aSTakam
śrīśaṅkarācaryakṛtagurvaṣṭakam
श्रीशङ्कराचर्यकृतगुर्वष्टकम्
Verse
शरीरं सुरूपं तथा वा कलत्रं यशश्चारुचित्रं धनं मेरुतुल्यम् । मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे ततःकिं? ततःकिं? ततःकिं? ततःकिं? ॥१॥
Verse
कलत्रं धनं पुत्रपौत्रादि सर्वम् गृहं बान्धवाः सर्वमेतद्धि जातम् । गुरोरंघ्रिपद्मे मनश्चेन्न लग्नं’ ततःकिं? ततःकिं? ततःकिं? ततःकिं? ॥२॥
Verse
षडंगादिवेदो मुखे शास्त्रविद्या कवित्वादिगद्यं सुपद्यं करोति । गुरोरंघ्रिपद्मे … … … … … ॥३॥
Verse
विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः । गुरोरंघ्रिपद्मे … … … … … ॥४॥
Verse
क्षमामण्डले भूपभूपालवृन्दैः सदा सेवितं यस्य पादारविन्दम् । गुरोरंघ्रिपद्मे … … … … … ॥५॥
Verse
यशो मे गतं दिक्षु दानप्रतापा- ज्जगद्वस्तु सर्वं करे यत्प्रसादात् । गुरोरंघ्रिपद्मे … … … … … ॥६॥
Verse
न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तम् । गुरोरंघ्रिपद्मे … … … … … ॥७॥
Verse
अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये । गुरोरंघ्रिपद्मे … … … … … ॥८॥
Verse
अनर्घ्याणि रत्नानि मुक्तानि सम्यक् समालिंगिता कामिनी यामिनीषु । गुरोरंघ्रिपद्मे … … … … … ॥९॥
Verse
गुरोरष्टकं यः पठेत् पुण्यदेही यतिर्भूपतिर्ब्रह्मचारी च गेही । लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं गुरावुक्तवाक्ये मनो यस्य लग्नम् ॥१०॥
