Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīśivarāmāṣṭakastotram (śrīrāmānandasvāmi viracitam)

श्रीशिवरामाष्टकस्तोत्रम् (श्रीरामानन्दस्वामि विरचितम्)

Verse

शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे प्रभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥१॥

Verse

कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते । शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम् ॥२॥

Verse

सुजनरञ्जन मङ्गलमन्दिरं भजति ते पुरुषः परमं पदम् । भवति तस्य सुखं परमद्भुतं शिव हरे विजयं कुरु मे वरम् ॥३॥

Verse

जय युधिष्ठिरवल्लभ भूपते जय जयार्जितपुण्यपयोनिधे । जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम् ॥४॥

Verse

भवविमोचन माधव मापते सुकविमानसहंस शिवारते । जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम् ॥५॥

Verse

अवनिमण्डलमङ्गल मापते जलदसुन्दर राम रमापते । निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम् ॥६॥

Verse

पतितपावन नाममयी लता तव यशो विमलं परिगीयते । तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम् ॥७॥

Verse

अमरतापरदेव रमापते विजयतस्तव नामधनोपमा । मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम् ॥८॥

Verse

हनुमतः प्रिय चापकर प्रभो सुरसरिद्धृतशेखर हे गुरो । ममविभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम् ॥९॥

Verse

अहरहर्जनरञ्जनसुन्दरं पठति यः शिवरामकृतं स्तवम् । विशति रामरमाचरणाम्बुजे शिव हरे विजयं कुरु मे वरम् ॥१०॥

Verse

प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः । विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥११॥

rādhikādhipāṣṭakam (nimbārkācāryakṛtam)
kāmākṣyaṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms