Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

mahātripurasundaryaṣṭottaraśatanāmastotram

महात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रम्

Verse

(अथ श्रीकालीविलासतन्त्रे एकादशपटलः ।) श्रीदेव्युवाच ।

Verse

महात्रिपुरसुन्दर्याः शतनामानि साम्प्रतम् । कथ्यन्तां मे दया नाथ यद्यप्यस्ति तदा मयि ॥१॥

Verse

श्रीतामस उवाच ।

Verse

शृणु चार्वङ्गि वक्ष्यामि सावधानाऽवधारय । यन्त्रोक्तं सर्वतन्त्रेषु अधुना निगदामि ते ॥२॥

Verse

अस्य श्रीत्रिपुरसुन्दरी-शतनामस्तोत्रस्य परं ब्रह्मऋषिर्गायत्रीच्छन्दो महात्रिपुरसुन्दरी देवता धर्मार्थ-काम-मोक्षेषु विनियोगः ॥

Verse

ॐ महामाया महादेवी मेनका मेघगर्जिनी । मोहिनी हरिणाक्षी च हारिणी हरवल्लभा ॥३॥

Verse

हरिपूज्या हराराध्या हेरा हेमवती हरा । हेमरूपा च हेमा च हेमाभरणभूषिता ॥४॥

Verse

रङ्गिणीरङ्गरूपा च राधा वृन्दावनेश्वरी । वलावलवती बाला बालिका वेशधारिणी ॥५॥

Verse

वयस्था वेशधा चैव विद्या श्रीविष्णुपूजिता । वियद्गङ्गा व्योमगङ्गा विशाला विश्वमोहिनी ॥६॥

Verse

रङ्गिणी रङ्गणीया च रणभूमिकतालया । पूता पवित्रा परमा परा पुण्याविभूषण ॥७॥

Verse

पुण्यनाम्नी पापहन्त्री पापारिः पापनाशिनी । पुण्यदा पुण्यकीर्त्तिश्च पुण्यश्लोका च पावनी ॥८॥

Verse

रूपमाला रूपवती रसावेशपरिच्छदा । रक्षणी रक्षणीया च रुक्ममाला विभूषणा ॥९॥

Verse

रसरूपा रसोल्लासा रसानघपरिच्छदा(१) । रम्भारामा च रम्या च रमणी रामपूजिता ॥१०॥

Verse

सौभाग्या सुवशासाध्वी सत्यासत्यस्वरूपिणी । त्रिगुणात्रिगुणाराध्या त्रिवेदी त्रिगुणेश्वरी ॥११॥

Verse

त्रिमूर्तिस्त्रिदशाराध्या त्रयोत्रिदिवसुन्दरी । सुखदा सुमुखी सुभ्रुः सुवेशी वेशधारिणी ॥१२॥

Verse

आनन्दा नन्दिनी नन्दा परमानन्दरूपिणी । ईश्वरी ईश्वराराध्या रक्तपद्मसमप्रभा ॥१३॥

Verse

राकारम्या रक्तदेहा रमणी ब्रह्ममोहिनी । योगिनीनां स्वरूपा च ब्रह्माण्डजननी परा ॥१४॥

Verse

नामाक्षरात् समुद्धृत्य दशनाम इतीरितम् । चन्दोऽस्य च प्रवक्ष्यामि शृणु पार्वति सारदे(२) ॥१५॥

Verse

अस्य श्रीत्रिपुरसुन्दरी शतनामस्तोत्रस्य परं ब्रह्मऋषिः श्रीमहात्रिपुरसुन्दरी देवता-धर्मार्थकाममोक्षेषु विनियोगः ॥

Verse

दशधा मन्त्रमुच्चार्य ततश्छन्दः पठेत्सुधीः । ततः स्तोत्रं पठित्वा तु सर्वसिद्धीश्वरः कलौ ॥१६॥

Verse

भवत्येव न सन्देहः त्रिसन्ध्यं कमलेक्षणे । लक्षावर्त्तनमात्रेण अष्टैश्वर्यमयो भवेत् ॥१७॥

Verse

मद्यञ्च मैथुनं भद्रे परयोनौ परित्यजेत् । परयोनौ महेशानि रेतः पातञ्च वर्ज्जयेत् ॥१८॥

Verse

रेतः पातान्मद्यपानात् सिद्धिहानिः पदे पदे ॥१९॥

Verse

इति श्रीकालीविलासतन्त्रे त्रिपुरसुन्दरी शतनामस्तोत्रं समाप्तम् ।

Verse

ॐ तत्सदित्यादि ।

Verse

इति श्रीकालीविलासतन्त्रे एकादशपटलः समाप्तः ।

mahācakravartināmāṣṭottaraśatastotram
māṇikyavācakāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms