Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

māṇikyavācakāṣṭottaraśatanāmastotram

माणिक्यवाचकाष्टोत्तरशतनामस्तोत्रम्

Verse

अक्षस्रक्पुस्तकोद्भासिहस्तं माणिक्यवाचकम् । काश्यपं समयाचार्यं दाक्षिणात्यं उपास्महे ॥१॥

Verse

ॐ ।

Verse

मार्ताण्डतेजा माणिक्यवाचको माननिर्भरः । महेन्द्रवरदो मन्त्री मायाविरहितात्मवान् ॥२॥

Verse

मारबाधाविनिर्मुक्तो मारतूणीरजङ्घिकः । मारुताशफणाभूषो महेश्वरजनेश्वरः ॥३॥

Verse

मातृकान्यासनिरतो मातृपादाब्जपूजकः । मायापायविनिर्मुक्तो मानदो मार्गदर्शकः ॥४॥

Verse

मारवैरिकृपापात्रायमानोत्तमवाग्झरः । मायावादविनिर्जेता महातीर्थकृतादरः ॥५॥

Verse

निरन्तरो नित्यतपा नित्यतृप्तो निधीश्वरः । निष्कलङ्को निरीहश्च नियतो निरहङ्कृतिः ॥६॥

Verse

निमित्तज्ञो निराधारो निर्ममो नित्यरञ्जनः । नित्योत्साहो निरातङ्को नियतिज्ञो नियामकः ॥७॥

Verse

नियन्ता निगमार्थाब्धिवर्धनोत्थनिशापतिः । कर्मण्यः करुणापूर्णः कारणज्ञः कवीश्वरः ॥८॥

Verse

कालज्ञः कुलकृत्कल्यः कलानाथमुखोज्ज्वलः । कम्बुकण्ठः कलाज्ञानः कैवल्यपदबोधकः ॥९॥

Verse

करपद्मधृताक्षस्रक्पुस्तकः कनकाम्बरः । कटीतटीलसत्सूत्रः कौपीनवरधारकः ॥१०॥

Verse

कीर्तिमान्कामारिभक्तः कामपाशविवर्जितः । वातग्रामाधिपो वाग्मी वातूलागमपारगः ॥११॥

Verse

वाय्वाहारेशवचनो वाचस्पति समानधीः । वाराणसीवासरतो वाङ्माधुर्यजितामृतः ॥१२॥

Verse

वातापितापनसखो वायुरोगविवर्जितः । वाचालको वाहिनीशो वाच्यवाचकसुन्दरः ॥१३॥

Verse

वाङ्मनोतीतविभवो वासुदेवपदप्रियः । वाराहीमन्त्रराड्जप्ता वामदेवस्तुतिप्रियः ॥१४॥

Verse

वामाङ्गसुन्दरतनुर्वाण्याराधनतत्परः । चतुरश्चण्डवीर्यश्च चण्डाज्ञश्चन्द्रशीतलः ॥१५॥

Verse

चण्डांशुसदृशज्योतिश्चतुर्वेदाब्धिपारगः । चाञ्चल्यभिच्चमत्कारी चातुर्वर्ण्यानुपालकः ॥१६॥

Verse

चन्द्रशेखरभक्तश्च चन्द्रार्काग्निसमप्रभः । चराचरजगन्मित्रं चिन्मूर्तिश्चञ्चलाद्युतिः ॥१७॥

Verse

चतुर्वक्त्रमुखोत्पन्नश्चरणाश्रितभूपतिः । चन्द्रचूडनिभौजाश्च चण्डेश्वरसमानधीः ॥१८॥

Verse

कञ्जदृक्कल्याणशीलः काषाय वसनोज्ज्वलः । कवाटकठिनोरस्कः कन्दर्पसमकान्तिमान् ॥१९॥

Verse

कार्पासयज्ञोपवीती कलिदोषनिकृन्तनः । करीन्द्रमन्दगमनः करुणारसशेवधिः ॥२०॥

Verse

कलुषघ्नः कलालापः कवची काश्यपस्तथा । कनकाङ्गदधारी च कर्मग्रन्थिविमोचकः ॥२१॥

Verse

कमलद्विट्पदद्वन्द्वः कमनीयः कुलेश्वरः । अष्टोत्तरमिदं नाम्नां शतं वातपुरीशितुः ॥२२॥

Verse

त्रिसन्ध्यं यः पठेन्नित्यं वातरोगाद्विमुच्यते । योगाम्बिकासनाथस्य कृपापात्रं भवेच्च सः ॥२३॥

Verse

इति श्रीमाणिक्यवाचकाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

mahātripurasundaryaṣṭottaraśatanāmastotram
śrīmātaṅgīśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms