aSTakam
saṃkaṭanāśagaṇeśāṣṭakam (nāradapurāṇāṃtargataṃ)
संकटनाशगणेशाष्टकम् (नारदपुराणांतर्गतं)
Verse
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयुःकामार्थ सिद्धये ॥१॥
Verse
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
Verse
लंबोदरं पञ्चमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजं च धूम्रवर्णं तथाऽष्टमम् ॥३॥
Verse
नवमं फालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
Verse
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥५॥
Verse
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी मोक्षमाप्नुयात् ॥६॥
Verse
जपेत् गणपतिस्तोत्रं षण्मासात् स फलं भजेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
Verse
अष्टानां ब्राह्मणानां च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः ॥८॥
