aSTakam
śabarīśāṣṭakam (mūlamantrākṣaramālāstotram)
शबरीशाष्टकम् (मूलमन्त्राक्षरमालास्तोत्रम्)
Verse
ओङ्कारामृतबिन्दुसुन्दरतनुं मोहान्धकारारुणं दीनानां शरणं भवाब्धितरणं भक्तैकसंरक्षणम् । दिष्ट्या त्वां शबरीश, दिव्यकरुणापीयूषवारान्निधिं दृष्ट्योपोषितया पिबन्नयि विभो धन्योऽस्मि धन्योऽस्म्यहम् ॥१॥
Verse
’घ्रू’ङ्कारात्मकमुग्रभावविलसद्रूपं, कराग्रोल्लसत् कोदण्डाधिकचण्ड, माशुगमहावेगे तुरङ्गे स्थितम् । दृष्ट्यैवारिविमर्ददक्ष,मभयङ्कारं शरण्यं सतां, शास्तारं मणिकण्ठमद्भुतमहावीरं समाराधये ॥२॥
Verse
’न’म्राणां हृदयान्तरेषु, महिते पम्पात्रिवेणीजले, प्रौढारण्यपरम्परासु, गिरिकूटेष्वम्बरोल्लङ्घिषु । हंहो किं बहुना? – विभान्तमनिशं सर्वत्र तेजोमयं कारुण्यामृतवर्षिणं हरिहरानन्दाङ्कुरं भावये ॥३॥
Verse
’म’र्त्यास्तापनिवर्तये भजत मां सत्यं शिवं सुन्दरं शास्तारं शबरीश्वरं च भवतां भूयात् कृतार्थं जनुः । लोलानन्ततरङ्गभङ्गरसनाजालैरितीयं मुदा पम्पा गायति भूतनाथचरणप्रक्षालनी पावनी ॥४॥
Verse
’प’ङ्क्तिस्था इह सङ्घगानकुशलाः नीलीवने पावने त्वन्माहात्म्यगुणानुकीर्तनमहानन्दे निमग्ना द्विजाः । भक्तानां श्रवणेषु नादलहरीपीयूषधारां नवां नित्यानन्दधनां विभो, विदधते देवाय तुभ्यं नमः ॥५॥
Verse
’रा’जन्ते परितो जरद्विटपिनोवल्लीजटोद्भासिन- स्त्वद्ध्यानैकपरायणाः स्थिरतमां शान्तिं समासादिताः । आनीलाम्बरमर्घ्यभाण्डमनिशं मूर्ध्ना वहन्तः स्थिता- स्तं त्वां श्रीशबरीश्वरं शरणदं योगासनस्थं भजे ॥६॥
Verse
’य’स्मिन् लब्धपदा प्रशान्तिनिलये लीलावने तावके सङ्गीतैकमये निरन्तरसमारोहावरोहात्मके । एषा मामकचेतना परचिदानन्दस्फुरद्गात्रिका हा! हा! ताम्यति; हन्त ! तामनुगृहाणानन्दमूर्ते, विभो ॥७॥
Verse
’गो’प्त्रे विश्वस्य हर्त्रे बहुदुरितकृतो मर्त्यलोकस्य शश्वत् कर्त्रे भव्योदयानां निजचरणजुषो भक्तलोकस्य नित्यम् । शास्त्रे धर्मस्य, नेत्रे श्रुतिपथचरणाभ्युद्यतानां, त्रिलोकी- भर्त्रे भूताधिभर्त्रे, शबरिगिरिनिवासाय तुभ्यं नमोऽस्तु ॥८॥
