्ततालभिदुद्दामवालिहृद्भेदनिष्टुरः ॥१५॥
Verse
सुग्रीवार्पितराज्यश्रीरङ्गजाङ्गदवत्सलः । प्रियान्वेषणनु(१०)न्नर्क्षकुञ्जरप्लवगर्षभः ॥१६॥
Verse
(११)स्तुततीर्णाब्धिदृष्टार्थदग्धलङ्काञ्जनाङ्गजः । नैकर्क्षवानरचमूशतकम्पितभूनगः ॥१७॥
Verse
शरण्यः शरणप्राप्तबिभीषणकृतोदयः । सेतुकृत्तीर्णवार्राशिः सामार्थप्रहिताङ्गदः ॥१८॥
Verse
रक्षःकक्षमहादावो मेघनादान्तकानुजः । कुम्भकर्णाद्रिवज्रेषुर्दशास्यगजकेसरिः ॥१९॥
Verse
दत्तदिव्यप्रियोपेतः पुष्पकाक्रमिताम्बरः । गुहविश्लेषतापघ्नो भरद्वाजाप्तसद्वरः ॥२०॥
Verse
भरतप्रियकृद्राजपौरगुर्वभिषेचितः । अगस्त्यादिमहर्षीड्यः सर्वप्राणिहितोद्यतः ॥२१॥
Verse
कृतप्रजातिकल्याणो व्य(१२)सुविप्रात्मजासुदः । शत्रुघ्नघातितात्युग्रद्विजारिलवणासुरः ॥२२॥
Verse
त्रिजगद्गीतसत्कीर्तिरेकदुर्मतिनिन्दितः । संत्यक्त(१३)सत्वसम्पन्नोदारदारसमागमः ॥२३॥
Verse
प्राचेतसाश्रमप्राप्ततेजःकुशलवात्मजः । अश्वमेधोत्सवावाप्तवाल्मीकिच्छात्रनन्दनः ॥२४॥
Verse
भूयोदिव्यमहीमग्नमहिलाविरहातुरः । पुत्राष्टकपृथग्दत्तराज्यः प्राज्यप्रसादकृत् ॥२५॥
Verse
शासना(१४)तिक्रमत्यक्तप्राणात्यधिकलक्ष्मणः । विहितस्वयशस्तुल्यप्रभञ्जनसुतस्थितिः ॥२६॥
Verse
आर्केन्दु(१५)भूमि स्वकथाबिभीषणकृताभयः । सुहृद्भरतशत्रुघ्नसुग्रीवात्मगतिप्रदः ॥२७॥
Verse
सर्वसत्वप्रियः पौरस्थितिसन्तानलोककृत् । विमानारोपिताशेषराष्ट्रायोध्याजनः प्रभुः ॥२८॥
Verse
पवित्रसेव्यचरितो निगमाद्य(१६)कविस्तुतः । नमन्(१७)मयूरमुदिरः पुण्यश्लोकशिखामणिः ॥२९॥
Verse
इति श्रीरामभद्रस्य नाम्नामष्टोत्तरं शतम् । रामायणपयोराशेरुद्धृतं परमामृतम् ॥३०॥
Verse
श्रीरामः जयति ॥
Verse
इति श्रीरामनन्दनमयूरेश्वरकृतं रामनामाष्टोत्तरशतरामायणं सम्पूर्णम् ।
