aSTottaranAma
āryatārāṣṭottaraśatanāmastotram
आर्यताराष्टोत्तरशतनामस्तोत्रम्
Verse
ॐ नमः श्री आर्यतारायै ।
Verse
श्रीमत्पोतलके रम्ये नानाधातुविराजिते । नानाद्रुमलताकीर्णे नानापक्षिनिकूजिते ॥१॥
Verse
नानानिर्झरभाङ्कारैर्नानामृगसमाकुले । नानाकुसुमजातीभिः समन्तादधिवासिते ॥२॥
Verse
नानाहृद्यफलोपेतषट्पदोद्गीतनिःस्वनैः । किन्नरैर्मधुरोद्गीतैर्मत्तरवारणसङ्कुलैः ॥३॥
Verse
सिद्धविद्याधरगणैर्गन्धर्वैश्च निनादिते । मुनिभिर्वीतरागैश्च सततं सुनिषेविते ॥४॥
Verse
बोधिसत्त्वगणैश्चान्यैर्दशभूमीश्वरैरपि । आर्यतारादिभिर्देवैर्विद्याराज्ञीसहस्रकैः ॥५॥
Verse
क्रोधराजगणैश्चान्यैर्हयग्रीवादिभिर्वृते । सर्वसत्त्वहिते युक्तो भगवानवलोकितः ॥६॥
Verse
व्याजहार ततः श्रीमान् पद्मगर्भासने स्थितः । महता तपसा युक्तो मैत्र्या च कृपयान्वितः ॥७॥
Verse
धर्मं दिदेश तस्यां च महत्यां देवपर्षदि । तत्रापविद्धमागम्य वज्रपाणिर्महाबलः ॥८॥
Verse
परया कृपया युक्तः पप्रच्छ चावलोकितम् । तस्करोरगसिंहोग्रगजव्याघ्रादिसङ्कुले ॥९॥
Verse
सीदन्त्यमी मुने सत्त्वा मग्नाः संसारसागरे । बद्धाः सांसारिकैः पाशै रागद्वेषतमोमयैः ॥१०॥
Verse
मुच्यन्ते येन सत्त्वास्ते तन्मे ब्रूहि महामुने । एवमुक्तो जगन्नाथः स श्रीमानवलोकितः ॥११॥
Verse
उवाच मधुरां वाणीं वज्रपाणिं प्रबोधिनीम् । शृणु गुह्यकराजेन्द्र अमिताभस्य तायणीः(णीम्) ॥१२॥
Verse
प्रणिधानवशोत्पन्नां ममाज्ञां लोकमातरम् । महाकरुणयोपेतां जगदुद्धरणोद्धृताम् ॥१३॥
Verse
उदितादित्यसङ्काशां पुर्णेन्दुवदनप्रभाम् । भाषयन्तीमिमां तारां सदेवासुरमानुषान् ॥१४॥
Verse
कम्पयन्तीं च त्रीन् लोकान् त्रासयन्तीं यक्षराक्षसान् । नीलोत्पलकरां देवीं मा भैर्मा भैरिति ब्रुवन् ॥१५॥
Verse
जगत्संरक्षणार्थयाहमुत्पादिता जिनैः । कान्तारे शस्त्रसम्पाते नानाभयसमाकुले ॥१६॥
Verse
स्मरणादेव नामानि सत्त्वान् रक्षाम्यहं सदा । तारयिष्याम्यहं सत्त्वान् नानाभयमहार्णवात् ॥१७॥
Verse
तेन तारेति मां लोके गायन्ति मुनिपुङ्गवाः । कृताञ्जलिपुटो भूत्वा ततः सादरसाध्वसः ॥१८॥
Verse
ज्वलयत्यन्तरिक्षे तामिदं वचनमब्रवीत् । नामाष्टशतकं ब्रूहि यत्पुरा कीर्तितं जनैः ॥१९॥
Verse
दशभूमीश्वरैर्नाथैर्बोधिसत्त्वैर्महर्द्धिकैः । सर्वपापहरं पुण्यं माङ्गल्यं कीर्तिवर्द्धनम् ॥२०॥
Verse
धनधान्यकरं चैव आरोग्यं पुष्टिवर्धनम् । आयुरारोग्यजनकं सर्वसत्त्वसुखावहम् ॥२१॥
Verse
लक्ष्म्याः श्रियः स्थापकं च सर्वसत्त्वविवर्द्धनम् । मैत्रीमालम्ब्य सत्त्वानां तत्कीर्तय महामुने ॥२२॥
Verse
एवमुक्ते जगन्नाथः प्रहसन्नवलोकितः । व्यवलोक्य दिशः सर्वा मैत्रीस्फरणया दृशा ॥२३॥
Verse
दक्षिणं करमुद्धृत्य पुण्यलक्षणमण्डितम् । तमुवाच महाप्राज्ञः साधु साधु महातप ॥२४॥
Verse
नामानि शृणु महाभाग सर्वसत्त्वैकवत्सरे । यानि सङ्कीर्त्य मनुजा सम्पदा स्युर्धनेश्वराः ॥२५॥
Verse
सर्वव्याधिविनिर्मुक्ताः सर्वैश्वर्यगुणान्विताः । अकालमृत्युनिर्दग्धाश्च्युता यान्ति सुखावतीम् ॥२६॥
Verse
तान्यहं संप्रवक्ष्यामि देवसङ्घाः शृणुत मे । अनुमोदध्वमेतद्वा भविष्यध्वं सुनिर्वृताः ॥२७॥
Verse
मैत्रीहृदये निर्मले श्यामे श्यामरूपि महाप्राज्ञे प्रबलवरभूषिते ।
Verse
अपराजिता महारौद्री विश्वरूपी महाबला । ॐ सुश्रिये ॥२८॥
Verse
ॐ कल्याणी महातेजा लोकधात्री महायशाः । सरस्वती विशालाक्षी प्रज्ञा श्रीर्बुद्धिवर्धिनी ॥२९॥
Verse
धृतिदा पुष्टिदा स्वाहा ॐकारा कामरूपिणी । सर्वसत्त्वहितोद्युक्ता सङ्ग्रामोत्तारिणी जया ॥३०॥
Verse
प्रज्ञापारमिता देवी आर्यतारा मनोरमा । दुन्दुभी शङ्खिनी पूर्णा विद्याराज्ञी प्रियम्वदा ॥३१॥
Verse
चन्द्रानना महागौरी अजिता पीतवाससा । महामाया महाश्वेता महाबलपराक्रमा ॥३२॥
Verse
महारौद्री महाचण्डी दुष्टसत्त्वनिषूदिनी । प्रशान्ता शान्तरूपा च विजया ज्वलनप्रभा ॥३३॥
Verse
विद्युन्मारी ध्वजी खङ्गी चक्री चापोद्यतायुधा । जम्भनो स्तम्भनी काली कालरात्रिर्निशाचरी ॥३४॥
Verse
रक्षणी मोहनी शान्ता कान्तारी द्रावणी शुभा । ब्रह्माणी वेदमाता च गुह्या च गुह्यवासिनी ॥३५॥
Verse
माङ्गल्या शाङ्करी सौम्या जातवेदा मनोजवा । कपालिनी महावेगा सन्ध्या सत्याऽपराजिता ॥३६॥
Verse
सार्थवाहकृपादृष्टिर्नष्टमार्गप्रदर्शिनी । वरदा शासनी शास्त्री सुरूपाऽमृतविक्रमा ॥३७॥
Verse
शर्वरी योगिनी सिद्धा चण्डारी(ली)अमृता ध्रुवा । धन्या पुण्या महाभागा शुभगा प्रियदर्शना ॥३८॥
Verse
कृतान्तत्रासिनी भीमा उग्रा उग्रमहातपा । जगद्धिते सदोद्युक्ता शरण्या भक्तवत्सला ॥३९॥
Verse
वागीश्वरी शिवा सूक्ष्मा नित्या सर्वक्रमानुगा । सर्वार्थसाधनी भद्रा गोप्त्री धात्री धनप्रदा ॥४०॥
Verse
अभया गौतमी पुण्या श्रीमल्लोकेश्वरात्मजा ॥
Verse
तारानामगुणानन्ता सर्वाशापरिपूरका ॥४१॥
Verse
ॐ तारे कृपावरे श्रीक्लेशश्रवणीये स्वाहा ।
Verse
नाम्नामष्टोत्तरशतं ह्येतद्यत्कीर्तितं मया । रहस्यभूतं गुह्यं च देवानामपि दुर्लभम् ॥४२॥
Verse
सौभाग्यभोगकरणं सर्वकिल्विषनाशनम् । सर्वव्याधिप्रशमनं सर्वसत्त्वसुखावहम् ॥४३॥
Verse
त्रिकालं यः पठेद्धीमान् शुचिस्थाने समाहितः । सोऽचिरेणैव कालेन राज्यश्रियमवाप्नुयात् ॥४४॥
Verse
दुःखी स्यात्तु सुखी नित्यं दरिद्रो धनवान् भवेत् । पुत्रो भवेन्महाप्राज्ञो मेधावी च न संशयः ॥४५॥
Verse
बन्धनान्मुच्यते बद्धो व्यवहारे जयोअ भवेत् । शत्रवो मित्रतां यान्ति शृङ्गिणः शुनका अपि ॥४६॥
Verse
सङ्ग्रामे सङ्कटे दुर्गे नानाभयसमुच्छ्रिते । स्मरणादेव नामानि सर्वान्भयानपोहति ॥४७॥
Verse
नाकालमृत्युर्भवति प्राप्नोति विपुलाशयम् । मानुष्ये सफलं जन्म तस्यैकस्य महात्मनः ॥४८॥
Verse
यश्चेदं प्रातरुत्थाय मानवः कीर्तयिष्यति । स दीर्घकालमायुष्मान् श्रियं च लभते नरः ॥४९॥
Verse
देवा नागास्तथा यक्षा गन्धर्वा कठपूतनाः । पिशाचा राक्षसा भूता मातरो रौद्रतेजसाः ॥५०॥
Verse
डाकिन्यस्तारकाः प्रेताः स्कन्दोमाद्या महाग्रहाः । छायापस्मारकाश्चैव खेटका खार्दकादयः ॥५१॥
Verse
वेतालाश्चिञ्चका प्रेष्या ये चान्ये दुष्टचेतसः । छायामपि न लङ्घन्ति किं पुनस्तस्य विग्रहम् ॥५२॥
Verse
दुष्टसत्त्वा न बाधन्ते व्याधयो नाक्रमन्ति च । सर्वैश्वर्यगुणैर्युक्तो वंशवृद्धिश्च जायते ॥५३॥
Verse
जातिस्मरो भवेद् धीमान् कुलीनः प्रियदर्शनः । प्रीतिमांश्च महावाग्मी सर्वशास्त्रविशारदः ॥५४॥
Verse
कल्याणमित्रसंसेवी बोधिचित्तविभूषितः । सदाऽविरहितो बुद्धैर्यत्र यत्रोपपद्यते ॥५५॥
Verse
इति श्रीआर्यताराभट्टारिकाया नामाष्टोत्तरशतं बुद्धपरिभाषितं परिसम्पूर्णम् ॥
