aSTakam
śrīnandakumārāṣṭakam
श्रीनन्दकुमाराष्टकम्
Verse
सुन्दरगोपालम् उरवनमालं नयनविशालं दुःखहरम् । वृन्दावनचन्द्रमानन्दकन्दं परमानन्दं धरणिधरम् ॥
Verse
वल्लभघनश्यामं पूर्णकामम् अत्यभिरामं प्रीतिकरम् । भज नन्दकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ॥१॥
Verse
सुन्दरवारिजवदनं निर्जितमदनम् आनन्दसदनं मुकुटधरम् । गुञ्जाकृतिहारं विपिनविहारं परमोदारं चीरहरम् ॥वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरम् ॥२॥
Verse
शोभितमुखधुलं यमुनाकूलं निपटअतूलं सुखदतरम् ।
Verse
मुखमण्डितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् । वल्लभमतिविमलं शुभपदकमलं नखरुचि अमलं तिमिरहरम् ॥३॥
Verse
शिरमुकुटसुदेशं कुञ्चितकेशं नटवरवेशं कामवरम् ।
Verse
मायाकृतमनुजं हलधरअनुजं प्रतिहतदनुजं भारहरम् । वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरम् ॥४॥
Verse
इन्दीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरम् ।
Verse
हृत्मन्मथमानं रूपनिधानं कृतकलगानं चित्तहरम् । वल्लभमृदुहासं कुञ्जनिवासं विविधविलासं केलिकरम् ॥५॥
Verse
अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरम् ।
Verse
मोहनमतिधीरं फणिबलवीरं हतपरवीरं तरलतरम् । वल्लभव्रजरमणं वारिजवदनं हलधरशमनं शैलधरम् ॥६॥
Verse
जलधरद्युतिअङ्गं ललितत्रिभङ्गं बहुकृतरङ्गं रसिकवरम् ।
Verse
गोकुलपरिवारं मदनाकारं कुञ्जविहारं गूढतरम् । वल्लभव्रजचन्द्रं सुभगसुछन्दं कृतआनन्दं भ्रान्तिहरम् ॥७॥
Verse
वन्दितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरम् ।
Verse
कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् । वल्लभदुःखहरणं निर्मलचरणम् अशरणशरणं मुक्तिकरम् ॥८॥
Verse
॥ इति श्रीमहाप्रभुवल्लभाचार्यविरचितं श्रीनन्दकुअमराष्टकं सम्पूर्णम्॥
