Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīdīnabandhvaṣṭakam

श्रीदीनबन्ध्वष्टकम्

Verse

यस्मादिदं जगदुदेति चतुर्मुखाद्यं यस्मिन्नवस्थितमशेषमशेषमूले । यत्रोपयाति विलयं च समस्तमन्ते दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥१॥

Verse

चक्रं सहस्रकरचारु करारविन्दे गुर्वी गदा दरवरश्च विभाति यस्य । पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥२॥

Verse

येनोद्धृता वसुमती सलिले निमग्ना नग्ना च पाण्डववधूः स्थगिता दुकूलैः । सम्मोचितो जलचरस्य मुखाद्गजेन्द्रो दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥३॥

Verse

यस्यार्द्रदृष्टिवशतस्तु सुराः समृद्धिम् कोपेक्षणेन दनुजा विलयं व्रजन्ति । भीताश्चरन्ति च यतोऽर्कयमानिलाद्याः दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥४॥

Verse

गायन्ति सामकुशला यमजं मखेषु ध्यायन्ति धीरमतयो यतयो विविक्ते । पश्यन्ति योगिपुरुषाः पुरुषं शरीरे दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥५॥

Verse

आकाररूपगुणयोगविवर्जितोऽपि भक्तानुकम्पननिमित्तगृहीतमूर्तिः । यः सर्वगोऽपि कृतशेषशरीरशय्यो दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥६॥

Verse

यस्याङ्घ्रिपङ्कजमनिद्रमुनीन्द्रवृन्दै-राराध्यते भवदवानलदाहशान्त्यै । सर्वापराधमविचिन्त्य ममाखिलात्मा दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥७॥

Verse

यन्नामकीर्तनपरः श्वपचोऽपि नूनं हित्वाखिलं कलिमलं भुवनं पुनाति । दग्ध्वा ममाघमखिलं करुणेक्षणेन दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः ॥८॥

Verse

दीनबन्ध्वष्टकं पुण्यं ब्रह्मानन्देन भाषितम् । यः पठेत् प्रयतो नित्यं तस्य विष्णुः प्रसीदति ॥९॥

Verse

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम्॥

jagannāthāṣṭakam
śrīnandakumārāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms