Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

āpaduddhārakabaṭukabhairavāṣṭottaraśatanāmastotram

आपदुद्धारकबटुकभैरवाष्टोत्तरशतनामस्तोत्रम्

Verse

(रुद्रयामलेतन्त्रेविश्वसारोद्धारे) अथ मूलनामावलीपाठः - ॐ ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः । क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट् ॥१॥

Verse

श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः । रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥२॥

Verse

कङ्कालः कालशमनः कलाकाष्ठातनुः कविः । त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥३॥

Verse

शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः । अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥४॥

Verse

धनदोऽधनहारी च धनवान् प्रतिभानवान् । नागहारो नागपाशो व्योमकेशः कपालभृत् ॥५॥

Verse

कालः कपालमाली च कमनीयः कलानिधिः । त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपः ॥६॥

Verse

त्रिनेत्रतनयो डिम्भशान्तः शान्तजनप्रियः । बटुको बहुवेषश्च खट्वाङ्गवरधारकः ॥७॥

Verse

भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः । धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥८॥

Verse

प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः । अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥९॥

Verse

अष्टाधारः षडाधारः सर्पयुक्त शिखीसखः । भूधरो भूधराधीशो भूपतिर्भूधरात्मजः ॥१०॥

Verse

कङ्कालधारी मण्डी च आन्त्रयज्ञोपवीतवान् । जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥११॥

Verse

शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डभूषितः । बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥१२॥

Verse

सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः । कामी कलानिधिकान्तः कामिनीवशकृद् वशी ॥१३॥

Verse

जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः । सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव ह्रि ह्रीं ॐ ॥१४ (सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः करोतु शम्) ॥१४॥

Verse

फलश्रुतिपाठः - (शिवपार्वतीसंवादे) अष्टोत्तरशतं नाम्ना भैरवस्य महात्मनः । मया ते कथितं देवि रहस्यं सर्वकामदम् ॥

Verse

य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् । न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥

Verse

न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् । न शत्रुभ्यो भयं किञ्चित् प्राप्नुयान्मानवः क्वचित् ॥

Verse

पातकेभ्यो भयं नैव यः पठेत् स्तोत्रमुत्तमम् । मारीभये राजभये तथा चौराग्निजे भये ॥

Verse

औत्पातिके महाघोरे तथा दुःस्वप्नदर्शने । बन्धने च तथा घोरे पठेत् स्तोत्रमनुत्तमम् ॥

Verse

सर्व प्रशममायाति भयं भैरवकीर्तनात् । एकादशसहस्रन्तु पुरश्चरणमुच्यते ॥

Verse

यस्त्रिसन्ध्यं पठेद्देवि संवत्सरमतन्द्रितः । स सिद्धिं प्राप्नुयादिष्टां दुर्लभामपि मानवः ॥

Verse

षण्मासं भूमिकामस्तु जपित्वा प्राप्नुयान्महीम् । राजशत्रुविनाशार्थं पठेन्मासाष्टकं पुनः ॥

Verse

रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् । जपेन्मासत्रयं मर्त्यो राजान वशमानयेत् ॥

Verse

धनार्थी च सुतार्थी च दारार्थी चापि मानवः । पठेन्मासत्रयं देवि वारमेकं तथा निशि ॥

Verse

धनं पुत्रं तथा दारान् प्राप्नुयान्नात्र संशयः ।

Verse

रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् । भीतो भयात् प्रमुच्येत तत्तदापन्न आपदः ॥

Verse

निगडैश्चापि बद्धो यः कारागृहनिपातितः । शृङ्खलाबन्धनं प्राप्तः पठेच्चैव दिवानिशम् ॥

Verse

यान् यान् समीहते कामाँस्ताँस्तानाप्नोति मानवः । अप्रकाश्यं परं गुह्यं न देयं यस्य कस्यचित् ॥

Verse

सुकुलीनाय शान्ताय ऋजव दम्भवर्जिते(ने) । दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ॥

Verse

य इदं पठते नित्यं धनधान्यमवाप्नुयात् । ॥ इति श्रीरुद्रयामलेतन्त्रेविश्वसारोद्धारे श्रीमदापदुद्धारकबटुकभैरवस्तोत्रं सम्पूर्णम् ॥

śrīmadānandanaṭarājāṣṭottaraśatanāmastotram
āryatārāṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms